परिचयः
विश्वास-प्रस्तुतिः
पञ्चदशरात्रयोर् एकतरश् छन्दोमवान् - यथा ऽतिरात्रो, (ज्योतिर्, गौर्, आयुस्), द्वादशाहस्य दशाहान्य् (ज्योतिष्टोमः, ८ उक्थ्याः, ज्योत्ष्टोमः), अतिरात्र इति ।
एतदिदानीं विदधाति।
फलम्
विश्वास-प्रस्तुतिः
इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिर् आसीत् ।
स न व्या॒वृत॑म् अगच्छत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् ।
तस्मा॑ ए॒तम् प॑ञ्चदशरा॒त्रम् प्राय॑च्छत् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सो॑ ऽन्याभि॑र् दे॒वता॑भिर् व्या॒वृत॑म् अगच्छत् ।
य ए॒वव्ँ वि॒द्वाँसᳶ॑ पञ्चदशरा॒त्रम् आस॑ते,
व्या॒वृत॑म् ए॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति ।
विधानम्
ज्योतिर् गौर् आयुः ...{Loading}...
विश्वास-प्रस्तुतिः
ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हो भ॑वति ।
इ॒यव्ँ वाव ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑ ।
विश्वास-टिप्पनी
ज्योतिस्स्वरूपम् ७.१ इत्यत्र प्रतिपादितम्। १९० स्तोत्रियम्।
गौः - खलु पञ्चदशो बहिष्पवमानः, त्रिवृन्त्य् आज्यानि, सप्तदशं माध्यन्दिनं सवनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २४१-स्तोत्रिया। क्थम्??
आयुः - त्रिवृत् बहिष्पवमानं, पञ्चदशाज्यानि, सर्वसप्तदशं माध्यन्दिनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २५९-स्तोत्रियम्। कथम्??
विश्वास-प्रस्तुतिः
ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्ति ।
विश्वास-प्रस्तुतिः
+++(द्वादशाहस्य दशाहानि विदधाति -)+++
असत्रम् अछन्दोमम् ...{Loading}...
मूलम् (संयुक्तम्)
अस॑त्त्रव्ँ॒वा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
विश्वास-प्रस्तुतिः
+++(छन्दोमवतः प्रशंसार्थं वक्ति - )+++ अस॑त्त्रव्ँ॒ वा ए॒तद् यद् अ॑छन्दो॒मम् ।
यच् छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैर् अव॑ रुन्धते प॒शूञ् छ॑न्दो॒मैः ।
ओजो॒ वा वी॒र्य॑म् पृ॒ष्ठानि॑, प॒शव॑श् छन्दो॒मा ।
ओज॑स्य् ए॒व वी॒र्ये॑, प॒शुषु॒ +++(च)+++ प्रति॑ तिष्ठन्ति ।
मूलम्
अस॑त्त्रव्ँ॒ वा ए॒तद् यद॑छन्दो॒मम् ।
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैः ।
ओजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒माः ।
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति ।
विश्वास-प्रस्तुतिः
पञ्चदशरा॒त्रो भ॑वति, पञ्चद॒शो वज्रः॑।
वज्र॑मे॒व भ्रातृ॑व्येभ्य॒ᳶ प्र ह॑रन्ति ।
विश्वास-प्रस्तुतिः
अ॒ति॒रा॒त्राव॒भितो॑ भवतः । इन्द्रि॒यस्य॒ परि॑गृहीत्यै ॥ [15]