०६ एकादशरात्रविधिः

विश्वास-प्रस्तुतिः

+++(समाप्ता अहीनाः = अहस्-समूह-साध्याः। अथ सत्त्राण्यारभ्यन्ते उभयतोतिरात्राणि ।)+++

फलम्

विश्वास-प्रस्तुतिः

ऋ॒तवो॒ वै प्र॒जाका॑माᳶ प्र॒जान् नावि॑न्दन्त ।
ते॑ऽकामयन्त - प्र॒जाँ सृ॑जेमहि , प्र॒जामव॑ रुन्धीमहि , प्र॒जाव्ँ वि॑न्देमहि , प्र॒जाव॑न्तस् स्या॒मेति ।
त ए॒तम् ए॑कादशरा॒त्रम् अ॑पश्यन् । तम् आह॑रन् । तेना॑यजन्त ।
ततो॒ वै ते प्र॒जाम् अ॑सृजन्त , प्र॒जाम् अवा॑रुन्धत , प्र॒जाम् अ॑विन्दन्त , प्र॒जाव॑न्तोऽभव॒न् ।
त ऋ॒तवो॑ +++(सार्थका)+++ ऽभव॒न् ।

विश्वास-प्रस्तुतिः

तद् आ॑र्त॒वाना॑म्+++(=ऋतुभवानां)+++ आर्तव॒त्वम् ।
ऋ॒तू॒नाव्ँँ वा ए॒ते पु॒त्राः । तस्मा॑द् आर्त॒वा उ॑च्यन्ते [19]।
य ए॒वव्ँ वि॒द्वाँस॑ एकादशरा॒त्रम् आस॑ते , प्र॒जाम् ए॒व सृ॑जन्ते ,
प्र॒जाम् अव॑ रुन्धते , प्र॒जाव्ँ वि॑न्दन्ते , प्र॒जाव॑न्तो भवन्ति ।

विधानम्

विश्वास-प्रस्तुतिः

+++(अतिरात्रः, पृष्ठ्यष् षडहस् (त्रिवृद् अग्निष्टोमः, पञ्चदश उक्थ्यः, सप्तदश उक्थ्यः, २१ षोडशी, २७ उक्थ्यः, ३३ उक्थ्यः), २४, ४४, ४८, अतिरात्रः।)+++

विश्वास-प्रस्तुतिः

ज्योति॑र् अतिरा॒त्रो भ॑वति ।
ज्योति॑र् ए॒व पु॒रस्ता॑द् दधते । सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ।

विश्वास-प्रस्तुतिः

पृष्ठ्य॑ष्+++(=पृष्ठयुक्तः)+++ षड॒हो भ॑वति ।
षड् वा ऋ॒तवः॑। षट्पृ॒ष्ठानि॑ ।
पृ॒ष्ठैर्+++(=अनुप्रयुज्यमानसामभिः)+++ ए॒वर्तून् अन्वारो॑हन्ति + ऋ॒तुभि॑स् सव्ँवत्स॒रम् । ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

च॒तु॒र्विँ॒शो +++(एकाहो)+++ भ॑वति ।
चतु॑र्विँशत्यक्षरा गाय॒त्री [20] । गा॒य॒त्रम् ब्र॑ह्मवर्च॒सम् । गा॑यत्रि॒याम् ए॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

च॒तु॒श्च॒त्वा॒रिँ॒शो भ॑वति । चतु॑श्चत्वारिँशदक्षरा त्रि॒ष्टुक् । इ॑न्द्रि॒यन् त्रि॒ष्टुप् । त्रि॒ष्टुभ्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

अ॒ष्टा॒च॒त्वा॒रिँ॒शो भ॑वति ।
अ॒ष्टाच॑त्वारिँशदक्षरा॒ जग॑ती । जाग॑ताᳶ प॒शवः । जग॑त्याम् ए॒व प॒शुषु॒ प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

ए॒का॒द॒श॒रा॒त्रो भ॑वति ।
पञ्च॒ वा ऋ॒तवः॑। आ॒र्त॒वाᳶ +++(प्रभावाः)+++ पञ्च॑ ।
ऋ॒र्तुष्व् ए॒वार्त॒वेषु॑ सव्ँवत्स॒रे प्र॑ति॒ष्ठाय॑, प्र॒जाम् अव॑ रुन्धते ।

विश्वास-प्रस्तुतिः

अ॒ति॒रा॒त्राव् अ॒भितो॑ भवतः ।
प्र॒जायै॒ परि॑गृहीत्यै ॥ [21]