विश्वास-प्रस्तुतिः
+++(त्रीणि पूर्वाणि दीक्षायां, पूर्वसहितानि समस्तानि रात्रिहोमेषु ।)+++
स्वाहा॒+++(→आदानार्थे)+++ ऽऽधिम् आधी॑ताय॒+++(=आध्यातं)+++ स्वाहा॑ ।
+++(आधीयतेऽनेनेत्याधिः - बुद्धिः।)+++
विश्वास-प्रस्तुतिः
स्वाहा ऽऽधी॑त॒म्+++(=आध्यातं)+++ मन॑से॒ स्वाहा॑।
विश्वास-प्रस्तुतिः
स्वाहा॒ मनः॒, प्र॒जाप॑तये॒ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
काय॒+++(=प्रजापतये)+++ स्वाहा॑ ।
कस्मै॒+++(=अज्ञातस्वरूपाय)+++ स्वाहा॑ ।
क॒त॒मस्मै॒+++(=अनिर्धारितविशेषात्मने)+++ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
अदि॑त्यै॒ स्वाहा॑ ।
अदि॑त्यै म॒ह्यै॑ स्वाहा॑ ।
अदि॑त्यै सु-मृडी॒कायै॒+++(=सुखयित्र्यै)+++ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
सर॑स्वत्यै॒ स्वाहा॑ ।
सर॑स्वत्यै बृह॒त्यै॑ स्वाहा॑ ।
सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
पू॒ष्णे स्वाहा॑ ।
पू॒ष्णे प्र॑प॒थ्या॑य॒+++(=प्रपथहिताय)+++ स्वाहा॑ ।
पू॒ष्णे न॒रन्धि॑षाय॒+++(=नराणां धारयित्रे)+++ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
त्वष्ट्रे॒ स्वाहा॑ ।
त्वष्ट्रे॑ तु॒रीपा॑य॒+++(=तूर्णमाप्नुवते)+++ स्वाहा॑ ।
त्वष्ट्रे॑ पुरु॒+++(=बहु)+++रूपा॑य॒ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
विष्ण॑वे॒ स्वाहा॑ ।
विष्ण॑वे निखुर्य॒+++(=नि+खुर्+ल्यप्)+++पाय॒ स्वाहा॑ ।
विष्ण॑वे निभूय॒+++(=नि+भू+ल्यप्)+++पाय॒ स्वाहा॑ ।
विश्वास-प्रस्तुतिः
सर्वस्मै॒ स्वाहा॑ ॥ [36]