विधानम्
- ज्योतिर् अतिरात्रः (१)
- ४ षडहाः (२-२५)
- द्वादशाहीयस्य दशरात्र (२५-३५)
- अतिरात्रः (३६)
फलम्
विश्वास-प्रस्तुतिः
आ॒दि॒त्या अ॑कामयन्त - सुव॒र्गल्ँ लो॒कम् इ॑या॒मेति ।
ते सु॑व॒र्गल्ँ लो॒कन् न प्राजा॑न॒न्, न सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
त ए॒तँ ष॑ट्त्रिँशद् रा॒त्रम् अ॑पश्यन् । तमाह॑रन् । तेना॑यजन्त ।
ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम् प्राजा॑नन्त्, सुव॒र्गल्ँ लो॒कमा॑यन् ।
य ए॒वव्ँ वि॒द्वाँस॑ष् षट्त्रिँशद्रा॒त्रम् आस॑ते सुव॒र्गम् ए॒व लो॒कम् प्र जा॑नन्ति , सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
विधानम्
विश्वास-प्रस्तुतिः
ज्योति॑र् अतिरा॒त्रो भ॑वति ।[22]
ज्योति॑र् ए॒व पु॒रस्ता॑द् दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।
विश्वास-प्रस्तुतिः
षड॒हा भ॑वन्ति । षड्वा ऋ॒तवः॑ ।
ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
+++(षड॒हा)+++ च॒त्वारो॑ भवन्ति ।
चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्ति ।
विश्वास-प्रस्तुतिः
+++(द्वादशाहस्य दशाहानि विदधाति -)+++
असत्रम् अछन्दोमम् ...{Loading}...
मूलम् (संयुक्तम्)
अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
विश्वास-प्रस्तुतिः
+++(छन्दोमवतः प्रशंसार्थं वक्ति - )+++ अस॑त्त्रव्ँ॒ वा ए॒तद् यद् अ॑छन्दो॒मम् ।
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैः ।
ओजो॒ वा वी॒र्य॑म् पृ॒ष्ठानि॑, प॒शव॑श् छन्दो॒मा ।
ओज॑स्य् ए॒व वी॒र्ये॑, प॒शुषु॒ +++(च)+++ प्रति॑ तिष्ठन्ति ।
मूलम्
अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् ।
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒माः ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
ष॒ट्त्रिँ॒श॒द्रा॒त्रो भ॑वति ।
षट्त्रिँ॑शद्-अक्षरा बृह॒ती ।
बार्ह॑ताᳶ प॒शवः॑ ।
बृ॒ह॒त्यैव प॒शून् अव॑ रुन्धते ।
विश्वास-प्रस्तुतिः
बृ॒ह॒ती छन्द॑साँ॒ स्वारा॑ज्यम् आश्नुत ।
अ॒श्नु॒वते॒ स्वारा॑ज्यय्ँ य ए॒वव्ँ वि॒द्वाँस॑ष् षट्त्रिँशद् रा॒त्रमास॑ते।
सुव॒र्गमे॒व लो॒कय्ँ य॑न्ति ।
विश्वास-प्रस्तुतिः
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतस् सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥ [24]