परिचयः
- अतिरात्रः
- पृष्ठ्यष्षडहः
- परस्-सामानस् त्रयः
- विषूवान् दिवाकीर्त्यम्
- आवृत्ताः परस्-सामानः प्रतीचीनास् त्रयः
- पृष्ठ्यष् षडहः
- अतिरात्रः
फलम्
विश्वास-प्रस्तुतिः
अ॒साव् आ॑दि॒त्यो॑ ऽस्मिल्ँ लो॒क आ॑सीत् ।
तन् दे॒वाᳶ पृ॒ष्ठैᳶ +++(षड्भिरहोभिः)+++ प॑रि॒गृह्य॑ सुव॒र्गल्ँ लो॒कम् अ॑गमयन् ।
परै॑र् +++(त्रिभिरहोभिः)+++ अ॒वस्ता॒त्+++(=पृष्ठतः)+++ पर्य॑गृह्णन्।
दिवाकी॒र्त्ये॑न +++(विषुव-प्रातर्-गीयमानेन साम्ना)+++ सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् ।
परैः॑ +++(त्रिभिरहोभिः)+++ प॒रस्ता॒त् पर्य॑गृह्णन् +++(अवतरणात् प्राक्)+++।
पृ॒ष्ठैर् +++(षड्भिरहोभिः)+++ उ॒पावा॑रोहन् ।
स वा अ॒साव् आ॑दि॒त्यो॑ ऽमुष्मिल्ँ॑ लो॒के परै॑र् उभ॒यत॒ᳶ परि॑गृहीतः ।
विश्वास-प्रस्तुतिः
यत् पृ॒ष्ठानि॒ +++(षडहगतानि)+++ भव॑न्ति ,
सु॒व॒र्गम् ए॒व तैर् लो॒कय्ँ यज॑माना यन्ति ।
परै॑र् +++(त्रिभिरहोभिः)+++ अ॒वस्ता॒त् परि॑ गृह्णन्ति +++(आरोहणात् प्राक्)+++।
दि॒वा॒की॒र्त्ये॑न +++(विषुव-प्रातर्-गीयमानेन साम्ना)+++ सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति । [25]
परैः॑ +++(त्रिभिरहोभिः)+++ प॒रस्ता॒त् परि॑गृह्णन्ति +++(अवतरणात् प्राक्)+++।
पृ॒ष्ठैर् +++(षड्भिरहोभिः)+++ उ॒पाव॑रोहन्ति ।
विश्वास-प्रस्तुतिः
यत् परे॑ +++(त्रीण्य् अहानि +उत्तरार्धे)+++ प॒रस्ता॒न् न स्युᳶ, परा॑ञ्चस् +++(उपरि)+++ सुव॒र्गाल् लो॒कान् निष्प॑द्येर॒न् +++(अतिवर्तित्वात्)+++।
यद् +++(त्रीण्य् अहानि +पूर्वार्धे)+++ अ॒वस्ता॒न् न स्युᳶ, प्र॒जा +++(पृथिवीस्थानं च)+++ निर् द॑हेयुः +++(अतिवर्तित्वात्)+++।
विश्वास-प्रस्तुतिः
अ॒भितो॑ दिवाकी॒र्त्य॑म् +++(त्र्यहोभ्यां)+++ पर॑स्-सामानो भवन्ति ।
+++(स्वर्गस्थितान् आदित्यादिदेवान्)+++ सुव॒र्ग ए॒वैनाल्ँ॑ लो॒क उ॑भ॒यत॒ᳶ परि॑ गृह्णन्ति +++(आरोहणावरोहण-कालयोः)+++।
विश्वास-प्रस्तुतिः
यज॑माना॒ वै दि॑वाकी॒र्त्य॑म्+++(→विषुवन्तम्)+++ ।
+++(विषुवस्थानयोर् मध्ये वर्तमावाभ्यां खचक्रार्धाभ्यां युक्तः)+++ सव्ँ॒व॒त्स॒रᳶ पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
सव्ँ॒व॒त्स॒र ए॒वोभ॒यत॒ᳶ प्रति॑ तिष्ठन्ति ।[26]
विश्वास-प्रस्तुतिः
पृ॒ष्ठव्ँ वै दि॑वाकी॒र्त्य॑म् +++(साम)+++, पा॒र्श्वे पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
