०८ सप्तदशरात्रविधिः

परिचयः

विश्वास-प्रस्तुतिः

छन्दोमवान् - यथा ऽतिरात्रः, पञ्चाहः, द्वादशाहस्य दशाहान्य् (ज्योतिष्टोमः, ८ उक्थ्याः, ज्योत्ष्टोमः), अतिरात्र इति ।

फलम्

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् अकामयत - “अन्ना॒दस् स्या॒म्” इति॑ ।
स ए॒तँ स॑प्तदशरा॒त्रम् अ॑पश्यत् ।
तम् आह॑रत् । तेना॑यजत । ततो॒ वै सो॑ऽन्ना॒दो॑ऽभवत् ।
य ए॒वव्ँ वि॒द्वाँस॑स् सप्तदशरा॒त्रम् आस॑ते, ऽन्ना॒दा ए॒व भ॑वन्ति ।

विधानम्

विश्वास-प्रस्तुतिः

पञ्चा॒हो भ॑वति ।
+++(हेमन्त-शिशिरयोर् एकत्वात्)+++ पञ्च॒ वा ऋ॒तव॑स् सव्ँवत्स॒रः । ऋ॒तुष्व् ए॒व सव्ँ॑वत्स॒रे प्रति॑ तिष्ठ॒न्ति ।
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः । +++(पङ्क्तिप्रभवत्वाद्वा धानादिपञ्चकसाधनत्वाद्वा)+++ पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञम् ए॒वाव॑ रुन्धते ।

विश्वास-प्रस्तुतिः

+++(द्वादशाहस्य दशाहानि विदधाति -)+++

असत्रम् अछन्दोमम् ...{Loading}...

मूलम् (संयुक्तम्)

अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति

विश्वास-प्रस्तुतिः

+++(छन्दोमवतः प्रशंसार्थं वक्ति - )+++ अस॑त्त्रव्ँ॒ वा ए॒तद् यद् अ॑छन्दो॒मम् । यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैः ।
ओजो॒ वा वी॒र्य॑म् पृ॒ष्ठानि॑, प॒शव॑श् छन्दो॒मा ।
ओज॑स्य् ए॒व वी॒र्ये॑, प॒शुषु॒ +++(च)+++ प्रति॑ तिष्ठन्ति ।

मूलम्

अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् । यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् । दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒माः । ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒श॒रा॒त्रो भ॑वति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै ।
अ॒ति॒रा॒त्राव॒भितो॑ भवतो॒ , ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥ [21]