१२ अश्वमेधाङ्गापाव्य-होम-मन्त्राः, परि-यान-मन्त्राश्च

विश्वास-प्रस्तुतिः

+++(रात्रिहोमेष्व् अग्नि-पर्यग्नि-करणे चाश्वस्य ।)+++
+++(हे अश्व)+++ मे॒षस् त्वा॑ पच॒तैर्+++(=पचनीयैः [अन्नैः सह])+++ अ॑वतु॒ , +++(अजानां मुख्यः)+++ लोहि॑त-ग्रीव॒श् छागैः॑ ,
शल्म॒लिर् +++(पादपो वर्षिष्ठः)+++ वृद्ध्या॑,
प॒र्णो+++(=पलाशः)+++ ब्रह्म॑णा ,
प्ल॒क्षो +++(वृक्षविशेषो)+++ मेधे॑न ,
न्य॒ग्रोध॑श् चम॒सैर्,
उ॑दु॒म्बर॑ ऊ॒र्जा,
गा॑य॒त्री छन्दो॑भिस्,
त्रि॒वृत् स्तोमैः ।

विश्वास-प्रस्तुतिः

+++(मेषादीनाम् अवतां सम्बन्धिन्यो याः पत्न्यः)+++ अव॑न्ती॒स् स्थ।
अव॑न्तीस् त्वाऽवन्तु।

विश्वास-प्रस्तुतिः

प्रि॒यन् त्वा॑ प्रि॒याणाव्ँ॒,
वर्षि॑ष्ठ॒म् आप्या॑नान्+++(=वृद्धानाम्)+++,
निधी॒नान् त्वा॑ निधि॒पतिँ॑ हवामहे+++(=जुहुमः)+++, वसो मम! [38]