विश्वास-टिप्पनी
द्वौ चतुर्विंशतिरात्रौ । प्रथमोऽत्र विधीयते।
अहःक्रमः -
- अतिरात्रः
- ४ ज्योतिरादि-त्र्यहाः
- द्वादशाहस्य दशाहानि (ज्योतिष्टोमः, ८ उक्थ्याः, ज्योत्ष्टोमः) पृष्ठ्य-च्छन्दोमात्मकानि
- अतिरात्र इति।
विश्वेदेवा ऋषयः
फलम्
मूलम् (संयुक्तम्)
बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न्गच्छे॑यम्पुरो॒धामिति॒ स ए॒तञ्च॑तुर्विँशतिरा॒त्रम॑पश्य॒त्तमाह॑र॒त्तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत्पुरो॒धाय्ँय ए॒वव्ँवि॒द्वाँस॑श्चतुर्विँशतिरा॒त्रमास॑ते॒ श्रदे॑भ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धाञ्ज्योति॒र्गौरायु॒रिति॑
विश्वास-प्रस्तुतिः
बृह॒स्पति॑र् अकामयत॒ - “श्रन् मे॑ दे॒वा दधी॑र॒न्, गच्छे॑यम् पुरो॒धाम्+++(=प्राधान्यं पौरोहित्यं वा)+++” इति॑ ।
मूलम्
बृह॒स्पति॑रकामयत॒ - “श्रन्मे॑ दे॒वा दधी॑र॒न्गच्छे॑यम् पुरो॒धाम्”+ इति॑ ।
भट्टभास्कर-टीका
1अथ द्वौ चतुर्विंशतिरात्रौ । तत्रायं प्रथमः अतिरात्रो ज्योतिरादिस्त्र्यहः च त्रिरात्रः । उक्तं च - त्रिरात्रः द्वादशाहस्य दशाहानि पृष्ठ्यच्छन्दोमात्मकानि अतिरात्र इति । अयमधुना विधीयते - बृहस्पतिरित्यादि ॥ बृहस्पतिशब्दे सुट्स्वरावुक्तौ । देवा मे मम श्रद्दधीरन् श्रद्धां कुर्वन्तु सत्योयमिति । गच्छेयं च पुरोधां प्राधान्यं पौरोहित्यं वा । पुरश्शब्दस्य उपसर्गवद्भावात् ‘आतश्चोपसर्गे’ इत्यङ् । भिदादिर्वा द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
स ए॒तञ् च॑तुर्विँशतिरा॒त्रम् अ॑पश्यत् ।
तम् आह॑रत् । तेना॑यजत ।
ततो॒ वै तस्मै॒ श्रद् दे॒वा अद॑ध॒त । अग॑च्छत् पुरो॒धाम् ।
मूलम्
स ए॒तञ् च॑तुर्विँशतिरा॒त्रम् अ॑पश्यत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒त । अग॑च्छत् पुरो॒धाम् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वाँस॑श् चतुर्विँशति-रा॒त्रम् आस॑ते॒,
श्रद् ए॑भ्यो मनु॒ष्या॑ दधते॒ , +++(एते च)+++ गच्छ॑न्ति पुरो॒धाम्।
मूलम्
य ए॒वव्ँवि॒द्वाँस॑श् चतुर्विँशतिरा॒त्रम् आस॑ते॒, श्रदे॑भ्यो मनु॒ष्या॑ दधते॒ , गच्छ॑न्ति पुरो॒धाम् ।
भट्टभास्कर-टीका
स एतमित्यादि । गतम् ॥ +++(सम्पादकटिप्पनी – विस्तृतं व्याख्यानमन्यत्र मृग्यम्)+++
विधानम्
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हाः ...{Loading}...
विश्वास-प्रस्तुतिः
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हा भ॑वन्ति।
इ॒यव्ँ वाव ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑।
मूलम्
ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑
विश्वास-टिप्पनी
ज्योतिस्स्वरूपम् ७.१ इत्यत्र प्रतिपादितम्। १९० स्तोत्रियम्।
गौः - खलु पञ्चदशो बहिष्पवमानः, त्रिवृन्त्य् आज्यानि, सप्तदशं माध्यन्दिनं सवनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २४१-स्तोत्रिया। क्थम्??
आयुः - त्रिवृत् बहिष्पवमानं, पञ्चदशाज्यानि, सर्वसप्तदशं माध्यन्दिनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २५९-स्तोत्रियम्। कथम्??
