१० प्रायणीयम् अहः

अग्निष्टोमम्, उक्थम्, षोडशी, अतिरात्रम्

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य् - “अतिरा॒त्रᳶ प॑र॒मो य॑ज्ञ-क्रतू॒नाङ्, कस्मा॒त् तम् प्र॑थ॒मम् उप॑ य॒न्ति”+ इति॑ ।
+++(अथ समाधत्ते - )+++ ए॒तद् वा अ॑ग्निष्टो॒मम् प्र॑थ॒मम् उप॑य॒न्त्य्, अथो॒क्थ्य॑म्, अथ॑ षोड॒शिन॒म्, अथा॑तिरा॒त्रम् +++(संवत्सरस्य मुखय् एकाष्टकायाः ४ दिनेभ्यः पूर्वम् आरभ्य)+++।
अ॒नु॒पू॒र्वम् ए॒वैतद् य॑ज्ञक्र॒तून् उ॒पेत्य॒ तान् आ॒लभ्य॑ परि॒गृह्य॒ सोम॑म् ए॒वैतत् पिब॑न्त +++(संवत्सराय)+++ आसते ।

ज्योतिष्टोमम् अतिरात्रे

विश्वास-प्रस्तुतिः

ज्योति॑ष्टोमम् प्रथ॒मम् उप॑ यन्ति । ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म् मुख॑म् । मु॒ख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते ।

ज्योतिर्-विराट्-त्वम् ...{Loading}...

विश्वास-प्रस्तुतिः

ते +++(ज्योतिर्गौरायुरिति त्रयः)+++ सँस्तु॑ता वि॒राज॑म् +++(दशाक्षरां)+++ अ॒भि सम्प॑द्यन्ते ।[32] +++(गोआयुषी)+++ द्वे च + ऋचा॒व् अति॑ रिच्येते - एक॑या॒ +++(२४१-स्तोत्रिया)+++ गौर् अति॑रिक्त॒ , एक॒या +++(२५९-स्तोत्रिया??)+++ ऽऽयु॑र् ऊ॒नः ।
+++(ज्योतिरतिरात्रस्य १९०*२ = ३७० स्तोत्रिया / ज्योतिष्टोमस्य १९० स्तोत्रिया इति कृत्वा, तस्यैव तु दशकपूरणम् भवति। ततो हि ज्योतिर् गृह्यते प्रथमं गोआयुषी परित्यज्य।)+++

विश्वास-प्रस्तुतिः

सु॒व॒र्गो वै लो॒को ज्योति॒र्, +++(यत)+++ ऊर्ग्+++(=अन्नं)+++ वि॒राट् ।

विश्वास-प्रस्तुतिः

सु॒व॒र्गम् ए॒व तेन॑ लो॒कय्ँ य॑न्ति ।

सौरभविधानम्

विश्वास-प्रस्तुतिः

+++(अतिरात्रे)+++ “र॒थ॒न्त॒र॒न् दिवा॒ भव॑ति , रथन्त॒रन् नक्त॒म्” इत्य् आ॑हुर् ब्रह्मवा॒दिन॒ᳵ -“केन॒ तद् अजा॒मी"ति॑ । +++(उक्थ्यपर्याये)+++ सौ॒भ॒रन् तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम् बृ॒हत् । +++(बृहत् बृहता गेयः,)+++ तन् म॑ध्य॒तो द॑धति॒ विधृ॑त्यै । तेनाजा॑मि ॥ [33]