परिचयः
विश्वास-प्रस्तुतिः
पञ्चदशरात्रयोरेकतरः पृष्ठावृत्तिमान्।
विश्वास-प्रस्तुतिः
अत्रेयमहःकॢप्तिः - अतिरात्रः, त्र्यहः - (ज्योतिर्, गौर्, आयुः), पृष्ठ्यस् सप्ताहः??, त्र्यहः - (आयुर्, गौर्, ज्योतिर्), अतिरात्र इति।
फलम्
विश्वास-प्रस्तुतिः
इन्द्रो॒ वै शि॑थि॒ल इ॒वाप्र॑तिष्ठित आसीत् ।
सोऽसु॑रेभ्योऽबिभेत् । स प्र॒जाप॑ति॒म् उपा॑धावत् ।
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तम् प॑ञ्चदशरा॒त्रव्ँ वज्र॒म् प्राय॑च्छत् ।
तेनासु॑रान् परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑म् अगच्छत् ।
विश्वास-प्रस्तुतिः
अ॒ग्नि॒ष्टुता॑+++(=सर्वाग्नेयस् त्रिवृद्-एकाहविशेषः)+++ पा॒प्मान॒न् निर॑दहत ।
प॒ञ्च॒द॒श॒रा॒त्रेणौजो॑ बल॑म् इन्द्रि॒यव्ँ वी॒र्य॑म् आ॒त्मन्न् अ॑धत्त ।
य ए॒वव्ँ वि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रम् आस॑ते,
भ्रातृ॑व्यान् ए॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रिय॑ङ् गच्छन्ति ।
अग्नि॒ष्टुता॑ पा॒प्मान॒न् निर्द॑हन्ते [16] ।
प॒ञ्च॒द॒श॒रा॒त्रेणौजो॒, बल॑म् इन्द्रि॒यव्ँ वी॒र्य॑म् आ॒त्मन् द॑धते ।
विश्वास-प्रस्तुतिः
ए॒ता ए॒व प॑श॒व्याः॑ ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस् सव्ँ॑वत्स॒र आ॑प्यते ।
सव्ँ॒व॒त्स॒र॒म् प॒शवोऽनु॒ प्र जा॑यन्ते ।
तस्मा॑त् पश॒व्याः।
विश्वास-प्रस्तुतिः
ए॒ता ए॒व सु॑व॒र्ग्याः॑ ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अ॒र्ध॒मा॒स॒शस् सव्ँ॑वत्स॒र आ॑प्यते ।
सव्ँ॒व॒त्स॒रस् सु॑व॒र्गो लो॒कः । तस्मा॑त् सुव॒र्ग्याः॑ ।
विधानम्
ज्योतिर् गौर् आयुः ...{Loading}...
विश्वास-प्रस्तुतिः
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हो भ॑वति ।
इ॒यव्ँ वाव ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑ ।
विश्वास-टिप्पनी
ज्योतिस्स्वरूपम् ७.१ इत्यत्र प्रतिपादितम्। १९० स्तोत्रियम्।
गौः - खलु पञ्चदशो बहिष्पवमानः, त्रिवृन्त्य् आज्यानि, सप्तदशं माध्यन्दिनं सवनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २४१-स्तोत्रिया। क्थम्??
आयुः - त्रिवृत् बहिष्पवमानं, पञ्चदशाज्यानि, सर्वसप्तदशं माध्यन्दिनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २५९-स्तोत्रियम्। कथम्??
विश्वास-प्रस्तुतिः
इ॒मान् ए॒व लो॒कान॒भ्यारो॑हन्ति ।
मध्ये पृष्ठानि ...{Loading}...
विश्वास-प्रस्तुतिः
यद् अ॒न्यत॑ᳶ +++(पार्श्वे)+++ पृ॒ष्ठानि॒ स्युर् - वि+++(गत)+++-वि॑वधँ +++(=उभयतोवलम्ब-क्षीरादि-वहन-यन्त्र-विशेष)+++ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑।
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॑ ।
ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते ।
बृहद्-रथन्तर-यानम् ...{Loading}...
मूलम् (संयुक्तम्)
बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति
विश्वास-प्रस्तुतिः
+++(दिवसेषु एकान्तराभ्यां)+++ बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++(चास्ति)+++।
आ॒भ्यामे॒व य॒न्ति +++(प्रथमदिनयोः)+++ ।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती+++(=मार्गौ)+++ ।
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
मूलम्
बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति ।
इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् ।
आ॒भ्यामे॒व य॒न्ति [2]।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ।
ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।
प्रत्यङ् त्र्यहः ...{Loading}...
विश्वास-प्रस्तुतिः
परा॑ञ्चो॒ +++(अपुनरावृत्ता एव)+++ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति॒,
ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑ ।
प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒+++(य्)+++, अथो॒ प्रति॑ष्ठित्यै ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।
विश्वास-प्रस्तुतिः
पञ्च॑दशै॒ताः।
तासाय्ँ॒ या दश॒ दशा॑क्षरा वि॒राड्। अन्नव्ँ॑ वि॒राड्। वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्धते ।
याᳶ पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्ति ।
अ॒ति॒रा॒त्रा॒व॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नाम् परि॑गृहीत्यै ॥ [19]