०४ द्वात्रिंश-रात्रः

परिचयः

  • अतिरात्रः
  • ९ त्र्यहाः
  • प्रत्यङ् त्र्यहः
  • अतिरात्रः

फलम्

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिस् सुव॒र्गल्ँ लो॒कम् ऐ॑त् ।
तन् दे॒वा येन॑ येन॒ छन्द॒सा ऽनु॒प्रायु॑ञ्जत॒, तेन॒ नाप्नु॑वन् ।
त ए॒ता द्वात्रिँ॑शतँ॒ रात्री॑र् अपश्यन् ।
द्वात्रिँ॑शद्-अक्षरा ऽनु॒ष्टुक् ।
आनु॑ष्टुभᳶ प्र॒जाप॑तिः ।
स्वेनै॒व छन्द॑सा प्र॒जाप॑तिम् आ॒प्त्वा
ऽभ्या॒रुह्य॑ सुव॒र्गल्ँ लो॒कम् आ॑यन् ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते॒ -
द्वात्रिँ॑शद् ए॒ताः, द्वात्रिँ॑शद् अक्षरा ऽनु॒ष्टुक्, आनु॑ष्टुभᳶ प्र॒जाप॑तिः, स्वेनै॒व छन्द॑सा प्र॒जाप॑तिम् आ॒प्त्वा श्रिय॑ङ् गच्छन्ति [15]।
श्रीर् हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒कः ।
द्वात्रिँ॑शद् ए॒ताः ।

विश्वास-प्रस्तुतिः

द्वात्रिँ॑शद् अक्षरा ऽनु॒ष्टुक् । वाग् अ॑नु॒ष्टुप्।
सर्वा॑म् ए॒व वाच॑म् आप्नुवन्ति ।
सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति । सर्वे॒ हि श्रिय॒ङ् गच्छ॑न्ति ।

विधानम्

ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हाः ...{Loading}...

विश्वास-प्रस्तुतिः

ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हा भ॑वन्ति।
इ॒यव्ँ वाव ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑।

मूलम्

ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑

विश्वास-टिप्पनी

ज्योतिस्स्वरूपम् ७.१ इत्यत्र प्रतिपादितम्। १९० स्तोत्रियम्।
गौः - खलु पञ्चदशो बहिष्पवमानः, त्रिवृन्त्य् आज्यानि, सप्तदशं माध्यन्दिनं सवनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २४१-स्तोत्रिया। क्थम्??
आयुः - त्रिवृत् बहिष्पवमानं, पञ्चदशाज्यानि, सर्वसप्तदशं माध्यन्दिनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २५९-स्तोत्रियम्। कथम्??

विश्वास-प्रस्तुतिः

अ॒भि॒पू॒र्वन् +++(नव)+++ त्र्य॒हा भ॑वन्ति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति ।

बृहद्-रथन्तर-यानम् ...{Loading}...

मूलम् (संयुक्तम्)

बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

+++(दिवसेषु एकान्तराभ्यां)+++ बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++(चास्ति)+++।
आ॒भ्यामे॒व य॒न्ति +++(प्रथमदिनयोः)+++ ।

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती+++(=मार्गौ)+++ ।
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् । आ॒भ्यामे॒व य॒न्ति [2]।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति । ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

विश्वास-प्रस्तुतिः

परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति, ये परा॑चस् त्र्य॒हान् उ॑प॒यन्ति॑ ।

विश्वास-प्रस्तुतिः

प्र॒त्यङ् त्र्य॒हो भ॑वति॒ प्र॒त्यव॑रूढ्या॒ , अथो॒ प्रति॑ष्ठित्यै ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वा + उत्ति॑ष्ठन्ति ।

विश्वास-प्रस्तुतिः

द्वात्रिँ॑शद् ए॒ताः । तासाय्ँ॒ यास् त्रिँ॒शत् - त्रिँ॒शद् अ॑क्षरा वि॒राड्, अन्नव्ँ॑ वि॒राट्।
वि॒राजा + ए॒वान्नाद्य॒म् अव॑रुन्धते ।
ये द्वे - अ॑होरा॒त्रे ए॒व ते। उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [17]