विश्वास-प्रस्तुतिः
+++(प्रायणीयोदयनीयौ विना दशाहत्वम् । तत्र दशममहः अविवाक्यम् इत्य् आचर्यते।)+++
जवः पापनाशश्च
विश्वास-प्रस्तुतिः
प्र॒जवव्ँ॒ वा ए॒तेन॑ यन्ति॒, यद् द॑श॒मम् अहः॑।
+++(यतः - )+++ पापाव॒हीयव्ँ॒+++(=पापावहतिर्)+++ वा ए॒तेन॑ भवन्ति॒ , यद् द॑श॒मम् अहः॑ ।
अविवाक्यता
विश्वास-प्रस्तुतिः
यो वै प्र॒जवय्ँ॑ य॒ताम् +++(मध्ये)+++ अप॑थेन प्रति॒पद्य॑ते॒ ,
यस् स्था॒णुँ हन्ति॒+++(→गच्छति)+++ ,
यो भ्रेष॒न्+++(=निपतन्)+++ न्य्+एति॒ स ही॑यते ।
विश्वास-प्रस्तुतिः
+++(एवम् अस्मिन्नपि कर्मणि - )+++ यो वै द॑श॒मे ऽह॑न्न् अविवा॒क्य +++(स्मृतिविनाशादिना)+++ उ॑पह॒न्यते॒ , स ही॑यते ।
तस्मै॒ य उप॑हताय॒ व्याह॒+++(=विरुद्धमाह)+++, तम् ए॒वान्वा॒रभ्य॒ +++(हीयमानः)+++ सम॑श्नुते +++(सिद्धिम्)+++। अथ॒ यो व्याह॒ स ही॑यते [1]।
तस्मा॑द् दश॒मेऽह॑न्न् अविवा॒क्य उप॑हताय॒ न व्युच्यम्॑ ।
दोषवारणम्
विश्वास-प्रस्तुतिः
+++(अविवाक्यतायाः खलु यज्ञफले दोषो भवेद् इति शङ्कायाम्,)+++
अथो॒ खल्वा॑हुर् -
य॒ज्ञस्य॒ वै समृ॑द्धेन दे॒वास् सु॑व॒र्गल्ँ लो॒कम् आ॑यन् ,
य॒ज्ञस्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑भावय॒न्न् इति॑ ।
यत् खलु॒ वै य॒ज्ञस्य॒ समृ॑द्ध॒न् , तद् यज॑मानस्य॒, यद् व्यृ॑द्ध॒न् तद् भ्रातृ॑व्यस्य ।
स यो वै द॑श॒मे ऽह॑न्न् अविवा॒क्य +++(स्मृतिभ्रंशादिना)+++ उ॑पह॒न्यते॑, स ए॒वाति॑ रेचयति +++(=शेषयति [यज्ञांशम्])+++ ।
+++(तेन भ्रातृव्यः पुष्ट्टस् स्यात् - अतो वक्तव्यम् एव।)+++
ते ये बाह्या॑ दृशी॒कवः॒+++(=प्रेक्षकाः)+++ स्युः, ते वि ब्रू॑युः।
यदि॒ तत्र॒ न वि॒न्देयु॑र् +++(स्खलितज्ञातॄन्)+++, अन्तस् सद॒साद् +++(ऋत्विग्भिर्)+++ व्युच्य॑म् ।
यदि॒ तत्र॒ न वि॒न्देयु॑र्, गृ॒हप॑तिना॒+++(=मुख्ययजमानेन)+++ व्युच्य॑म् ।
तद् व्युच्य॑मे॒व ।
सर्पराज्ञि-मन्त्र-वचनम्
विश्वास-प्रस्तुतिः
अथ॒ वा ए॒तत् स॑र्परा॒ज्ञिया॑+++(ज्ञ्याः)+++ +++(‘भूमिर्भूम्ना’ इत्यादिभिः)+++ ऋ॒ग्भिस् स्तु॑वन्ति +++(तस्मिन्नहनि समाप्तिकाले)+++ ।
इ॒यव्ँ वै +++(पृथिवी)+++ सर्प॑तो॒ राज्ञी॑ ।
यद् वा अ॒स्याङ् किञ्चार्च॑न्ति॒ ,
यद् +++(तामेव)+++ आ॑नृ॒चुस्+++(=अर्चयन्ति)+++,
तेने॒यँ स॑र्परा॒ज्ञी ।
विश्वास-प्रस्तुतिः
ते यद् ए॒व किञ्च॑ वा॒चा ऽऽनृ॒चुर्+++(=अर्चयन्ति)+++
यद् अ॒तो ऽध्य् अ॑र्चि॒तारः॑,
तद् उ॒भय॑म् आ॒प्त्वा ऽव॒रुध्योत्ति॑ष्ठा॒मेति॑
ताभि॒र् मन॑सा स्तुवते ।
विश्वास-प्रस्तुतिः
न वा इ॒माम् अ॑श्वर॒थो नाश्व॑तरीर॒थस् स॒द्यᳶ पर्या॑प्तुम् अर्हति ।
मनो॒ वा इ॒माँ स॒द्यᳶ पर्या॑प्तुम् अर्हति॒ ,
मन॒ᳶ परि॑भवितुम् +++(तस्मान् मनसा स्तोतव्यमिति)+++ ।
चतुर्होत्रवचनम्
विश्वास-प्रस्तुतिः
अथ॒ +++(स्तोत्रान्ते शस्त्रारम्भे चतुर्होर्त्रं)+++ ब्रह्म॑ वदन्ति ।
परि॑मिता॒ वा ऋच॒ᳶ, परि॑मितानि॒ सामा॑नि॒, परि॑मितानि॒ यजूँ॒ष्य्,
+++(ब्रह्मणो)+++ अथै॒तस्यै॒वान्तो॒ नास्ति॑ ।
यद् ब्रह्म॒ तत् प्र॑तिगृण॒त आ च॑क्षीत ।
स प्र॑तिग॒रः+++(=प्रतिवचनम् [शंसितुः प्रोत्साहनम् प्रति])+++ +++(न प्रतिगरो ऽन्य इति)+++॥ [4]