१३ रात्रिहोमेष्वपां होमः १

विश्वास-प्रस्तुतिः

कूप्या॑भ्य॒स् स्वाहा॑ । कूल्या॑भ्य॒स्+++(=कूले भवाभ्यः)+++ स्वाहा॑ ।
वि॒क॒र्या॑भ्य॒स्+++(=भूविवरस्थाभ्यः)+++ स्वाहा॑ । अ॒व॒ट्या॑भ्य॒स्+++(=गर्तस्थाभ्यः)+++ स्वाहा॑ ।
खन्या॑भ्य॒स् स्वाहा॑ ।

विश्वास-प्रस्तुतिः

ह्रद्या॑भ्य॒स् स्वाहा॑ । सूद्या॑भ्य॒स्+++(=अशोष्य-पङ्कस्थाभ्यः/ काष्ठादि-यन्त्रोन्नेयाभ्यः)+++ स्वाहा॑ ।
+++(स्वयमुत्पन्न-)+++स॒र॒स्या॑भ्य॒स् स्वाहा॑ ।
वै॒श॒न्तीभ्य॒स्+++(←आर्तास्वार्तासु स्फुटं पुनःपुनर्विशन्ति)+++ स्वाहा॑ ।
प॒ल्व॒ल्या॑भ्य॒स्+++(=वन्या जलाशयाः)+++ स्वाहा॑ ।

विश्वास-प्रस्तुतिः

वर्ष्या॑भ्य॒स् स्वाहा॑ । अ॒व॒र्ष्याभ्य॒स् स्वाहा॑ ।
ह्रा॒-दुनी॑भ्य॒स्+++(=शब्दाभ्यः)+++ स्वाहा॑ ।
पृ+++(प्रु)+++ष्वा॑भ्य॒स्+++(←प्रुष्णाति सिञ्चतीति)+++ स्वाहा॑ ।
स्यन्द॑मानाभ्य॒स् स्वाहा॑ ।
स्था॒व॒राभ्य॒स् स्वाहा॑ ।

विश्वास-प्रस्तुतिः

ना॒दे॒यीभ्य॒स् स्वाहा॑ । सै॒न्ध॒वीभ्य॒स् स्वाहा॑ । स॒मु॒द्रिया॑भ्य॒स् स्वाहा॑ ।
सर्वा॑भ्य॒स् स्वाहा॑ ॥ [39]