फलम् सत्राणाम्
विश्वास-प्रस्तुतिः
न वा ए॒षो॑ऽन्यतो॑वैश्वानरस् सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वत् ।
ऊ॒र्ध्वो ह॒ वा ए॒ष +++(स्वर्ग)+++ आत॑त आसीत् ।
ते दे॒वा ए॒तव्ँ वै॑श्वान॒रम् पर्यौ॑हन्थ्+++(=पर्यवहन् [द्वादशाहेन])+++ ,
सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू॑त्यै ।
फलम् अहीनयागस्य
विश्वास-प्रस्तुतिः
ऋ॒तवो॒ +++(ऋत्विग्भूता)+++ वा ए॒तेन॑ प्र॒जाप॑तिम् अयाजयन् ।
+++(ऋत्विक्षु)+++ तेष्व् आ॑र्ध्नो॒द् अधि॒+++(कं)+++ तत्+++(=ततः)+++ ।
ऋ॒ध्नोति॑ ह॒ वा ऋ॒त्विक्षु॒ य ए॒वव्ँ वि॒द्वान् द्वा॑दशा॒हेन॒ यज॑ते।
विश्वास-प्रस्तुतिः
ते॑ ऽस्मिन्न् ऐच्छन्त +++(दक्षिणाम्)+++।
स रस॒म् अह॑ वस॒न्ताय॒ प्राय॑च्छत् ।
यव॑ङ् ग्री॒ष्मायौष॑धीर् व॒र्षाभ्यो॑, व्री॒हीञ् छ॒रदे॑, माषति॒लौ हे॑मन्तशिशि॒राभ्या॑म्।
विश्वास-प्रस्तुतिः
तेनेन्द्र॑म् प्र॒जाप॑तिर् अयाजयत् ।
ततो॒ वा इन्द्र॒ इन्द्रो॑ ऽभवत् ।
तस्मा॑द् आहुर् - “आ॒नुजाव॒रस्य॑ य॒ज्ञ” इति॑ ।
स ह्य् ए॑तेनाग्रे ऽय॑जत +++(इन्द्रः)+++।
दक्षिणा सत्त्रे
विश्वास-प्रस्तुतिः
ए॒ष ह॒ वै कु॒णप॑म्+++(=मांसम्)+++ अत्ति॒,
यस् स॒त्त्रे प्र॑तिगृ॒ह्णाति॑ +++(यतस् सत्त्रे सर्वे यजमानाः)+++ - पु॒रु॒ष॒कु॒ण॒पम् अ॑श्वकुण॒पम् ।
+++(दक्षिणा-)+++गौर् वा अन्न॑म् । येन॒ पात्रे॒णान्न॒म् बिभ्र॑ति, यत् तन् न नि॒र्णेनि॑जति, ततोऽधि॒ मल॑ञ् जायते । +++(एवम् पात्रतुल्यो प्रतिगृहीता।)+++[38]
अहीन-याग-गुणः
विश्वास-प्रस्तुतिः
एक॑ ए॒व य॑जेत +++(अहीनयागेषु / असत्त्रयागेषु)+++।
एको॒ हि प्र॒जाप॑ति॒र् आर्ध्नो॑त् ।
यागसामान्ये दीक्षा
विश्वास-प्रस्तुतिः
द्वाद॑श॒ रात्री॑र् दीक्षि॒तस् स्यात् ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॑वत्स॒रᳶ प्र॒जाप॑तिः,
प्र॒जाप॑ति॒र् वाव+ए॒षः +++(याजकः)+++।
यागसामान्ये उपसद्
विश्वास-प्रस्तुतिः
+++(दीक्षायाः परं, सोमसवात् प्राग् भवति तत् कर्म।)+++
विश्वास-प्रस्तुतिः
ए॒ष ह॒ त्वै जा॑यते, यस् तप॒सोऽधि॒ जाय॑ते ।
विश्वास-प्रस्तुतिः
चतु॒र्धा वा ए॒तास् ति॒स्रस् ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोप॒सदः॑ ।
याᳶ प्र॑थ॒मा य॒ज्ञन् ताभि॒स् सम्भ॑रति ।
या द्वि॒तीया॑ य॒ज्ञन्ताभि॒रा र॑भते [39] ।
यास् तृ॒तीया॒ᳶ पात्रा॑णि॒ ताभि॒र् निर्णे॑निक्ते ।
याश् च॑तु॒र्थीर् अपि॒ ताभि॑र् आ॒त्मान॑म् अन्तर॒तश् शु॑न्धते ।
सत्त्र-दक्षिणा-निषेधः
विश्वास-प्रस्तुतिः
+++(तत्र दक्षिणा न भवति।)+++
यो वा अ॑स्य प॒शुम् अत्ति॑ माँ॒सँ सो॑ऽत्ति ।
यᳶ पु॑रो॒डाश॑म् म॒स्तिष्कँ॒ सः +++(अत्ति)+++ ।
यᳶ प॑रिवा॒पम्+++(=लाजान्)+++ पुरी॑षँ॒ सः +++(अत्ति)+++ ।
य आज्य॑म् म॒ज्जानँ॒ सः +++(अत्ति)+++ ।
यस् सोमँ॒ स्वेदँ॒ सः +++(अत्ति)+++ ।
अपि॑ ह॒ वा अ॑स्य शीर्ष॒ण्या॑ नि॒ष्पद॒ᳶ +++(यूकादयः)+++ प्रति॑ गृह्णाति॒ , यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॑ ।
तस्मा॑द् द्वादशा॒हेन॒ न याज्य॑म् +++(ऋत्विक्त्वेन)+++, पा॒प्मनो॒ व्यावृ॑त्त्यै ॥ [40]