विश्वास-प्रस्तुतिः
सु॒व॒र्गव्ँ वा ए॒ते लो॒कय्ँ य॑न्ति॒ , ये स॒त्रम् उ॑प॒यन्ति॑ ।
+++(शरीरम्)+++ अ॒भीन्ध॑त ए॒व दी॒क्षाभि॑र् +++(ज्वालारूपाभिर्)+++ आ॒त्मानँ॑, श्रपयन्त उप॒सद्भिः+++(=दीक्षा-सुत्ययोस् समाप्तौ प्रावर्ग्यात् पूर्वं च क्रियमाणेन कर्मणा)+++ ।
विश्वास-प्रस्तुतिः
+++(द्वादशत्वं प्रकटयति -)+++
द्वाभ्याल्ँ॒ +++(दीक्षादिनाभ्याम्, उपसद्दिनाभ्यां च)+++ लोमाव॑-द्यन्ति॒+++(=छिन्दन्ति)+++,
द्वाभ्या॒न् त्वच॑म्,
द्वाभ्या॒म् असृ॑त्+++(क्)+++,
द्वाभ्या॑म् माँ॒सम्,
द्वाभ्या॒म् अस्थि॑,
द्वाभ्या॑म् म॒ज्जान॑म् ।
विश्वास-प्रस्तुतिः
आ॒त्म+++(=शरीर)+++-द॑क्षिणव्ँ॒ वै स॒त्त्रम् ।
आ॒त्मान॑म् ए॒व दक्षि॑णान् नी॒त्वा सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
विश्वास-प्रस्तुतिः
शिखा॒म् अनु॒ प्र व॑पन्त॒ , ऋद्ध्यै॑ +++(मृतत्वग्-रूपाणां केशानम् उपगमात्)+++ ।
अथो॒ र+++(ल)+++घी॑याँसस् सुव॒र्गल्ँ लो॒कम् अ॑या॒मेति॑ ॥ [31]