०५ अन्यश् चतुर्दशरात्रः

परिचयः

विश्वास-प्रस्तुतिः

अत्रेयमहःकॢप्तिः - अतिरात्रः, त्र्यहः - (ज्योतिर्, गौर्, आयुः), पृष्ठ्यष्षडहः, त्र्यहः - (आयुर्, गौर्, ज्योतिर्), अतिरात्र इति ।

फलम्

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिस् सुव॒र्गल्ँ लो॒कम् ऐ॑त् ।
तन् दे॒वा अन्वा॑यन् ।
तान् आ॑दि॒त्याश् च॑ प॒शव॒श् चान्वा॑यन् ।

विश्वास-प्रस्तुतिः

ते दे॒वा अ॑ब्रुव॒न्- यान् प॒शून् उ॒पाजी॑विष्म॒ त इ॒मे॑ ऽन्वाग्म॒न्न् इति॑ ।
तेभ्य॑ ए॒तञ् च॑तुर्दशरा॒त्रम् प्रत्यौ॑हन्+++(=प्रत्यवहन्)+++ ।
+++(पृष्ठानन्तरं भूयोपि तत्रैव त्रिरात्रे प्रत्यवरोहणं प्रत्यूहः ।)+++

विश्वास-प्रस्तुतिः

त आ॑दि॒त्याᳶ पृ॒ष्ठैस् सु॑व॒र्गल्ँ लो॒कम् आरो॑हन् , त्र्य॒हाभ्या॑म् अ॒स्मिल्ँ लो॒के प॒शून् प्रत्यौ॑हन् ।
पृ॒ष्ठैर् आ॑दि॒त्या अ॒मुष्मिल्ँ॑ लो॒क आर्ध्नु॑वन् , त्र्य॒हाभ्या॑म् अ॒स्मिन् लो॒के प॒शवः॑ । [11] ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वाँस॑श् चतुर्दश-रा॒त्रम् आस॑त , उ॒भयो॑र् ए॒व लो॒कयो॑र् ऋध्नुवन्त्य्- अ॒स्मिँश् चा॒मुष्मिँ॑श्च ।
पृ॒ष्ठैर् ए॒वामुष्मिल्ँ॑ लो॒क ऋ॑ध्नु॒वन्ति॑ , त्र्य॒हाभ्या॑म् अ॒स्मिल्ँ लो॒के ।

विधानम्

ज्योतिर् गौर् आयुः ...{Loading}...

विश्वास-प्रस्तुतिः

ज्योति॒र् गौर् आयु॒र् इति॑ त्र्य॒हो भ॑वति ।
इ॒यव्ँ वाव ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑ ।

विश्वास-टिप्पनी

ज्योतिस्स्वरूपम् ७.१ इत्यत्र प्रतिपादितम्। १९० स्तोत्रियम्।
गौः - खलु पञ्चदशो बहिष्पवमानः, त्रिवृन्त्य् आज्यानि, सप्तदशं माध्यन्दिनं सवनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २४१-स्तोत्रिया। क्थम्??
आयुः - त्रिवृत् बहिष्पवमानं, पञ्चदशाज्यानि, सर्वसप्तदशं माध्यन्दिनं, सर्वैकविंशं तृतीयसवनं सोक्थ्यमिति । २५९-स्तोत्रियम्। कथम्??

विश्वास-प्रस्तुतिः

इ॒मान् ए॒व लो॒कान् अ॒भ्यारो॑हन्ति ।

मध्ये पृष्ठानि ...{Loading}...

विश्वास-प्रस्तुतिः

यद् अ॒न्यत॑ᳶ +++(पार्श्वे)+++ पृ॒ष्ठानि॒ स्युर् - वि+++(गत)+++-वि॑वधँ +++(=उभयतोवलम्ब-क्षीरादि-वहन-यन्त्र-विशेष)+++ स्यात् ।
मध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वाय॑।
ओजो॒ वै वी॒र्य॑म् पृ॒ष्ठानि॑ । ओज॑ ए॒व वी॒र्य॑म् मध्य॒तो द॑धते ।

बृहद्-रथन्तर-यानम् ...{Loading}...

मूलम् (संयुक्तम्)

बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

+++(दिवसेषु एकान्तराभ्यां)+++ बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++(चास्ति)+++।
आ॒भ्यामे॒व य॒न्ति +++(प्रथमदिनयोः)+++ ।

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती+++(=मार्गौ)+++ ।
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् । आ॒भ्यामे॒व य॒न्ति [2]।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति । ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

प्रत्यङ् त्र्यहः ...{Loading}...

विश्वास-प्रस्तुतिः

परा॑ञ्चो॒ +++(अपुनरावृत्ता एव)+++ वा ए॒ते सु॑व॒र्गल्ँ लो॒कम् अ॒भ्यारो॑हन्ति॒, ये प॑रा॒चीना॑नि पृ॒ष्ठान्य् उ॑प॒यन्ति॑ ।
प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒+++(य्)+++, अथो॒ प्रति॑ष्ठित्यै ।
उ॒भयो॑र् लो॒कयो॑र् ऋ॒द्ध्वोत्ति॑ष्ठन्ति ।

विश्वास-प्रस्तुतिः

चतु॑र्दशै॒ताः ।
तासाय्ँ॒ या दश॒ दशा॑क्षरा वि॒राड्। अन्नव्ँ॑ वि॒राड्। वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्धते ।
याश् चत॑स्र॒श् - चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्ति ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [13]