०५ त्रयस्त्रिंशरात्रः

परिचयः

  • अतिरात्रः (१)
  • ३ पञ्चाहाः (२-१६)
  • विश्वजित् सर्वपृष्ठः (१७)
  • आश्विनेन शस्त्रेण लक्षितानि त्रीण्यहानि अतिरात्राख्यानि । (१८-२०)
  • द्वादशाहः (२१-३२)
  • अतिरात्रः (३३)

ततश्चत्रिषु पञ्चाहेषु व्यतीतेषु विश्वजित् अतिरात्रः तत एकाहः पञ्चाह इति (आद्यन्तातिरात्रौ) इत्थं त्रयोविंशतिरहानि भवन्ति ॥

फलम्

विश्वास-प्रस्तुतिः

द्वे वाव दे॑व-स॒त्त्रे द्वा॑दशा॒हश् चै॒व त्र॑यस्त्रिँशद् अ॒हश् च॑ ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद्-अ॒हम् आस॑ते , सा॒क्षाद् ए॒व दे॒वता॑ अ॒भ्यारो॑हन्ति ।

विश्वास-प्रस्तुतिः

यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढᳵ का॒मय॑ते॒ , तथा॑ +++(यागादिकं)+++ करोति।
यद्य् अ॑व॒विध्य॑ति॒+++(=अवहीयते)+++ पापी॑यान् भवति । यदि॒ नाव॒विध्य॑ति - स॒दृङ् +++(एव भवति - नोत्कर्षलाभः, प्रमादसम्भावनया निर्दोषत्वनिश्चयाभावात्)+++ ।
+++(त्रयस्त्रिंशदहस्तु तमपि दोषं निवर्तयतीति)+++।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते॒ , वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽव॑र्तन्ते ।

विश्वास-प्रस्तुतिः

अह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ +++(त्रयस्त्रिंशतं)+++ आह॑रन् [18]।
अह॒र् एको ऽभ॑ज॒ताह॒र् एकः॑ । ताभि॒र् वै ते प्र॒बाहु॑ग्+++(→समं)+++ आर्ध्नुवन् ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑ते॒ ,
सर्व॑ ए॒व प्र॒बाहु॑ग् ऋध्नुवन्ति ।
सर्वे॒ ग्राम॑णीय॒म् प्राप्नु॑वन्ति ।

विधानम्

विश्वास-प्रस्तुतिः

+++(३)+++ प॒ञ्चा॒हा भ॑वन्ति ।

पञ्चता-महिमा ...{Loading}...

विश्वास-प्रस्तुतिः

पञ्च॒ वा ऋ॒तव॑स् सव्ँवत्स॒रः +++(हेमन्त-शिशिरयोर् एकत्वात्, अथवा ऽन्धसि वर्षर्तोर् अभावात्)+++।[38]
ऋ॒तुष्वे॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठति ।

Keith

the year consists of five seasons [3];
verily he stands firm in the year with its five seasons.

विश्वास-प्रस्तुतिः

अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञो, य॒ज्ञम् ए॒वाव॑ रुन्धे ।

Keith

Again the Pankti has five elements,
the sacrifice is fivefold; verily he wins the sacrifice.

विश्वास-प्रस्तुतिः

त्रीण्या॑श्वि॒नानि॑+++(=अश्विनशस्त्रवन्त्य् अतिरात्राणि)+++ भवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्ति [19]।

विश्वास-प्रस्तुतिः

अथो॒ त्रीणि॒ वै य॒ज्ञस्य + इ॑न्द्रि॒याणि +++(ऋगादीनि गायत्रादीनि वा सवनानि)+++ । तान्य् ए॒वाव॑ रुन्धते ।

विश्वास-प्रस्तुतिः

+++(मध्यममहः)+++ वि॒श्व॒जिद् भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
(तद् एवाहः) सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै ।

विश्वास-प्रस्तुतिः

वाग्वै द्वा॑दशा॒हः । यत् पु॒रस्ता॑द् द्वादशा॒हम् उ॑पे॒युर् , अना॑प्ताव्ँ॒ वाच॒म् उपे॑युर्, उप॒दासु॑का+++(=उपक्षयशीला)+++ +एषाव्ँ॒ वाक्स्या॑त् ।
उ॒परि॑ष्टाद् द्वादशा॒हम् उप॑ यन्ति ।
आ॒प्तामे॒व वाच॒म् उप॑ यन्ति । तस्मा॑द् +++(नाभेर्)+++ उ॒परि॑ष्टाद् वा॒चा व॑दामः ।

विश्वास-प्रस्तुतिः

अ॒वा॒न्त॒रव्ँ वै द॑शरा॒त्रेण॑ प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।[20]
यद् +++(द्वादशाहे)+++ द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद् यज॑मानास् सृजन्ते ।
ए॒ताँ ह॒ वा उ॑द॒ङ्कश् शौ॑ल्बाय॒नस् स॒त्त्रस्य + ऋद्धि॑म् उवाच॒ यद् द॑शरा॒त्रः ।
यद् द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्यै॑ ।
अथो॒ यदे॒व पूर्वे॒ष्व् अह॑स्सु॒ +++(प्रमादात्)+++ विलो॑म क्रि॒यते॒ , तस्यै॒वैषा शान्तिः॑ ।

विश्वास-प्रस्तुतिः

द्व्य॒नी॒का+++(=द्विव्यूहा)+++ वा ए॒ता रात्र॑यो॒, यज॑माना विश्व॒जित् +++(मध्यममहः)+++।
स॒हाति॑रा॒त्रेण॒ पूर्वा॒ष् षोड॑श , स॒हाति॑रा॒त्रेणोत्त॑रा॒ष् षोड॑श ।
य ए॒वव्ँ वि॒द्वाँस॑स् त्रयस्त्रिँशद॒हम् आस॑त॒ , ऐ॑षा॑न् द्व्यनी॒का प्र॒जा जा॑यते ।

विश्वास-प्रस्तुतिः

अ॒ति॒रा॒त्राव् अ॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [21]