२० वनस्पतिहोममन्त्राः

विश्वास-प्रस्तुतिः

वन॒स्पति॑भ्य॒स् स्वाहा॑ ।
मूले॑भ्य॒स् स्वाहा॑ ।
तूले॑भ्य॒स्+++(=अग्रेभ्यः)+++ स्वाहा॑ ।
स्कन्धो॑भ्य॒स् स्वाहा॑ ।
शाखा॑भ्य॒स् स्वाहा॑ ।
प॒र्णेभ्य॒स् स्वाहा॑ ।
पुष्पे॑भ्य॒स् स्वाहा॑ ।
फले॑भ्य॒स् स्वाहा॑ ।
गृ॒ही॒तेभ्य॒स् स्वाहा॑ ।
अगृ॑हीतेभ्य॒स् स्वाहा॑ ।
अव॑पन्नेभ्य॒स् स्वाहा॑ ।
शया॑नेभ्य॒स् स्वाहा॑ ।
शि॒ष्टाय॒+++(→क्रियासूपयुक्ताय)+++ स्वाहा॑ ।
अति॑शिष्टाय॒+++(→उपयुज्य स्थापितैकदेशाय)+++ स्वाहा॑ ।
परि॑शिष्टाय॒+++(→उपयोगातिरिक्ताय)+++ स्वाहा॑ ।
सँशि॑ष्टाय॒+++(→संपूर्णमुपयुज्य)+++ स्वाहा॑ ।
उच्छि॑ष्टाय॒ स्वाहा॑ ।
+++(पुष्पफलै)+++ रि॒क्ताय॒ स्वाहा॑ ।
अरि॑क्ताय॒ स्वाहा॑ ।
प्ररि॑क्ताय॒+++(=सर्वथा रिक्ताय)+++ स्वाहा॑ ।
+++(पर्णैर् अपि)+++ सँरि॑क्ताय॒ स्वाहा॑ ।
उद्रि॑क्ताय॒+++(→सर्वैस्समृद्धाय)+++ स्वाहा॑ ।
सर्व॑स्मै॒ स्वाहा॑ ॥ [42]