परिचयः
विश्वास-प्रस्तुतिः
द्विविधो द्वादशाहः - अव्यूढो व्यूढश्च तद्विकार इति ।
विश्वास-प्रस्तुतिः
तत्र प्रथमो यथा - ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ+++(=प्रथमान्तिमौ)+++ दशमं चाहः । अथेतरेषां नवानाम् ऐन्द्रवायवाग्रं प्रथमम् अहः, अथ शुक्राग्रम्, अथाग्रयणाग्रम्इत्यादि पुनःपुनः।
विश्वास-प्रस्तुतिः
अथ व्यूढो यथा - ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ । अथेतरेषां दशानाम् ऐन्द्रवायवाग्रं प्रथमम् अहः, अथ शुक्राग्रम्, अथ द्वे आग्रयणाग्रे, अथ ऐन्द्रवायवाग्रम्, अथ द्वे शुक्राग्रे, अथ आग्रयणाग्रम्, अथ द्वे ऐन्द्रवायवाग्रे इति । इत्थं चक्रवद् वर्तन्ते - ऐन्द्रवायव-शुक्र-आग्रयण-क्रमेण।
विवहन-क्रमश् चैषाम् अनुवाकान्ते दर्शयिष्यते ॥
व्यूढे प्रथमत्रिरारम्
विश्वास-प्रस्तुतिः
+++(गायत्र ऐन्द्रवायवः, त्रैष्टुभः शुक्रः, जागत आग्रयणः।)+++
विश्वास-प्रस्तुतिः
गा॒य॒त्रो वा ऐ॑न्द्रवाय॒वः +++(प्राथम्यात्)+++।
गा॒य॒त्रम् प्रा॑य॒णीय॒म्+++(=प्रथमम्)+++ अहः॑ +++(त्रिरात्रस्य)+++।
तस्मा॑त् प्राय॒णीये ऽह॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑म् +++(गायत्रं)+++ आ॒यत॑ने गृह्णाति ।
विश्वास-प्रस्तुतिः
त्रैष्टु॑भो॒ वै शु॒क्रः ।
त्रैष्टु॑भन् द्वि॒तीय॒म् अहः॑ ।
तस्मा॑द् द्वि॒तीयेऽह॑ञ् छु॒क्रो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।
विश्वास-प्रस्तुतिः
जाग॑तो॒ वा आ॑ग्रय॒णः ।
जाग॑तन् तृ॒तीय॒म् अहः॑ ।
तस्मा॑त् तृ॒तीयेऽह॑न्न् आग्रय॒णो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।
ए॒तद् वै +++(त्रिरात्रम्)+++ य॒ज्ञम् आ॑पद् यच् छन्दाँ॑स्य् आ॒प्नोति॑ [27] ।
व्यूढे द्वितीयत्रिरारम्
विश्वास-प्रस्तुतिः
+++(जागत आग्रयणः, रथन्तर ऐन्द्रवायवः, बार्हतः शुक्रः।)+++
विश्वास-प्रस्तुतिः
यद् आ॑ग्रय॒णश् श्वो +++(चतुथे ऽह्नि)+++ गृ॒ह्यते॒ +++(तस्य हेतुर् एवम्)+++-
यत्रै॒व +++(त्रिरात्रं)+++ य॒ज्ञम् अदृ॑श॒न् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॑ङ्क्ते ।
+++(जागत-राथन्तर-बार्हतत्वाद्)+++ जग॑न्-मुखो॒ वै द्वि॒तीय॑स् त्रिरा॒त्रः ।
जाग॑त आग्रय॒णः ।
यच् च॑तु॒र्थेऽह॑न्न् आग्रय॒णो गृ॒ह्यते॒ , स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।
अथो॒ स्वम् ए॒व +++(जागताख्यं)+++ छन्दोऽनु॑ प॒र्याव॑र्तन्ते +++(द्वितीय-त्रिरात्र-दिनानि स्वच्छन्दोभिः)+++।
विश्वास-प्रस्तुतिः
राथ॑न्तरो॒ वा ऐ॑न्द्रवाय॒वः। राथ॑न्तरम् पञ्च॒मम् अहः॑ ।
तस्मा॑त् पञ्च॒मे ऽहन्नै॑न्द्र॒वा॒य॒वो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।
विश्वास-प्रस्तुतिः
बार्ह॑तो॒ वै शु॒क्रः । बार्ह॑तँ ष॒ष्ठम् अहः॑ ।
तस्मा॑त् ष॒ष्ठे ऽह॑ञ् छु॒क्रो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।
ए॒तद् वै द्वि॒तीयय्ँ॑ +++(त्रिरात्र)+++य॒ज्ञम् आ॑पद्, यच् +++(बृहत्यन्तानि)+++ छन्दाँ॑स्या॒प्नोति॑ ।
व्यूढे तृतीयत्रिरात्रम्
विश्वास-प्रस्तुतिः
+++(त्रैष्टुभश् शुक्रः, आग्रयणः, ऐन्द्रवायवः।)+++
विश्वास-प्रस्तुतिः
यच् छु॒क्रश् श्वो गृ॒ह्यते॒ +++(तस्य हेतुर् एवम्)+++-
यत्रै॒व य॒ज्ञम् अदृ॑शन् , तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॑ङ्क्ते ।
त्रि॒ष्टुङ् मु॑खो॒ वै तृ॒तीय॑स् त्रिरा॒त्रः ।
त्रैष्टु॑भश् शु॒क्रः (29)।
यत् स॑प्त॒मे ऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ ,
