०९ विंशतिरात्रविधिः

परिचयः

विश्वास-प्रस्तुतिः

अयं तावदहःक्रमः - अतिरात्रः, ज्योतिर्गौरायुरिति त्र्यहस् त्रिरभ्यस्तो, नवपृष्ठ्यष् षडहः, पुनरपि त्र्यहः - प्रतीचीन आयुर्गौर्ज्योतिर्, अतिरात्र इति ।

फलम्

विश्वास-प्रस्तुतिः

सा +++(दशाक्षरा)+++ वि॒राड् वि॒क्रम्या॑तिष्ठ॒द् - ब्रह्म॑णा दे॒वेष्व् अन्ने॒नासु॑रेषु ।
ते दे॒वा अ॑कामयन्त - उ॒भयँ॒ सव्ँ-वृ॑ञ्जीमहि॒ ब्रह्म॒ चान्न॒ञ् चेति॑ ।

विश्वास-प्रस्तुतिः

त ए॒ता विँ॑श॒तिँ रात्री॑रपश्यन् ।
ततो॒ वै त उ॒भयँ॒ सम॑वृञ्जत॒ , ब्रह्म॒ चान्न॑ञ्च।
ब्र॒ह्म॒व॒र्च॒सिनो॑ऽ॒न्ना॒दा अ॑भवन् ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँस॑ ए॒ता आस॑त , उ॒भय॑म् ए॒व सव्ँवृ॑ञ्जते॒ ब्रह्म॒ चान्न॑ञ् च [22] ।
ब्र॒ह्म॒व॒र्च॒सिनो॑ ऽन्ना॒दा भ॑वन्ति ।

विश्वास-प्रस्तुतिः

द्वे +++(दिनदशके)+++ वा ए॒ते वि॒राजौ॑ ।
तयो॑र् ए॒व नाना॒ प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

विँ॒शो वै पुरु॑षो॒ , दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒, दश॒ पद्याः॑ ।
यावा॑न् ए॒व पुरु॑ष॒स् तम् आ॒प्त्वोत्ति॑ष्ठन्ति ।

विधानम्

ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हाः ...{Loading}...

विश्वास-प्रस्तुतिः

ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हा भ॑वन्ति।
इ॒यव्ँ वाव ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑।

मूलम्

ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँ वाव ज्योति॑र॒न्तरि॑क्ष॒ङ्गौर॒सावायु॑

विश्वास-टिप्पनी

ज्योतिस्स्वरूपम् ७.१ इत्यत्र प्रतिपादितम्। १९० स्तोत्रियम्।
गौः - खलु पञ्चदशो बहिष्पवमानः, त्रिवृन्त्य् आज्यानि, सप्तदशं माध्यन्दिनं सवनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २४१-स्तोत्रिया। क्थम्??
आयुः - त्रिवृत् बहिष्पवमानं, पञ्चदशाज्यानि, सर्वसप्तदशं माध्यन्दिनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २५९-स्तोत्रियम्। कथम्??

इ॒मान् ए॒व लो॒कान॒भ्यारो॑हन्ति ।

अ॒भि॒पू॒र्वन् +++(तिस्रस्)+++ त्र्य॒हा भ॑वन्ति ।
अ॒भि॒पू॒र्वमे॒व सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति ।[23]

मध्ये पृष्ठानि ...{Loading}...

विश्वास-प्रस्तुतिः

यद् अ॒न्यत॑ᳶ +++(पार्श्वे)+++ पृ॒ष्ठानि॒ स्युर् - वि+++(गत)+++-वि॑वधँ +++(=उभयतोवलम्ब-क्षीरादि-वहन-यन्त्र-विशेष)+++ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑।
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॑ । ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते ।

बृहद्-रथन्तर-यानम् ...{Loading}...

मूलम् (संयुक्तम्)

बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

+++(दिवसेषु एकान्तराभ्यां)+++ बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++(चास्ति)+++।
आ॒भ्यामे॒व य॒न्ति +++(प्रथमदिनयोः)+++ ।

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती+++(=मार्गौ)+++ ।
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् । आ॒भ्यामे॒व य॒न्ति [2]।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति । ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

प्रत्यङ् त्र्यहः ...{Loading}...

विश्वास-प्रस्तुतिः

परा॑ञ्चो॒ +++(अपुनरावृत्ता एव)+++ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति॒, ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑ ।
प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒+++(य्)+++, अथो॒ प्रति॑ष्ठित्यै ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।

विश्वास-प्रस्तुतिः

अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतः ।
ब्र॒ह्म॒व॒र्च॒सस्या॒न्नाद्य॑स्य परि॑गृहीत्यै ॥ [24]