०७ द्वादशरात्रविधौ काम्यग्रहाग्रताविधयः

विश्वास-प्रस्तुतिः

+++(द्वादशाहप्रकरणम् । एते काम्या ग्रहाग्रता-विधयः । केचिन् नैमित्तिका बृहत्पृष्ठपक्षे नियमार्थाः ।)+++

ऐन्द्रवायवाग्रा यथापूर्वप्रजाकामस्य

विश्वास-प्रस्तुतिः

ऐ॒न्द्र॒वा॒य॒वाग्रा॑न् +++(सोमग्रहान्)+++ गृह्णीया॒द् - यᳵ का॒मये॑त - “यथापू॒र्वम् प्र॒जाᳵ क॑ल्पेरन्न्” इति॑ ।
य॒ज्ञस्य॒ वै कॢप्ति॒म् अनु॑ प्र॒जाᳵ क॑ल्पन्ते । य॒ज्ञस्याकॢ॑प्ति॒म् अनु॒ न क॑ल्पन्ते ।
य॒था॒पू॒र्वम् ए॒व प्र॒जाᳵ क॑ल्पयति ।
न ज्यायाँ॑स॒ङ् कनी॑या॒न् अति॑ क्रामति ।

ऐन्द्रवायवाग्रा आमयाविनः

विश्वास-प्रस्तुतिः

ऐ॒न्द्र॒वा॒य॒वाग्रा॑न् गृह्णीयाद् आमया॒विनः॑+++(=रुग्णस्य)+++।
प्रा॒णेन॒ वा ए॒ष व्यृ॑ध्यते+++(=दरिद्राति)+++ - यस्या॒मय॑ति।
प्रा॒ण ऐन्द्रवाय॒वः। प्रा॒णेनै॒वैनँ॒ सम॑र्धयति ।

मैत्रावरुणाग्रा दीक्षितेषु मृतानाम्

विश्वास-प्रस्तुतिः

मै॒त्रा॒व॒रु॒णाग्रा॑न् गृह्णीरन्, +++(सत्रे)+++ येषा॑न् दीक्षि॒ताना॑म् प्र॒मीये॑त [22] । +++(सत्त्रे हि बहवो दीक्षिताः।)+++
प्रा॒णा॒पा॒नाभ्याव्ँ॒ वा ए॒ते व्यृ॑ध्यन्ते+++(=दरिद्रन्ति)+++, येषा॑न् दीक्षि॒ताना॑म् प्र॒मीय॑ते ।
प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ ।
प्रा॒णा॒पा॒नाव् ए॒व मु॑ख॒तᳶ+++(=प्राथम्यात्)+++ परि॑ हरन्ते ।

अश्विनाग्रा अनुजावरस्य

विश्वास-प्रस्तुतिः

आ॒श्वि॒नाग्रा॑न् गृह्णीताऽऽनुजाव॒रः+++(=आनुजेन =अनुजतया ऽवरो, न गुणेन )+++ ।
अ॒श्विनौ॒ वै दे॒वाना॑म् आनुजाव॒रौ । +++(देवानाम्)+++ प॒श्चा+++(त्)+++ +इ॒वाग्र॒म् पर्यै॑ताम् ।
अ॒श्विना॑व् ए॒तस्य॑ दे॒वता॑ । य आ॑नुजाव॒रस्, ताव् ए॒वैन॒म् अग्र॒म् परि॑ णयतः ।

शुक्राग्राः प्रतिष्ठाकामस्य

विश्वास-प्रस्तुतिः

शु॒क्राग्रा॑न् गृह्णीत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मः ।
अ॒सौ वा आ॑दि॒त्यः। +++(सन्ध्यासु जाज्वल्यमानः)+++ शु॒क्र ए॒षो ऽन्तः॑ +++(आदित्यमण्डलस्य)+++ ।
+++(दारिद्र्याख्यम्)+++ अन्त॑म् मनु॒ष्यश्॑ श्रि॒यै+++(यः)+++ ग॒त्वा नि व॑र्त॒ते । [23]
+++(दारिद्र्याद्)+++ अन्ता॑द् ए॒वान्त॒म् +++(सम्पत्तिम्)+++ आ र॑भते । न तत॒ᳶ पापी॑यान्+++(→दरिद्रो)+++ भवति ।

मन्थिग्रहा अभिचरतः

विश्वास-प्रस्तुतिः

म॒न्थ्य्+++(=मन्थर=शनि)+++-अ॑ग्रान् गृह्णीताभि॒चर॑न् । आ॒र्त॒+++(रुग्ण)+++-पा॒त्रव्ँ वा ए॒तद् यन् म॑न्थि-पा॒त्रम् ।
मृ॒त्युनै॒वैन॑ङ् ग्राहयति । ता॒जग्+++(=तूर्णम्)+++ आर्ति॒म् आर्च्छ॑ति ।

