०२ अपरश्चतुर्विंशति-रात्रः

विश्वास-टिप्पनी

अत्रेयमहःकॢप्तिः

  • अतिरात्रश् चतुर्विंशः उक्थ्य आरम्भणीयः त्रिवृद् वा (१)
  • पृष्ठ्यस्तोमः षडहः (२-७)
  • त्रयस्त्रिंशम् अहर् अनिरुक्तं (८)
  • त्रयस्त्रिंशं निरुक्तं (९)
  • त्रिणवं (१०)
  • द्वे एकविंशे (११-१२)
  • त्रिणवं (१३)
  • त्रयस्त्रिंशम् अहः निरुक्तं (१४)
  • त्रयस्त्रिंशम् अनिरुक्तं (१५)
  • पृष्ठ्यस्तोमष् षडहः (१६-२१)
  • प्रत्यङ् त्रिवृद् अहर् अनिरुक्तं (२२)
  • ज्योतिष्टोमो (२३)
  • वैश्वानरो ऽतिरात्रः (२४) इति ।

इयमिह प्रतिपाद्यते ।

विश्वास-टिप्पनी - छन्दोमात्मकस्य स्वरूपम्

एकतरस्य षडहस्य छन्दोमात्मरूपम् प्रयुज्यत इति भाति। तत्र भास्करटीकायाम् एवम् -

यथोक्तं आचार्येण - ‘अथेदं संसदामयनं छन्दोमं भवति - विज्ञायन्ते खल्वस्य छन्दोसभक्तयश् - चतुर्विंशं चतुश्चत्वारिंशं अष्टाचत्वारिशम्’ इति । अत्रैवं जानीयात्-

  • आद्ये त्रिवृत आयतने त्रयस्त्रिंशो (३३) ऽग्रिष्टोमश्, चतुर्विंशाः (२४) पवमानः।
  • द्वितीये पञ्चदशस्यायतने त्रिणवः (२७) अष्टाविंशाः (२८) पवमानाः
  • तृतीये सप्तदशस्यायतने एकविंशः (२१), द्वाविंशाः (२२) पवमानाः
  • चतुर्थेऽस्मिन् आयतने एकविंशः (२१), षट्त्रिंशाः (३६) पवमानाः
  • पञ्चमे ऽस्मिन्न् आयतने त्रिणवश् (२७), चत्वारिंशाः (४०) पवमानाः
  • षष्ठे स्व आयतने त्रयस्त्रिंशः (३३), चतुश्चत्वारिंशाः (४४) पवमाना
  • ततः त्रयस्त्रिंशः (३३), अष्टाचत्वारिशाः (४८) पवमानाः इति ॥

फलम्

विश्वास-प्रस्तुतिः

यथा॒ वै म॑नु॒ष्या॑ ए॒वन् दे॒वा अग्र॑ आसन् ।+++(5)+++
ते॑ ऽकामय॒न्त - “अव॑र्तिम् पा॒प्मान॑म् मृ॒त्युम् अ॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑ङ् गच्छे॒म”+ इति॑ ।
त ए॒तञ् च॑तुर्विँशतिरा॒त्रम् अ॑पश्यन् । तम् आह॑र॒न् । तेना॑यजन्त ।
ततो॒ वै ते ऽव॑र्तिम् पा॒प्मान॑म् मृ॒त्युम् अ॑प॒हत्य॒ दैवीँ॑ सँ॒सद॑म् अगच्छन् ।
य ए॒वव्ँ वि॒द्वाँ॑सश् चतुर्विँशतिरा॒त्रम् आस॒ते , ऽव॑र्तिम् ए॒व पा॒प्मान॑म् अप॒हत्य॒ श्रिय॑ङ् गच्छन्ति ।
श्री॒र् हि म॑नु॒ष्य॑स्य॒ दैवी॑ सँ॒सत् ।[4]

विधानम्

विश्वास-प्रस्तुतिः

ज्योति॑र् अतिरा॒त्रो भ॑वति , सु॒व॒र्गस्य॑ लो॒कस्य +अनु॑ख्यात्यै ।

विश्वास-प्रस्तुतिः

पृष्ठ्य॑ष्+++(=पृष्ठयुक्तः)+++ षड॒हो भ॑वति । षड् वा ऋ॒तव॑स् सव्ँवत्स॒रः । तम् मासा॑ अर्धमा॒सा ऋ॒तवᳶ॑ प्र॒विश्य॒ दैवीँ॑ सँ॒सद॑म् अगच्छ॒न् ।
य ए॒वव्ँ वि॒द्वाँ॑सश् चतुर्विँशतिरा॒त्रम् आस॑ते , सव्ँवत्स॒रम् ए॒व प्र॒विश्य॒ वस्य॑सीँ सँ॒सद॑ङ् गच्छन्ति ।

