परिचयः
- अतिरात्रः (१)
- ३ त्रिवृतो ऽग्निष्टोमाः (२-४)
- १० पञ्चदशाः (५-१४)
- १२ सप्तादशाः (१५-२६)
- पृष्ठ्यः षडहः (२७-३२)
- १२ एकविंशाः (३३-४४)
- ५ अतिरात्राः (४५-४९)
फलम्
विश्वास-प्रस्तुतिः
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत ,
“वि॒न्देय॑ प्र॒जाम्, अ॒भि सौ॑दा॒सान् भ॑वेय॒म्” इति॑ ।
स ए॒तम् ए॑कस्मान्नपञ्चा॒शम् अ॑पश्यत् । तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भवद् ।
य ए॒वव्ँ वि॒द्वाँस॑ एकस्मान्नपञ्चा॒शम् आस॑ते वि॒न्दन्ते॑ प्र॒जाम्, अ॒भि भ्रातृ॑व्यान् भवन्ति ।
विधानम्
विश्वास-प्रस्तुतिः
त्रय॑स् त्रि॒वृतो॑ ऽग्निष्टो॒मा भ॑वन्ति ।
वज्र॑स्यै॒व+++(→वज्रनिभयज्ञस्य)+++ मुखँ॒ सँ श्य॑न्ति+++(=तीक्ष्णीकुर्वन्ति)+++ ।
विश्वास-प्रस्तुतिः
दश॑ पञ्चद॒शा+++(→पञ्चदशस्तोमवन्ति दिनानि)+++ भ॑वन्ति ।
प॒ञ्च॒द॒शो वज्रः॑ [25]।
वज्र॑म् ए॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति ।
विश्वास-प्रस्तुतिः
षो॒ड॒शि॒मद् द॑श॒मम् अह॑र् भवति ।
वज्र॑ ए॒व वी॒र्य॑न् दधति ।
विश्वास-प्रस्तुतिः
द्वाद॑श सप्तद॒शा भ॑वन्त्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै । अथो॒ प्रैव तैर् जा॑यन्ते ।
विश्वास-प्रस्तुतिः
पृष्ठ्य॑ष् षड॒हो भ॑वति । षड्वा ऋ॒तवः॑ ।
षट् पृ॒ष्ठानि॑ । पृ॒ष्ठैर् ए॒वर्तून् अ॒न्वारो॑हन्ति ।
ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।
ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
द्वाद॑शैकविँ॒शा भ॑वन्ति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑म् ए॒वात्मन् दधते ।[26]
विश्वास-प्रस्तुतिः
ब॒हव॑ष् षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै ।
विश्वास-प्रस्तुतिः
षड् आ॑श्वि॒नानि॑ भवन्ति +++(अतिरात्रेषु)+++ ।
षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
ऊ॒ना॒ति॒रि॒क्ता वा ए॒ता रात्र॑यः ।
ऊ॒नास् तद् यद् एक॑स्यै॒ न प॑ञ्चा॒शद् ,
अति॑रिक्ता॒स् तद् यद् भूय॑सीर् अ॒ष्टाच॑त्वारिँशतः ।
+++(अष्टाचत्वारिंशदक्षरा जगती जागताः पशवो द्विपादश् चतुष्पादश् च सर्वे। विराड् दशाक्षराः, पञ्च विराजः पञ्चाशद्, विराट् चान्नं, तच् च सर्वाः प्रजाः।)+++
विश्वास-प्रस्तुतिः
ऊ॒नाच्+++(→बीजात्)+++ च॒ खलु॒ वा अति॑रिक्ताच्+++(→वस्तुतो महतः)+++ च प्र॒जाप॑ति॒ᳶ प्राजा॑यत +++(→प्रजाः प्राजनयन् सर्वाः)+++।
ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स् स्युस् त ए॒ता आ॑सीरन् ।
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभिः॑ ।
विश्वास-प्रस्तुतिः
वै॒रा॒जो वा ए॒ष य॒ज्ञो यद् ए॑कस्मान्नपञ्चा॒शः ।
य ए॒वव्ँ वि॒द्वाँस॑ एकस्मान्नपञ्चा॒शम् आस॑ते,
वि॒राज॑म् ए॒व ग॑च्छन्त्य्, अन्ना॒दा भ॑वन्ति ।
विश्वास-प्रस्तुतिः
अ॒ति॒रा॒त्राव॒भितो॑ भवतो॒ ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [27]