०९ द्वादशरात्र-प्रधान-विधिः

विश्वास-प्रस्तुतिः

+++(अतिरात्रः, ज्योतिष्टोमः, ८ उक्थ्याः, ज्योत्ष्टोमः, अतिरात्रः।)+++

फलम्

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् अकामयत॒ - प्र जा॑ये॒येति॑ ।
स ए॒तन् द्वा॑दशरा॒त्रम् अ॑पश्य॒त् । तमाह॑रत् ।
तेना॑यजत । ततो॒ वै स प्राजा॑यत ।
यᳵ का॒मये॑त॒ - प्र जा॑ये॒येति॑, स द्वा॑दशरा॒त्रेण॑ यजेत । प्रैव जा॑यते ।

अतिरात्रारम्भः

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्त्य् - “अग्निष्टो॒म-प्रा॑यणा+++(=आरम्भणा)+++ य॒ज्ञा +++(द्विरात्रादयः)+++, अथ॒ कस्मा॑द् अतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यत॒” इति॑ ।
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॑ यद् अ॑तिरा॒त्रौ +++(द्वादशाहस्यादिमान्तिमौ)+++, क॒नीनि॑के+++(=चक्षुस्स्थं कृष्णमण्डलं)+++ अग्निष्टो॒मौ ।
यद् अ॑ग्निष्टो॒मम् पूर्व॑म् प्रयुञ्जी॒रन् ब॑हि॒र्धा क॒नीनि॑के दध्युः ।
तस्मा॑द् अतिरा॒त्रᳶ पूर्व॒ᳶ प्र यु॑ज्यते ।
चक्षु॑षी ए॒व य॒ज्ञे धि॒त्वा+++(=स्थापयित्वा)+++ म॑ध्य॒तᳵ क॒नीनि॑के॒ प्रति॑ दधति ।

गायत्रीपक्षिरूपम्

विश्वास-प्रस्तुतिः

यो वै गा॑य॒त्रीञ् ज्योतिᳶ॑+++(ष्टोम)+++पक्षाव्ँ॒ वेद॒, ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कम् ए॑ति ।
याव् अ॑ग्निष्टो॒मौ +++(दशरात्रस्याद्यन्तौ)+++, तौ प॒क्षौ । येऽन्त॑रे॒ ऽष्टाव् उ॒क्थ्याः॑ स आ॒त्मा ।
एषा वै गा॑य॒त्री, ज्योतिᳶ॑पक्षा ।
य ए॒वव्ँ वेद॒, ज्योति॑षा भा॒सा सु॑व॒र्गल्ँ लो॒कम् ए॑ति (35)।
+++(अतिरात्रनेत्रत्वम् पूर्वम् उक्तम्।)+++

प्रजापतिरूपम्

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् वा ए॒ष द्वा॑दश॒धा विहि॑तो यद् द्वा॑दशरा॒त्रः ।
याव् अ॑तिरा॒त्रौ तौ प॒क्षौ । ये ऽन्त॑रे॒ ऽष्टावु॒क्थ्याः॑, स आ॒त्मा ।
+++(सकनीनिके अस्य चक्षुषी उक्ते ॥)+++

फलम्

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर् वाव+++(←वा+एव)+++ +ए॒ष +++(यष्टा)+++ सन्थ् - सद् +ह॒ वै स॒त्त्रेण॑ स्पृणोति+++(=लभते)+++ ।
प्रा॒णा वै सत् । प्रा॒णान् ए॒व स्पृ॑णोति ।
सर्वा॑साव्ँ॒ वा ए॒ते प्र॒जाना॑म् प्रा॒णैर् आ॑सते॒ , ये स॒त्त्रमास॑ते ।
तस्मा॑त् पृच्छन्ति॒ +++(विस्मिताः)+++ “किमे॒ते स॒त्त्रिण॒ इति॑ “।
प्रि॒यᳶ प्र॒जाना॒म् उत्थि॑तो भवति॒ , य ए॒वव्ँ वेद॑ ॥ [36]