१४ अनुभूतिहोममन्त्राः (अनुभूर्होममन्त्राः)

विश्वास-प्रस्तुतिः

अ॒ग्निना॒ तपो ऽन्व॑भवद्+++(→अनुभवतु)+++ ।
वा॒चा ब्रह्म॑ +++(अनुभवतु)+++।
म॒णिना॑ रू॒पाणि॑ +++(अनुभवतु)+++।
इन्द्रे॑ण दे॒वान् +++(अनुभवतु)+++।
वाते॑न प्रा॒णान् +++(अनुभवतु)+++।
सूर्ये॑ण॒ द्याम् +++(अनुभवतु)+++।
च॒न्द्रम॑सा॒ नक्ष॑त्राणि +++(अनुभवतु)+++।
य॒मेन॑ पि॒तॄन् +++(अनुभवतु)+++।
राज्ञा॑ मनु॒ष्या॑न् +++(अनुभवतु)+++।
फ॒लेन॑ नादे॒यान्+++(→रसवतोऽर्थान्)+++ +++(अनुभवतु)+++।
अ॒ज॒ग॒रेण॑ स॒र्पान् +++(अनुभवतु)+++।
व्या॒घ्रेणा॑र॒ण्यान् प॒शून् +++(अनुभवतु)+++।
श्ये॒नेन॑ पत॒त्रिणः॑ +++(अनुभवतु)+++।
वृष्णा ऽश्वा॑न् +++(अनुभवतु)+++।
ऋ॒ष॒भेण॒ गाः +++(अनुभवतु)+++।
ब॒स्तेन + अ॒जाः +++(अनुभवतु)+++।
वृ॒ष्णिना+++(=मेषेण)+++ ऽवीः॑ +++(अनुभवतु)+++। व्री॒हिणा ऽन्ना॑नि॒ +++(अनुभवतु)+++।
यवे॒नौष॑धीः +++(अनुभवतु)+++।
न्य॒ग्रोधे॑न॒ वन॒स्पती॑न् +++(अनुभवतु)+++।
उ॒दु॒म्बरे॒णोर्ज॑म् +++(अनुभवतु)+++।
गा॒य॒त्रि॒या छन्दाँ॑सि +++(अनुभवतु)+++।
त्रि॒वृता॒ स्तोमा॑न् +++(अनुभवतु)+++।
ब्रा॒ह्म॒णेन॒ वाच॑म् +++(अनुभवतु)+++॥