विश्वास-प्रस्तुतिः
+++(अथाश्वमेधे अष्टावाहुतीः जुहोति)+++
विश्वास-प्रस्तुतिः
अ॒र्वाङ्+++(=इतो मुखो)+++ य॒ज्ञस् सङ्क्रा॑मत्व्
अ॒मुष्मा॒द्+++(→शत्रोः / स्वर्गात्)+++ अधि॒ माम॒भि ।
ऋषी॑णाय्ँ॒ यᳶ पु॒रोहि॑तः ।
विश्वास-प्रस्तुतिः
निर्दे॑व॒न् निर्वी॑रङ् कृ॒त्वा विष्क॑न्ध॒न्+++(=विविधशोषणं)+++
तस्मि॑न् हीयताय्ँ॒ यो॑ऽस्मान् द्वेष्टि॑ ।
शरी॑रय्ँ यज्ञ-शम॒लङ्+++(=पुरिषं)+++ कुसी॑द॒न्+++(=वृद्धिप्रयोगजीवनं)+++
तस्मि॑न्त् सीदतु॒, यो॑ ऽस्मान् द्वेष्टि॑ ।
विश्वास-प्रस्तुतिः
+++(उपरिष्ठाद् बृहती)+++
यज्ञ॑! य॒ज्ञस्य॒ यत् तेज॒स्
तेन॒ सङ्क्रा॑म॒ माम् अ॒भि ।
ब्रा॒ह्म॒णान् ऋ॒त्विजो॑ दे॒वान् य॒ज्ञस्य॒
तप॑सा॒ ते सव +अ॒हम् आ हु॑वे+++(=आह्वये)+++ ।
विश्वास-प्रस्तुतिः
इ॒ष्टेन॑ प॒क्वम् उप॑
ते हुवे स॒वाहम् [30]
सन् ते॑ वृञ्जे सुकृ॒तँ
सम्प्र॒जाम् प॒शून् ।
विश्वास-प्रस्तुतिः
+++(अभिसारिणी छन्दः)+++
प्रै॒षान्त् सा॑मिधे॒नीर् आ॑घा॒राव् आज्य॑भागा॒व्
आश्रु॑तम् प्र॒त्याश्रु॑त॒म् आ शृ॑णामि ते ।
प्र॒या॒ज + अ॒नू॒या॒जान्त् स्वि॑ष्ट॒कृत॒म्
इडा॑म् आ॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑+++(=स्वर्गम्)+++ ।
विश्वास-प्रस्तुतिः
अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्-
वत्या॒ विष्णु॑ना दे॒वता॑भिः ।
या॒ज्या॒नु॒वा॒क्या॑भ्या॒म् उप॑ ते हु॒वे॒+++(=जुहोमि)+++
स॒व +अ॒हय्ँ य॒ज्ञम् आ द॑दे ते॒ वष॑ट्कृतम् ।
विश्वास-प्रस्तुतिः
स्तु॒तँ+++(→स्तोत्रं)+++ श॒स्त्रम् प्र॑तिग॒रङ् ग्रह॒म्
इडा॑म् आ॒शिष॑ आ वृ॑ञ्जे॒ सुवः॑ ।
प॒त्नी॒-सय्ँ॒या॒जान् उप॑ ते हुवे
सवा॒हँ स॑मिष्टय॒जुर् आ द॑दे॒ तव॑ ।
विश्वास-प्रस्तुतिः
प॒शून्त् सु॒तम् पु॑रो॒डाशा॒न्त्
सव॑ना॒न्य् आ+उत य॒ज्ञम् ।
दे॒वान्त् सेन्द्रा॒न् उप॑ ते हुवे सवा॒हम्
अ॒ग्निमु॑खा॒न्त् सोम॑वतो॒ ये च॒ विश्वे॑॥ [32]