तस्मा॑द् अ॒भितᳶ॑ पृ॒ष्ठम् पा॒र्श्वे +++(प्रजानाम्)+++।
ग्रहविचारः
विश्वास-प्रस्तुतिः
भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते ।
भूयि॑ष्ठँ शस्यते ।
य॒ज्ञस्यै॒व तन् म॑ध्य॒तो ग्र॒न्थङ् ग्र॑थ्न॒न्त्य् अवि॑स्रँसाय ।
विश्वास-प्रस्तुतिः
+++(त्रिषु परस्सामसु त्रीन् अतिग्राह्यान् गृह्णाति ‘उपयामगृहीतोस्यद्भ्यस्त्वौषधीम्यः’ इत्यादिभिः त्रिभिः, तान् ऊर्ध्वान् आवृत्तांश् च विषूवति । तेषां मध्ये सूर्यमुदुत्यं जातवेदसमिति ।)+++
+++(ततः -)+++ स॒प्त गृ॑ह्यन्ते ।
स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः+++(=रन्ध्राणि)+++ ।
प्रा॒णान् ए॒व यज॑मानेषु दधति ।
विश्वास-प्रस्तुतिः
यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति ,
अ॒मुम् ए॒व तैर् लो॒कम् अ॒भ्यारो॑हन्ति ।
यद् इ॒मल्ँ लो॒कन् न प्र॑त्यव॒रोहे॑यु॒र्, उद् वा॒ माद्ये॑यु॒र्, यज॑माना॒ᳶ प्र वा॑ मीयेरन् ।
विश्वास-प्रस्तुतिः
यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति-
इ॒मम् ए॒व तैर् लो॒कम् प्र॒त्यव॑रोह॒न्ति ।
अथो॑ अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठ॒न्त्य् अनु॑न्मादाय ।
फलम्
विश्वास-प्रस्तुतिः
इन्द्रो॒ वा अप्र॑तिष्ठित आसीत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् ।
तस्मा॑ ए॒तम् ए॑कविँशति-रा॒त्रम् प्राय॑च्छत् ।
तम् आह॑रत् । तेना॑यजत ।
ततो॒ वै स प्रत्य॑तिष्ठत् ।
विश्वास-प्रस्तुतिः
ये ब॑हुया॒जिनो ऽप्र॑तिष्ठितास् स्युस्, [28]
त ए॑कविँशतिरा॒त्रम् आ॑सीरन् ।
द्वाद॑श॒ मासा॒ᳶ, पञ्च॒र्तव॒स्, त्रय॑ इ॒मे लो॒का, अ॒साव् आ॑दि॒त्य ए॑कविँ॒शः ।
ए॒ताव॑न्तो॒ वै दे॑वलो॒काः ।
तेष्वे॒व य॑थापू॒र्वम् प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
अ॒साव् आ॑दि॒त्यो न व्य॑रोचत ।
स प्र॒जाप॑ति॒म् उपा॑धावत्।
तस्मा॑ ए॒तम् ए॑कविँशतिरा॒त्रम् प्राय॑च्छत ।
तम् आह॑रत । तेना॑यजत ।
ततो॒ वै सो॑ऽरोचत ।
य ए॒वव्ँ वि॒द्वाँ॑स एकविँशतिरा॒त्रम् आस॑ते॒ , रोच॑न्त ए॒व ।
विश्वास-प्रस्तुतिः
ए॒क॒विँ॒श॒ति॒रा॒त्रो भ॑वति । रुग् वा ए॑क-विँ॒शः । रुच॑म् ए॒व ग॑च्छ॒न्त्य् अथो॑ प्रति॒ष्ठाम् ए॒व । प्र॑ति॒ष्ठा ह्य् ए॑कविँ॒शः ।
विश्वास-प्रस्तुतिः
अ॒ति॒रा॒त्राव॒भितो॑ भवतो, ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [29]