०२ द्वादशाह-याजन-निषेधः

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
किन् द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजाय्ँ॒ यज॑मानो वृङ्क्त॒ इति॑ ।
तेज॑ इन्द्रि॒यम् इति॑ ।

विश्वास-प्रस्तुतिः

किन् द्वि॒तीये॒नेति॑ । प्रा॒णान् अ॒न्नाद्य॒म्+++(=अन्नस्यादनं)+++ इति॑ ।
किन् तृ॒तीये॒नेति॑ । त्रीन् इ॒माल्ँ लो॒कान् इति॑ ।
किञ् च॑तु॒र्थेनेति॑ । चतु॑ष्पदᳶ प॒शून् इति॑ ।
किम् प॑ञ्च॒मेनेति॑ । पञ्चा॑क्षराम् प॒ङ्क्तिम् इति॑ ।
किँ ष॒ष्ठेनेति॑ । षड् ऋ॒तून् इति॑ ।
किँ स॑प्त॒मेनेति॑ । स॒प्तप॑दाँ॒ शक्व॑री॒म् इति॑ [5] ।
किम् अ॑ष्ट॒मेनेति॑ । अ॒ष्टाक्ष॑राङ् गाय॒त्रीम् इति॑ ।
किन् न॑व॒मेनेति॑ । त्रि॒वृतँ॒ स्तोम॒म् इति॑ ।
किन् द॑श॒मेनेति॑ । दशा॑क्षराव्ँ वि॒राज॒म् इति॑ ।
किम् ए॑काद॒शेनेति॑ । एका॑दशाक्षरान् त्रि॒ष्टुभ॒म् इति॑ ।
किन् द्वा॑द॒शेनेति॑ । द्वाद॑शाक्षरा॒ञ् जग॑ती॒म् इति॑ ।
ए॒ताव॒द् वा अ॑स्ति॒ याव॑द् ए॒तत् । याव॑द् ए॒वास्ति॒ तद् ए॑षाव्ँ वृङ्क्ते ॥ [6]