परिचयः
अहःकॢप्तिः -
- अतिरात्रः (०)
- ज्योतिर् अग्निष्टोमः (१)
- पृष्ठ्यः षडहः (२-७)
- त्रयस्त्रिंशत् (८)
- त्रिणवः (९)
- एकविंशः (१०)
- त्रिवृद् अग्निष्टुत् = सर्वाग्नेयः (११)
- पञ्चदशः (१२)
- सप्तदशः (१३)
- एकविंशः (१४)
- चतुर्विंशः - विषुवदिनम् (१५ = ३०/२)।
- पृष्ठ्यष् षडहः?? (१६-२१)
- त्रयस्त्रिंशत् (२१)
- त्रिणवः (२२)
- एकविंशौ (२३, २४)
- चतुष्टोमाः (२५-२८)
- अतिरात्रः (२९)
फलम्
विश्वास-प्रस्तुतिः
ऋ॒क्षा+++(=तृणादिरहिता स्थली)+++ वा इ॒यम् +++(पृथिवी)+++ अ॑लो॒मका॑सीत् ।
साका॑मय॒त - ओष॑धीभि॒र् वन॒स्पति॑भि॒ᳶ प्र जा॑ये॒येति॑ ।
सैतास् त्रिँ॒शतँ॒ रात्री॑र् अपश्यत् ।
ततो॒ वा इ॒यम् ओष॑धीभि॒र् वन॒स्पति॑भि॒ᳶ प्राजा॑यत ।
विश्वास-प्रस्तुतिः
ये प्र॒जाका॑माᳶ प॒शुका॑मा॒स् स्युस् त ए॒ता आ॑सीरन् ।
प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभिः॑ ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वा अ॑क्षुध्यत् ।
सैताव्ँ वि॒राज॑म्+++(=अन्नम्)+++ अपश्यत् ।
ताम् आ॒त्मन् धि॒त्वा+++(=स्थापयित्वा)+++ ऽन्नाद्य॒म्+++(=अन्नादनसामर्थ्यं)+++ अवा॑रु॒न्द्ध् औष॑धीः [9]।
वन॒स्पती॑न् प्र॒जाम् प॒शून् तेना॑वर्धत ।
सा जे॒मान॑म्+++(=जयं)+++ महि॒मान॑म् अगच्छत् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते , वि॒राज॑म् ए॒वात्मन् धि॒त्वा ऽन्नाद्य॒म् अव॑ रुन्धते ।
वर्ध॑न्ते प्र॒जया॑ प॒शुभिः॑ ।
जे॒मान॑म्+++(=जयं)+++ महि॒मान॑ङ् गच्छन्ति ।
विधानम्
विश्वास-प्रस्तुतिः
ज्योति॑र् अतिरा॒त्रो भ॑वति, सुव॒र्गस्य॑ लो॒कस्य अनु॑ख्यात्यै ।
विश्वास-प्रस्तुतिः
पृष्ठ्य॑ष् षड॒हो भ॑वति ।
षड्वा ऋ॒तव॒ष् । षट्पृ॒ष्ठानि॑ ।
पृ॒ष्ठैरे॒व + ऋतून् अ॒न्वारो॑हन्ति + ऋ॒र्तुभि॑स् सव्ँवत्स॒रम् ।
ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।[10]
विश्वास-प्रस्तुतिः
त्र॒य॒स्त्रिँ॒शात् त्र॑यस्त्रिँ॒शम् उप॑ यन्ति, य॒ज्ञस्य॒ सन्त॑त्यै ।
अथो॑ प्र॒जाप॑ति॒र् वै त्र॑यस्त्रिँ॒शᳶ +++(सर्वदेवतामयत्वात्)+++।
प्र॒जाप॑तिम् ए॒वा ऽऽर॑भन्ते॒ , प्रति॑ष्ठित्यै ।
विश्वास-प्रस्तुतिः
त्रि॒ण॒वो भ॑वति॒ विजि॑त्यै ।
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै । अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
विश्वास-प्रस्तुतिः
त्रि॒वृद् अ॑ग्नि॒ष्टुद्+++(=सर्वाग्नेयः)+++ भ॑वति ।
पा॒प्मान॑म् ए॒व तेन॒ निर्द॑ह॒न्ते।
अथो॒ तेजो॒ वै त्रि॒वृत्। तेज॑ ए॒वात्मन् द॑धते ।
विश्वास-प्रस्तुतिः
प॒ञ्च॒द॒श इ॑न्द्रस्तो॒मो भ॑वति ।
