विस्तारः (द्रष्टुं नोद्यम्)
१ विराट्
२ त्रिष्टुप्
३ जगती
विश्वेदेवा ऋषयः
भट्टभास्कर-टीका
1अथ आभूतीर्जुहोति - आ मे गृहा इत्यादि ॥
विश्वास-प्रस्तुतिः
आ मे॑ गृ॒हा भ॑व॒न्त्व् आ प्र॒जा म॒
आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् ।
आपो॑ दे॒वीर् य॒ज्ञिया॒ मा ऽऽवि॑शन्तु
स॒हस्र॑स्य मा भू॒मा +++(यज्ञो)+++ मा प्र हा॑सीत् ।
मूलम्
आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् ।
आपो॑ दे॒वीर्य॒ज्ञिया॒ मा वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ।
भट्टभास्कर-टीका
तिस्त्रस्त्रिष्टुभः जगती प्रथमा । मे मम गृहाः आभवन्तु आभिमुख्येन मम भवन्तु मां प्राप्नुवन्तु । प्रजा च मे आभवतु आभिमुख्येन जायताम् । यज्ञो मां आविशतु वीर्यवान् फलदानसमर्थशक्तिमान् । ‘अन्येषाम्’ इति दीर्घत्वम् । आपश्च देव्यः यज्ञिया यज्ञसंपादनार्थाः मां विशन्तु । ‘यज्ञर्त्विग्भ्यां’ इति घः ।
किं च -
सहस्रस्य भूमा सहस्रसंबन्धि यद् बहुतरं सहस्रगृहात् अन्यून-पद-पादादेः ।
स मा कदाचिद् अपि मा प्रहासीत् मा त्याक्षीत्
सहस्राद् ऊन-विभूतिः मा कदाचित् भूवम् । ‘बहोर्लोपो भूच बहोः’ ॥
भास्करोक्त-विनियोगः
2अथ द्वितीया - आ मे ग्रह इति ।
विश्वास-प्रस्तुतिः
आ मे॒ ग्रहो॑ भव॒त्व् आ पु॑रो॒रुख्+++(=ग्रहणमन्त्रः)+++
स्तु॑त+++(=स्तोत्र)+++-श॒स्त्रे मा वि॑शताँ स॒मीची॑ ।
आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः॑
स॒हस्र॑स्य मा भू॒मा +++(यज्ञो)+++ मा प्र हा॑सीत् ।
मूलम्
आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रुक्स्तु॑तश॒स्त्रे मा वि॑शताँ स॒मीची॑ ।
आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः॑ स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ।
भट्टभास्कर-टीका
ग्रहः ऐन्द्रवायवादिः मम आभवतु । स एवार्थः । पुरोरुक् ग्रहणमन्त्रश्च मामाविशतु । स्तुतशस्त्रे च मामाविशताम् । समीची सम्यङ्निर्वृत्ते । सम्यादेशस्य ‘चौ’ इति दीर्घत्वम्, ‘नपुंसकाच्च’ इति शिः । आदित्यादयश्च मे मम सदस्या भवन्तु नित्यं यष्टा भूयासमित्यर्थः । यद्वा - आदित्यादयस्सर्वेऽपि मामाविशन्तु । सहस्रस्येत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
आ मा॑ ऽग्निष्टो॒मो वि॑शतु, +उ॒क्थ्य॑श् च+
अतिरा॒त्रो मा वि॑शत्व् +++(प्र+)+++आपि-शर्व॒रः ।
ति॒रो-अ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु +++(यज्ञाः)+++
स॒हस्र॑स्य मा भू॒मा +++(यज्ञः)+++ मा॒ प्र हा॑सीत् ॥
मूलम्
आ मा॑ग्निष्टो॒मो वि॑शतू॒क्थ्य॑श्चातिरा॒त्रो मा वि॑शत्वापिशर्व॒रः ।
ति॒रोअ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा॒ प्र हा॑सीत् ॥ [34]
भट्टभास्कर-टीका
3तृतीया - अग्निष्टोमो मामाविशतु । उक्थ्यश्च अतिरात्रश्च मामाविशत्वेव । अतिरात्रो विशेष्यते - आपिशर्वरः । अपिशर्वरी रात्रिपर्यायः, समुच्चितरात्रिपर्यायो वा । स्वार्थिकोण् । तिरोअह्निया रात्रिः सा मामाविशतु । सुहुताः सुष्ठु हुताः । अह्नः तिरोहिताः तिरोअह्नियाः । ‘अह्नोह्नः एतेम्यः’ इत्यह्नादेशः, स्वार्थिको यत् । सहस्रस्येत्यादि । गतम् ॥
इति सप्तमे तृतीये त्रयोदशोनुवाकः ॥