विश्वास-प्रस्तुतिः

+++(पृष्ठ्य-षडहाङ्ग-त्रयस्त्रिंशाव् अपि गणयित्वा)+++ त्रय॑स् त्रयस्त्रिँ॒शा अ॒वस्ता॑द् भवन्ति॒, त्रय॑स् त्रयस्त्रिँ॒शाᳶ प॒रस्ता॑त् ।
त्र॒य॒स्त्रिँ॒शैर् ए॒वोभ॒यतो ऽव॑र्तिम् पा॒प्मान॑म् अप॒हत्य॒ दैवीँ॑ सँ॒सद॑म् मध्य॒तः ग॑च्छन्ति । [5]
पृ॒ष्ठानि॒ हि दैवी॑ सँ॒सत् ।

विश्वास-प्रस्तुतिः

जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स् त्रयस्त्रिँ॒शा अ॒न्वञ्चः॑ ।
मध्ये ऽनि॑रुक्तो भवति॒ , तेन अजा॑मि ।

विश्वास-प्रस्तुतिः

+++(पृष्ठ्ये षडहे-)+++ ऊ॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्ति +++(रथन्तरादिक्रमेण)+++ ।
+++(छन्दोमात्मके षडहे)+++ ऊ॒र्ध्वाश् छ॑न्दो॒माः ।
उ॒भाभ्याँ॑ रू॒पाभ्याँ॑ +++(पृष्ठ्य-च्छन्दोमात्मकाभ्यां)+++ सुव॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

असत्रम् अछन्दोमम् ...{Loading}...

मूलम् (संयुक्तम्)

अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति

विश्वास-प्रस्तुतिः

+++(छन्दोमवतः प्रशंसार्थं वक्ति - )+++ अस॑त्त्रव्ँ॒ वा ए॒तद् यद् अ॑छन्दो॒मम् । यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैः ।
ओजो॒ वा वी॒र्य॑म् पृ॒ष्ठानि॑, प॒शव॑श् छन्दो॒मा ।
ओज॑स्य् ए॒व वी॒र्ये॑, प॒शुषु॒ +++(च)+++ प्रति॑ तिष्ठन्ति ।

मूलम्

अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् । यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् । दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒माः । ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

+++(अहःक्रमे)+++
त्रय॑स् त्रयस्त्रिँ॒शा अ॒वस्ता॑द् भवन्ति,
त्रय॑स् त्रयस्त्रिँ॒शाᳶ प॒रस्ता॒न्,
मध्ये॑ पृ॒ष्ठानि ।
उरो॒ वै त्र॑यस्त्रिँ॒शा आ॒त्मा पृ॒ष्ठानि ।
आ॒त्मन॑ ए॒व तद् यज॑माना॒श् शर्म॑ +++(सं)+++नह्य॒न्ते ऽना॑र्त्यै ।

बृहद्-रथन्तर-यानम् ...{Loading}...

मूलम् (संयुक्तम्)

बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

+++(दिवसेषु एकान्तराभ्यां)+++ बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++(चास्ति)+++।
आ॒भ्यामे॒व य॒न्ति +++(प्रथमदिनयोः)+++ ।

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती+++(=मार्गौ)+++ ।
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् । आ॒भ्यामे॒व य॒न्ति [2]।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति । ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

विश्वास-प्रस्तुतिः

परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति॒ , ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑ ।

विश्वास-प्रस्तुतिः

प्र॒त्यङ्क् ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ - अथो॒ प्रति॑ष्ठित्यै । उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।

विश्वास-प्रस्तुतिः

+++(आदिमात्?)+++ त्रि॒वृतो ऽधि॑ +++(षडहाङ्ग)+++त्रि॒वृत॒म् उप॑ यन्ति॒ स्तोमा॑नाँ॒ सम्प॑त्त्यै प्रभ॒वाय।

विश्वास-प्रस्तुतिः

ज्योति॑र् अग्निष्टो॒मो भ॑वति । अ॒यव्ँ +++(मनुष्यलोकः)+++ वाव स +++(अग्निष्टोमस्य)+++ क्षयो॒+++(=आयतनम्)+++, ऽस्माद् ए॒व तेन॒ क्षया॒न् +++(लाकान्)+++ न य॑न्ति ।

फलम्

विश्वास-प्रस्तुतिः

च॒तु॒र्विँ॒श॒ति॒रा॒त्रो भ॑वति । चतु॑र्विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रस् सु॑वर्गो लो॒कः । सव्ँ॒व॒त्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्ति ।

विश्वास-प्रस्तुतिः

अथो॒ चतु॑र्विँशत्य् अक्षरा गाय॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒सम् अव॑ रुन्धते ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतो, ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [8]