स्व ए॒वैन॑मा॒यत॑ने गृह्णाति ।
अथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते +++(त्रिरात्र-दिनानि स्वच्छन्दोभिः)+++।
विश्वास-प्रस्तुतिः
वाग् वा आ॑ग्रय॒णः। वाग् अ॑ष्ट॒मम् अहः ।
तस्मा॑द् अष्ट॒मे ऽह॑न्न् आग्रय॒णो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।
विश्वास-प्रस्तुतिः
प्रा॒णो वा ऐ॑न्द्रवाय॒वः ।
प्रा॒णो न॑व॒मम् अहः॑ +++(देहच्छिद्रगणनया नवमत्वान्वयात्)+++।
तस्मा॑न् नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते ।
स्व ए॒वैन॑म् आ॒यत॑ने गृह्णाति ।
विश्वास-प्रस्तुतिः
ए॒तद् वै तृ॒तीयय्ँ॑ य॒ज्ञम् आ॑पद् यच् छन्दाँ॑स्या॒प्नोति॑ ।[30]
दशाहस्य +अन्त्यम्
विश्वास-प्रस्तुतिः
+++(ऐन्द्रवायवः।)+++
विश्वास-प्रस्तुतिः
यद् ऐ॑न्द्रवाय॒वश् श्वो गृ॒ह्यते॒ +++(तस्य हेतुर् एवम्)+++-
यत्रै॒व य॒ज्ञमदृ॑श॒न्, तत॑ ए॒वैन॒म् पुन॒ᳶ प्र यु॒ङ्क्ते ।
अथो॒+++(=अथ, प्रगृह्यसंज्ञः)+++ स्वम् ए॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते +++(त्रिरात्र-दिनानि स्वच्छन्दोभिः)+++।
प॒थो+++(=मार्गाद्)+++ वा ए॒ते ऽध्य् अप॑थेन यन्ति॒ , ये॑ ऽन्येनै॑न्द्रवाय॒वात् प्र॑ति॒पद्य॑न्ते ।
विश्वास-प्रस्तुतिः
अन्त॒ᳵ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद् द॑श॒ममहः॑ ।
द॒श॒मे ऽह॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते ।
य॒ज्ञस्यै॒वान्त॑ङ् ग॒त्वा ऽप॑था॒त् पन्था॒म् अपि॑ य॒न्ति ।
अथो॒+++(=अथ, प्रगृह्यसंज्ञः)+++ यथा॒ वही॑यसा+++(=वोढृतरणे [अनडुहा])+++ प्रति॒सारव्ँ॒+++(=वरिष्ठद्रव्यं)+++ वह॑न्ति ,
ता॒दृग् ए॒व तत् ।
व्यूढ+अव्यूढ-सम्बन्धः
विश्वास-प्रस्तुतिः
छन्दाँ॑स्य् अ॒न्यो॑न्यस्य॑ लो॒कम् अ॒भ्य॑ध्यायन् +++(कथं नामेनं गछेमेति)+++ ।
तान्य् ए॒तेनै॒व +++(वक्ष्यमाणेन क्रमेण)+++ दे॒वा व्य॑वाहयन् ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्र॒वा॒य॒वस्य वा ए॒तद् आ॒यत॑नय्ँ॒ यच् च॑तु॒र्थम् अहः॑ +++(अव्यूढे ऐन्द्रवायवशुक्राग्रयणानां पुनःपुनः प्रवृत्तेः)+++।
तस्मि॑न्न् आग्रय॒णो गृ॑ह्यते +++(व्यूढे ऐन्द्रवायव-शुक्र-आग्रयण-चक्रक्रमे)+++।
तस्मा॑द् आग्रय॒णस्या॒यत॑ने नव॒मे ऽह॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते +++(व्यूढे)+++।
विश्वास-प्रस्तुतिः
शु॒क्रस्य॒ वा ए॒तद् आ॒यत॑नय्ँ॒ यत् प॑ञ्च॒मम् अहः॑ +++(अव्यूढे ऐन्द्रवायवशुक्राग्रयणानां पुनःपुनः प्रवृत्तेः)+++।
तस्मि॑न्न् ऐन्द्रवाय॒वो गृ॑ह्यते +++(व्यूढे ऐन्द्रवायव-शुक्र-आग्रयण-चक्रक्रमे)+++।
तस्मा॑द् ऐन्द्रवाय॒वस्या॒यत॑ने सप्त॒मे ऽह॑ञ् छु॒क्रो गृ॑ह्यते +++(व्यूढे)+++।
विश्वास-प्रस्तुतिः
आ॒ग्र॒य॒णस्य॒ वा ए॒तद् आ॒यत॑नय्ँ॒ यत् ष॒ष्ठम् अहः॑ +++(अव्यूढे ऐन्द्रवायवशुक्राग्रयणानां पुनःपुनः प्रवृत्तेः)+++।
तस्मि॑ञ् छु॒क्रो गृ॑ह्यते +++(व्यूढे ऐन्द्रवायव-शुक्र-आग्रयण-चक्रक्रमे)+++।
तस्मा॑च् छु॒क्रस्या॒यत॑ने ऽष्ट॒मे ऽह॑न्न् आग्रय॒णो गृ॑ह्यते +++(व्यूढे)+++।
फलम्
विश्वास-प्रस्तुतिः
छन्दाँ॑स्य् ए॒व तद् +++(परस्परं)+++ विवा॑हयति +++(तत्प्रधानत्वादह्नाम्)+++।
प्र वस्य॑सो+++(=वसीयसो [कुलात्])+++ विवा॒हम् आ॑प्नोति॒ , य ए॒वव्ँ वेद॑ ।
अथो॑ दे॒वता॑भ्य ए॒व य॒ज्ञे सव्ँ॒विद॑न् दधाति +++(व्यूढं यज्ञं निर्वर्तयिष्यामीति)+++।
तस्मा॑द् इ॒दम् - अन्यो॑न्यस्मै॑ ददाति +++(स्वदारिकां)+++॥ [33]