विश्वास-प्रस्तुतिः
+++(मासः = ५ षडहा इति प्रायेण।)+++
त्र्यहः
विश्वास-प्रस्तुतिः
ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति ।
अ॒स्मिन्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
गोष्टो॑मन् द्वि॒तीय॒म् उप॑ यन्ति ।
अ॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्ति ।
विश्वास-प्रस्तुतिः
आयु॑ष्टोमन् तृ॒तीय॒म् उप॑ यन्ति । अ॒मुष्मि॑न्न् ए॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वाव ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑ ।
यद् ए॒तान्त् स्तोमा॑न् उप॒यन्त्य् ए॒ष्व् ए॑व तल् लो॒केषु॑ स॒त्त्रिणᳶ॑ प्रति॒तिष्ठ॑न्तो यन्ति ।
ज्योतिर्-विराट्-त्वम् ...{Loading}...
विश्वास-प्रस्तुतिः
ते +++(ज्योतिर्गौरायुरिति त्रयः)+++ सँस्तु॑ता वि॒राज॑म् +++(दशाक्षरां)+++ अ॒भि सम्प॑द्यन्ते ।[32]
+++(गोआयुषी)+++ द्वे च + ऋचा॒व् अति॑ रिच्येते - एक॑या॒ +++(२४१-स्तोत्रिया)+++ गौर् अति॑रिक्त॒ , एक॒या +++(२५९-स्तोत्रिया??)+++ ऽऽयु॑र् ऊ॒नः ।
+++(ज्योतिरतिरात्रस्य १९०*२ = ३७० स्तोत्रिया / ज्योतिष्टोमस्य १९० स्तोत्रिया इति कृत्वा, तस्यैव तु दशकपूरणम् भवति। ततो हि ज्योतिर् गृह्यते प्रथमं गोआयुषी परित्यज्य।)+++
विश्वास-प्रस्तुतिः
सु॒व॒र्गो वै लो॒को ज्योति॒र्, +++(यत)+++ ऊर्ग्+++(=अन्नं)+++ वि॒राट् ।
विश्वास-प्रस्तुतिः
ऊर्ज॑म् ए॒वाव॑ रुन्धते ।
ते न क्षु॒धा ऽऽर्ति॒म् आर्छ॑न्ति ।
अक्षो॑धका भवन्ति ।
क्षुथ्+++(निमित्तक)+++-स॑म्बाधा इव॒ हि स॒त्रिणः॑ ।
षडहः
विश्वास-प्रस्तुतिः
अ॒ग्नि॒ष्टो॒माव् अ॒भितᳶ॑ - +++(यतः)+++ +++(वक्ष्यमाण-देव-चक्र)+++प्र॒+++(=प्रान्ते)+++धी तौ ।
+++(गोआयुषी गोआयुषी इति चत्वार)+++ उ॒क्थ्या॑ मध्ये॒ - नभ्य॒न् तत्। तद् ए॒तत् प॑रि॒यद् दे॑वच॒क्रम् ।
यद् ए॒तेन॑ ष॒ड् अ॒हेन॒ यन्ति॑, देवच॒क्रम् ए॒व स॒मारो॑ह॒न्ति +अरि॑ष्ट्यै ।
ते स्व॒स्ति सम॑श्नुवते ।
विश्वास-प्रस्तुतिः
षड् वा ऋ॒तवः॑ । ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठन्ति ।
उ॒भ॒यतो॑ ज्योतिषा यन्ति ।
उ॒भ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति ।
षडहानुवर्तनम्
विश्वास-प्रस्तुतिः
द्वौ ष॑ड॒हौ भ॑वतः । तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते ।
द्वा॒द॒शो वै पुरु॑षो॒ - द्वे स॒क्थ्यौ॑+++(=पादमूले)+++ , द्वौ बा॒हू , आ॒त्मा च॒, शिर॑श् च, च॒त्वार्यङ्गा॑नि॒ +++(→हस्तौ पादौ च)+++, स्तनौ॑ +++(एकादश)+++द्वाद॒शौ । [36]
तत् पुरु॑ष॒म् अनु॑ प॒र्याव॑र्तन्ते ।
विश्वास-प्रस्तुतिः
त्रय॑ष् षड॒हा भ॑वन्ति ।
ता॒न्य् अ॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते ।
नवा॒न्यानि॒ नवा॒न्यानि । नव॒ वै पुरु॑षे प्रा॒णाः+++(=रन्ध्राणि)+++ ।
तत्प्रा॒णान् अनु॑ प॒र्याव॑र्तन्ते ।
विश्वास-प्रस्तुतिः
च॒त्वार॑ष् षड॒हा भ॑वन्ति ।
तानि॒ चतु॑र्विँशति॒र् अहा॑नि॒ सम्प॑द्यन्ते ।
चतु॑र्विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः ।
तत् सव्ँ॑वत्स॒रम् अनु॑ प॒र्याव॑र्त॒न्ते ।
मासानुवर्तनम्
विश्वास-प्रस्तुतिः
+++(मासमात्रम् प्रतिपादितम् इति)+++ “अप्र॑तिष्ठितस् सव्ँवत्स॒र” इति॒ खलु॒ वा आ॑हु॒र्, “वर्षी॑यान्+++(=वृद्धतरः [संवत्सरस् स्यात्])+++ प्रति॒ष्ठाया॒+++(य्)+++” इति॑ ।
+++(समाधानम् - )+++ ए॒ताव॒द् वै सव्ँ॑वत्स॒रस्य॒ ब्राह्म॑णय्ँ॒ याव॑न् मा॒सः ।
मा॒सिमा॑स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥ [37]