इ॒न्द्रि॒यमे॒व अव॑ रुन्धते ।[11]
विश्वास-प्रस्तुतिः
स॒प्त॒द॒शो भ॑वत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै +++(सप्तदशस्य प्राजापत्यत्वात्)+++।
अथो॒ प्रैव तेन॑ जायन्ते ।
विश्वास-प्रस्तुतिः
ए॒क॒विँ॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
विश्वास-प्रस्तुतिः
च॒तु॒र्विँ॒शो भ॑वति ।
चतु॑र्विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रस् सु॑व॒र्गो लो॒कः ।
सव्ँ॒व॒त्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्ति ।
अथो॑ ए॒ष वै वि॑षू॒वान् +++(=यज्ञस्य मध्यदिनम्)+++।
वि॒षू॒वन्तो॑+++(=मध्यस्था)+++ भवन्ति॒ , य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑ते ।
विश्वास-प्रस्तुतिः
च॒तु॒र्विँ॒शात् पृ॒ष्ठान्य् उप॑ यन्ति ।
+++(चतुर्विंशतिर् अर्धमासा इत्यादि कृत्वा)+++ सव्ँ॒व॒त्स॒र॒ ए॒व प्र॑ति॒ष्ठाय॑[12] दे॒वता॑ अ॒भ्यारो॑हन्ति ।
विश्वास-प्रस्तुतिः
त्र॒य॒स्त्रिँ॒शात् त्र॑यस्त्रिँ॒शम् उप॑ यन्ति । त्रय॑स्त्रिँश॒द् वै दे॒वताः॑ । दे॒वता॑स्व् ए॒व प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
त्रि॒ण॒वो भ॑वति ।
इ॒मे वै लो॒कास् त्रि॑ण॒वः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
द्वाव् ए॑कविँ॒शौ भ॑वत॒ᳶ, प्रति॑ष्ठित्यै ।
अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
+++(एवं)+++ ब॒हव॑ष् षोड॒शिनो॑+++(=एकविंशो)+++ भवन्ति ।
तस्मा॑द् ब॒हवᳶ॑ प्र॒जासु॒ वृषा॑णः ।
विश्वास-प्रस्तुतिः
यद् ए॒ते स्तोमा॒ व्यति॑षक्ता॒+++(=व्यत्यासेन परस्परानुषक्ताः)+++ भव॑न्ति ।
तस्मा॑द् इ॒यम् ओष॑धीभि॒र् वन॒स्पति॑भिर् व्यति॑षक्ता [13]।
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र् , य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॒ते ।
अकॢ॑प्ता॒+++(=असंपन्ना)+++ वा ए॒ते सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
+++(यतः)+++ उ॒च्चा॒व॒चान् हि स्तोमा॑न् उप॒यन्ति॑ ।
विश्वास-प्रस्तुतिः
यद् ए॒त ऊ॒र्ध्वाᳵ कॢ॒प्तास् +++(अव्यतिषक्ताः)+++ स्तोमा॒ +++(चतुष्टोमात्मकाः)+++ भव॑न्ति,
कॢ॒प्ता ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
उ॒भयो॑र् एभ्यो लो॒कयोः॑ कल्पते ।
विश्वास-प्रस्तुतिः
त्रिँ॒शद् ए॒तास्, त्रिँ॒शद् अ॑क्षरा वि॒राड् ।
अन्नव्ँ॑ वि॒राट् ।
वि॒राजा + ए॒वान्नाद्य॒म् अव॑ रुन्धते ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतो॒ ,
ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [14]