आग्रयणाग्रा पितृपुण्यकामस्य

विश्वास-प्रस्तुतिः

आ॒ग्र॒य॒णा+++(=मृगशीर्षा)+++ऽग्रा॑न् गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हᳶ +++(स्वापेक्षया)+++ पुण्य॒+++(तर)+++स् स्याद्, अथ॒ तन्न प्रा॑प्नु॒यात् ।
वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒+++(→वीर्येण)+++ व्यृ॑ध्यते - यस्य॑ पि॒ता पि॑ताम॒हᳶ पुण्यो॒ भव॑त्य् अथ॒ तन् न प्रा॒प्नोति॑ ।
उर॑+++(=मुख्यस्थानम्)+++ इवै॒तद् य॒ज्ञस्य॒, वाग् इ॑व॒, यद् +++(वाग्रमण-प्रजापतिदैवत)+++ आ॑ग्रय॒णः +++(तद्ग्रहणानन्तरं वाचो विसर्गात्)+++।
वा॒चैवैन॑म् इन्द्रि॒येण॒ सम॑र्धयति । न तत॒ᳶ पापी॑यान् भवति ।

उक्थ्याग्रा अभिचर्यमाणस्य

विश्वास-प्रस्तुतिः

उ॒क्थ्या॑ग्रान् गृह्णीत अभिच॒र्यमा॑णः ।
सर्वे॑षाव्ँ॒ वा ए॒तत्पात्रा॑णाम्, इन्द्रि॒यय्ँ+++(→वीर्यं)+++ यद् उ॑क्थ्यपा॒त्रम् ।
सर्वे॑णै॒वैन॑म् इन्द्रि॒येणाति॒ प्र यु॑ङ्क्ते ।

विश्वास-प्रस्तुतिः

( सर॑स्वत्य् अ॒भि नो॑ नेषि॒ वस्यो॒+++(=वरिष्ठं)+++
मा प॑स्फरीः॒+++(=हिंसीः)+++ पय॑सा॒+++(→हविषा [वर्धिता])+++ मा न॒ आ ध॑क्+++(=धाक्षीः)+++ ।
जु॒षस्व॑ नः स॒ख्या+++(=सखितया)+++ वे॒श्या॑+++(=वेश्यतया)+++ च॒,
मा त्वत्-क्षेत्रा॒ण्य् अर॑णानि गन्म ॥ )

“सर॑स्वत्य् अ॒भि नो॑ नेषि॒ वस्य॒ …"+++(६.०६१.१४)+++ इति॑ पुरो॒रुच॑ङ् कुर्यात् ।
वाग् वै सर॑स्वती । वा॒चैवैन॒म् अति॒ प्र यु॑ङ्क्ते ।
“मा त्वत्क्षेत्रा॒ण्य् अर॑णानि ग॒न्मे"त्या॑ह ।
मृ॒त्योर् वै क्षेत्रा॒ण्य् अर॑णानि ।
तेनै॒व मृ॒त्योः क्षेत्रा॑णि॒ न ग॑च्छति।

पूर्णग्रहा आमयाविनः

विश्वास-प्रस्तुतिः

पू॒र्णान् ग्रहा॑न् गृह्णीयाद् आमया॒विनः॑ ।
प्रा॒णान् वा ए॒तस्य॒ शुग्+++(=शोकः)+++ ऋ॑च्छति॒ यस्या॒मय॑ति ।
प्रा॒णा ग्रहाः॑ । प्रा॒णान् ए॒वास्य॑ शु॒चो मु॑ञ्चति ।
उ॒त यद् ई॒तासु॒र्+++(=गतासुः)+++ भव॑ति॒ जीव॑त्ये॒व ।

पूर्णग्रहा वृष्टिकामस्य

विश्वास-प्रस्तुतिः

पू॒र्णान् ग्रहा॑न् गृह्णीया॒द् , यर्हि॑ प॒र्जन्यो॒ न वर्षे॑त् ।
प्रा॒णान् वा ए॒तर्हि॑ प्र॒जानाँ॒ शुग् ऋ॑च्छति॒ , यर्हि॑ प॒र्जन्यो॒ न॒ वर्ष॑ति ।
प्रा॒णा ग्रहाः॑ । प्रा॒णान् ए॒व प्र॒जानाँ॑ शु॒चो मु॑ञ्चति।
ता॒जक्+++(=झटिति)+++ प्र व॑र्षति ॥ [26]