१४ रात्रिहोमेष्वपां होमः २

विश्वास-प्रस्तुतिः

अ॒द्भ्यस् स्वाहा॑ । वह॑न्तीभ्य॒स् स्वाहा॑ । प॒रि॒वह॑न्तीभ्य॒स् स्वाहा॑ ।
स॒म॒न्तव्ँ वह॑न्तीभ्य॒स् स्वाहा॑ ।
शीघ्रव्ँ॒ वह॑न्तीभ्य॒स्स्वाहा॑ ।
शीभव्ँ॒ वह॑न्तीभ्य॒स् स्वाहा॑ ।
उ॒ग्रव्ँ वह॑न्तीभ्य॒स् स्वाहा॑ ।
भी॒मव्ँ वह॑न्तीभ्य॒स् स्वाहा॑ ।

विश्वास-प्रस्तुतिः

अम्भो॑भ्य॒स् स्वाहा॑ । +++(अम्भांसि अस्मिन् लोके भवाः आपः ‘अयं वै लोकोम्भांसि’ इति ब्राह्मणम् ।)+++
नभो॑भ्य॒स् +++(अन्तरिक्षस्थाभ्यः)+++ स्वाहा॑ ।
महो॑भ्य॒स् +++(द्युस्थाभ्यः)+++ स्वाहा॑ । सर्व॑स्मै॒ स्वाहा॑ ॥ [40]