फलम्
विश्वास-प्रस्तुतिः
आ॒दि॒त्या अ॑कामयन्त -
“उ॒भयो॑र् लो॒कयो॑र् ऋध्नुया॒म”+ इति॑ ।
त ए॒तञ् च॑तुर्दश-रा॒त्रम् अ॑पश्यन् ।
तम् आह॑रन् । तेना॑यजन्त ।
ततो॒ वै त उ॒भयो॑र् लो॒कयो॑र् आर्ध्नुवन्न् - अ॒स्मिँश् चा॒मुष्मिँ॑श्च ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वाँस॑श् चतुर्दश-रा॒त्रम् आस॑ते,
उ॒भयो॑र् ए॒व लो॒कयो॑र् ऋध्नुवन्ति - अ॒स्मिँश् चा॒मुष्मिँ॑श् च।
चतुर्दशरा॒त्रो भ॑वति ।
स॒प्त ग्रा॒म्या ओष॑धयस्, स॒प्तार॒ण्याः। उ॒भयी॑षा॒म् अव॑रुद्ध्यै ।
विधिः
विश्वास-प्रस्तुतिः
+++(क्रमः - अतिरात्रः, (त्रिवृद् अग्निष्टोमः, पञ्चदश उक्थ्यः, सप्तदश उक्थ्यः, २१ षोडशी, २७ उक्थ्यः, ३३ उक्थ्यः) = षडहः, तस्य षडहस्य विपरीतम्, अतिरात्रः।)+++
विश्वास-प्रस्तुतिः
यत् प॑रा॒चीना॑नि+++(=ऊर्ध्वमुखानि)+++ पृ॒ष्ठानि॒ +++(त्रिवृदादीनि त्रयस्त्रिंशान्तानि)+++ भव॑न्ति +अ॒मुम् ए॒व तैर् लो॒कम् अ॒भि ज॑यन्ति ।
यत् प्र॑ती॒चीना॑नि+++(=प्रत्यङ्मुखानि)+++ पृ॒ष्ठानि॒ +++(त्रयस्त्रिंशादीनि त्रिवृदन्तानि)+++ भव॑न्ति + इ॒मम् ए॒व तैर् लो॒कम् अ॒भि ज॑यन्ति ।
विश्वास-प्रस्तुतिः
त्रयस्त्रिँ॒शौ +++(दिनानां)+++ म॑ध्य॒तस् +++(सप्तमाष्टमयोः)+++ स्तोमौ॑ भवतः। साम्रा॑ज्यम् ए॒व ग॑च्छन्ति +++(मध्ये समृद्धत्वात्)+++।
विश्वास-प्रस्तुतिः
अ॒धि॒रा॒जौ +++(अतिरात्ररूपेण?)+++ भ॑वतः। अ॒धि॒रा॒जा ए॒व स॑मा॒नाना॑म् भवन्ति ।
अ॒ति॒रा॒त्राव् अ॒भितो॑ भवत॒ᳶ परि॑गृहीत्यै ॥ [10]