भट्टभास्कर-टीका
2त्र्यहा इत्यादि ॥ चत्वारः, तथा सङ्ख्यापूरणात् । इयं वावेत्यादि । व्याख्यातम् ॥
विश्वास-प्रस्तुतिः
इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति ।
मूलम्
इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति ।
विश्वास-प्रस्तुतिः
अ॒भि॒पू॒र्वन् +++(चतस्रः)+++ त्र्य॒हा भ॑वन्ति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति ।[23]
मूलम्
अ॒भि॒पू॒र्वन् - त्र्य॒हा भ॑वन्ति । अ॒भि॒पू॒र्वम् - ए॒व सु॑व॒र्गल्ँ लो॒कम् - अ॒भ्यारो॑ह॒न्ति ।
विश्वास-टिप्पनी
द्वादशाहस्य दशाहानि विदधाति -
असत्रम् अछन्दोमम् ...{Loading}...
मूलम् (संयुक्तम्)
अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
विश्वास-प्रस्तुतिः
+++(छन्दोमवतः प्रशंसार्थं वक्ति - )+++ अस॑त्त्रव्ँ॒ वा ए॒तद् यद् अ॑छन्दो॒मम् ।
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैः ।
ओजो॒ वा वी॒र्य॑म् पृ॒ष्ठानि॑, प॒शव॑श् छन्दो॒मा ।
ओज॑स्य् ए॒व वी॒र्ये॑, प॒शुषु॒ +++(च)+++ प्रति॑ तिष्ठन्ति ।
मूलम्
अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् ।
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒माः ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।
भट्टभास्कर-टीका
3असत्रं वा इत्यादि ॥ द्वादशाहीनस्य द्वादशरात्रस्य विधिः । पृष्ठ्यष्षडहश्छन्दोमा इत्यादि । ते च गताः ॥
बृहद्-रथन्तर-यानम् ...{Loading}...
मूलम् (संयुक्तम्)
बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति
विश्वास-प्रस्तुतिः
+++(दिवसेषु एकान्तराभ्यां)+++ बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++(चास्ति)+++।
आ॒भ्यामे॒व य॒न्ति +++(प्रथमदिनयोः)+++ ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती+++(=मार्गौ)+++ ।
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
मूलम्
बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒व य॒न्ति [2]।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
भट्टभास्कर-टीका
4बृहद्रथन्तराभ्यामित्यादि ॥ गतम् ॥।
मूलम् (संयुक्तम्)
चतुर्विँशतिरा॒त्रो भ॑वति॒ चतु॑र्विँशतिरर्धमा॒सास्सव्ँ॑वत्स॒रस्सव्ँ॑वत्स॒रस्सु॑व॒र्गो लो॒कस्सव्ँ॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [3]
विश्वास-प्रस्तुतिः
च॒तु॒र्-विँ॒श॒ति॒-रा॒त्रो भ॑वति ।
चतु॑र्-विँशतिर् अर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रस् सु॑व॒र्गो लो॒कः ।
सव्ँ॒व॒त्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्ति ।
मूलम्
च॒तु॒र्विँ॒श॒ति॒रा॒त्रो भ॑वति ।
चतु॑र्विँशतिर् - अर्धमा॒सास् सव्ँ॑वत्स॒रः ।
सव्ँ॒व॒त्स॒रस् सु॑व॒र्गो लो॒कः ।
सव्ँ॒व॒त्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्ति ।
भट्टभास्कर-टीका
5चतुर्विंशतिरात्र इत्यादि ॥ चतुर्विंशतिसङ्ख्य्यान्वयात् चतुर्विंशत्यर्धमासात्मके संवत्सरे स्वर्गस्थानीये प्रतितिष्ठन्ति ।
विश्वास-प्रस्तुतिः
अथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री ।
गा॒य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॒य॒त्रि॒या + ए॒व ब्र॑ह्मवर्च॒सम् अव॑ रुन्धते ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतो, ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [3]
मूलम्
अथो॒ चतु॑र्विँशत्यक्षरा गाय॒त्री ।
गा॒य॒त्री ब्र॑ह्मवर्च॒सम् ।
गा॒य॒त्रि॒या + ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धते ।
अ॒ति॒रा॒त्राव॒भितो॑ भवतो , ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [3]
भट्टभास्कर-टीका
अपिच चतुर्विंशत्यक्षरा गायत्री, तल्लाभेन गायत्र्यात्मकब्रह्मवर्चसलाभः । अतिरात्राभ्यां चाभितो ब्रह्मवर्चसस्य परिग्रहः ॥
इति सप्तमे चतुर्थे प्रथमोनुवाकः ॥