परिचयः
विश्वास-प्रस्तुतिः
विश्वेदेवा ऋषयः।
अथ द्वौ त्रयोदशरात्रौ ।
तत्रायं प्रथमः अतिरात्रः, पृष्ठ्यष् षडहस् (त्रिवृद् अग्निष्टोमः, पञ्चदश उक्थ्यः, सप्तदश उक्थ्यः, २१ षोडशी, २७ उक्थ्यः, ३३ उक्थ्यः), सर्व-स्तोमो ऽतिरात्रश्, चत्वारश् छन्दोमा +++(येषु छन्दोमास् स्तोमा उच्यन्ते)+++, अतिरात्रश् चेति । इमम् अधिकृत्योच्यते।
विधिः
विश्वास-प्रस्तुतिः
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत् त्र॑योदश-रा॒त्रः ।
स॑मा॒नँ ह्य् ए॑तद् अह॒र् यत् प्रा॑य॒णीय॑श् चोदय॒नीय॑श्च +++(अतिरात्रद्वयम्)+++।
त्र्य्-अ॑तिरात्रो भवति। त्रय॑ इ॒मे लो॒काः। ए॒षाल्ँ लो॒काना॒म् आप्त्यै॑ +++(तत् तथा)+++।
प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो, व्या॒नो द्वि॒तीयो॑, ऽपा॒नस्तृ॒तीयः॑।
प्रा॒णा॒पा॒नो॒दा॒नेष्व् ए॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति ।
सर्व॒म् आयु॑र् यन्ति॒, य ए॒वव्ँ वि॒द्वाँ॑सस् त्रयोदश-रा॒त्रम् आस॑ते ।
विश्वास-प्रस्तुतिः
तदा॑हुर् -
वाग् वा ए॒षा वित॑ता यद् द्वा॑दशा॒हः [7] ।
ताव्ँ विच्छि॑न्द्यु॒र् , यन्-मध्ये॑ ऽतिरा॒त्रङ् कु॒र्युर् - उ॑प॒दासु॑का+++(=क्षयशीला)+++ गृ॒हप॑ते॒र् वाक् स्या॑त् ।
उपरि॑ष्टाच् +++(चतुर्णां)+++ छन्दो॒माना॑म् +++(अविवाक्येन सह)+++ महाव्र॒तङ् +++(अतिरात्रं)+++ कु॑र्वन्ति॒,
+++(येन)+++ सन्त॑ताम् ए॒व वाच॒म् अव॑ रुन्धते, ऽनु॑पदासुका +++(च)+++ गृ॒हप॑ते॒र् वाग् भ॑वति ।
विश्वास-प्रस्तुतिः
प॒शवो॒ वै छ॑न्दो॒मा, अन्न॑म् महाव्र॒तम् ।
यदु॒परि॑ष्टाच् छन्दो॒माना॑म् महाव्र॒तङ् कु॒र्वन्ति॑ , प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥ [8]