माघपक्षः
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒काया॑न्+++(=माघकृष्णाष्टम्यां)+++ दीक्षेरन् ।
ए॒षा वै सव्ँ॑वत्स॒रस्य॒ पत्नी॒ +++(उत्तरायणारम्भसमीपे वर्तित्वाद्)+++ यद् ए॑काष्ट॒का ।
ए॒तस्याव्ँ॒ वा ए॒ष +++(संवत्सर)+++ ए॒ताँ रात्रिव्ँ॑ वसति ।
+++(तेन)+++ सा॒क्षाद् ए॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।
विश्वास-प्रस्तुतिः
+++(शैत्येन)+++ आर्तव्ँ॒ वा ए॒ते सव्ँ॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ , य ए॑काष्ट॒काया॒न् दीक्षन्ते। +++(यतो माघम् अभितः)+++ अन्त॑नामानाव् ऋ॒तू भ॑वतः ।
विश्वास-प्रस्तुतिः
+++(संवत्सरान्त आरम्भे वेत्य् अस्पष्टत्या)+++ व्य॑स्तव्ँ॒ वा ए॒ते सव्ँ॑वत्स॒रस्या॒भिदी॑क्षन्ते॒ , य ए॑काष्ट॒काया॒न् दीक्षन्ते। +++(यतो माघम् अभितः)+++ अन्त॑नामानाव् ऋ॒तू भ॑वतः ।
फाल्गुनीपक्षः
विश्वास-प्रस्तुतिः
+++(एवन् तर्हि माघात् परं वर्तमाने)+++ फ॒ल्गु॒नी॒-पू॒र्ण॒-मा॒से दी॑क्षेरन् ।
मुखव्ँ॒ वा ए॒तत् ,[28] सव्ँवत्स॒रस्य॒ यत् फ॑ल्गुनीपूर्णमा॒सः ।
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।
चित्रापक्षः
विश्वास-प्रस्तुतिः
तस्यैकै॒व नि॒र्या+++(=निकृष्टा प्राप्तिः)+++ यत् साम्मे॑घ्ये विषू॒वान्थ्+++(=मध्यदिनं [गवामयन-संवत्सरस्य], विष्वञ्चि नाना गच्छतीति अहानि)+++ स॒म्पद्य॑ते +++(Inner Asia Mountain Corridor इत्यत्र, यत्रार्याः प्रायेणावर्तन्त)+++ ।
चि॒त्रा॒पू॒र्ण॒मा॒से दी॑क्षेरन् ।
मुखव्ँ॒ वा ए॒तत्सव्ँ॑वत्स॒रस्य॒ यच् चि॑त्रापूर्णमा॒सः +++(पूर्वस्मिन् युगे)+++।
मु॒ख॒त ए॒व सव्ँ॑वत्स॒रम् आ॒रभ्य॑ दीक्षन्ते ।
तस्य॒ न का च॒न नि॒र्या भ॑वति ।
माघपक्षे निश्चयः
विश्वास-प्रस्तुतिः
+++(माघ्याः पौर्णमास्याः पुरस्ताच्)+++ च॒तु॒र॒हे पु॒रस्ता॑त् पौर्णमा॒स्यै दी॑क्षेरन् ।
तेषा॑म् एकाष्ट॒काया॑ङ् क्र॒यस् सम्प॑द्यते ।
विश्वास-प्रस्तुतिः
तेनै॑काष्ट॒कान् न छ॒म्-बट्-कु॑र्वन्ति । तेषा॑म् पूर्वप॒क्षे सु॒त्या सम्प॑द्यते । [29]
विश्वास-प्रस्तुतिः
पू॒र्व॒प॒क्षम् मासा॑ अ॒भि सम्प॑द्यन्ते । ते पू॑र्वप॒क्ष उत्ति॑ष्ठन्ति ।
विश्वास-प्रस्तुतिः
तान् उ॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत्ति॑ष्ठन्ति ।
तान् क॑ल्या॒णी की॒र्तिर् अनूत्ति॑ष्ठ॒त्य् ,
अरा॑त्सुर्+++(←राधँ संसिद्धौ)+++ इ॒मे यज॑माना॒ इति॑ ।
तद् अनु॒ सर्वे॑ राध्नुवन्ति ॥ [30]