विश्वास-प्रस्तुतिः
+++(अथ चत्वारो दशरात्राः - त्रिककुत् प्रथमः । देवपुरा द्वितीयः । छन्दोमवान् तृतीयः । कौसुरुबिन्दश्चतुर्थः ।)+++
फलम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् अकामयत - प्र जा॑ये॒येति॑ ।
स ए॒तन् दश॑होतारम्+++(=‘चित्तिस्स्रुक्’ इत्यादिकं)+++ अपश्यत् ।
तम् अ॑जुहो॒त् । तेन॑ दशरा॒त्रम् अ॑सृजत ।
तेन॑ दशरा॒त्रेण॒ प्राजा॑यत ।
विश्वास-प्रस्तुतिः
द॒श॒रा॒त्राय॑ दीक्षि॒ष्यमा॑णो॒ दश॑होतारञ् जुहुयात्।
दश॑होत्रै॒व द॑शरा॒त्रँ सृ॑जते ।
तेन॑ दशरा॒त्रेण॒ प्र जा॑यते ।
विश्वास-प्रस्तुतिः
+++(दशत्वान्वयाद्)+++ वैरा॒जो वा ए॒ष य॒ज्ञो यद् द॑शरा॒त्रः ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते, वि॒राज॑म् ए॒व ग॑च्छति ।
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो , यद् द॑शरा॒त्रः [13] । य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते॒ , प्रैव जा॑यते ।
विश्वास-प्रस्तुतिः
इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिर् आसीत् । स न व्या॒वृत॑म् अगच्छत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् । तस्मा॑ ए॒तन् द॑शरा॒त्रम् प्राय॑च्छ॒त् ।
तमाह॑रत् । तेना॑यजत ।
ततो॒ वै सो॑ऽन्याभि॑र् दे॒वता॑भिर् व्या॒वृत॑म् अगच्छत् ।
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते , व्या॒वृत॑म् ए॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति ।
विधानम्
विश्वास-प्रस्तुतिः
+++(त्रिवृदग्नीष्टोमः, १५, त्रिवृदग्नीष्टोमः। १७, २१, १७। २७, ३३, २७। विश्वजित्।)+++
विश्वास-प्रस्तुतिः
त्रि॒क॒कुद् वा ए॒ष य॒ज्ञो यद् द॑शरात्रः।
+++(त्रिवृद्-अग्निष्टोमाव् अभितः)+++ क॒कुत्+++(→उन्नतः)+++ प॑ञ्चद॒शः।
+++(सप्तदशाग्निष्टोमाव् अभितः)+++ क॒कुद् ए॑कविँ॒शः ।
+++(त्रिणवाग्निष्टोमाव् अभितः)+++ क॒कुत् त्र॑यस्त्रिँ॒शः ।
फलान्तरम्
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुद् ए॒व स॑मा॒नाना॑म् भवति ।
यज॑मानᳶ पञ्चद॒शः ,
यज॑मान एकविँ॒शः ,
यज॑मानस् त्रयस्त्रिँ॒शः ,
पुर॒ इत॑राः ।
विश्वास-प्रस्तुतिः
अ॒भि॒च॒र्य॒मा॑णो दशरा॒त्रेण॑ यजेत ।
+++(दशरात्रसम्बन्धीन्यहानि देवपुराख्यानि ऊढ्वा)+++ दे॒व॒पु॒रा ए॒व पर्यू॑हते +++(आत्मनो रक्षार्थम्)+++ । +++(‘उपसर्गाद् अस्यत्यूह्योः’ इति आत्मनेपदम् ।)+++
विश्वास-प्रस्तुतिः
तस्य॒ न कुत॑श् च॒नोपा॑व्या॒धो+++(→अभिचारादिबाधा)+++ भ॑वति । नैन॑म् अभि॒चर॑न् स्तृणुते+++(=छादयति)+++ ।
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा ए॒ता दे॑वपु॒रा+++(=दशरात्रसम्बन्धीन्यहानि)+++ अ॑पश्य॒न् यद् द॑शरा॒त्रः+++(→तदवयवभूताः)+++ [15]।
ताᳶ पर्यौ॑हन्त ।
तेषा॒न् न कुत॑श् च॒नोपा॑व्या॒धो॑ ऽभवत् ।
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
विश्वास-प्रस्तुतिः
यो भ्रातृ॑व्यवा॒न्त् स्यात् स द॑शरा॒त्रेण॑ यजेत ।
दे॒व॒पु॒रा ए॒व पर्यू॑हते ।
तस्य॒ न कुत॑श् च॒नोपा॑व्या॒धो भ॑वति ।
भव॑त्य् आ॒त्मना॑। परा॑+अस्य॒ भ्रातृ॑व्यो +++(परा)+++भवति ।
विश्वास-प्रस्तुतिः
+++(अभितस् स्थितः)+++ स्तोम॒स् +++(ककुत्स्थानीय)+++स्तोम॒स्य उप॑स्तिर्+++(=हीनः)+++ भवति ।
भ्रातृ॑व्यम् ए॒व उप॑स्तिङ्+++(=हीनं)+++ कुरुते ।
सामविन्यासः
विश्वास-प्रस्तुतिः
जा॒मि+++(तां)+++ वै ए॒तत् कु॑र्वन्ति॒ , यज् ज्यायाँ॑सँ॒ स्तोम॑म् उ॒पेत्य॒ कनी॑याँसम् उप॒यन्ति ।
यद् अ॑ग्निष्टोम-सा॒मानि अ॒वस्ता॑च् च प॒रस्ता॑च् च॒ भव॒न्त्य् अजा॑मित्वाय ।
प्रतिदिनविन्यासः
-
+++(प्रथमदिने)+++ त्रि॒वृद् अ॑ग्निष्टो॒मो॑ ऽग्नि॒ष्टुद्+++(=अग्निष्टोमविशेषः)+++ आ॒ग्ने॒यीषु॑ +++(ऋक्षु)+++ भवति । तेज॑ ए॒वाव॑ रुन्धे ।
-
+++(द्वितीयदिने ककुदि)+++ प॒ञ्च॒द॒श उ॒क्थ्य॑+++(=उक्थसाधनशस्त्रम्?)+++ ऐ॒न्द्रीषु॑ +++(ऋक्षु)+++। इन्द्रि॒यम् ए॒वाव॑ रुन्धे ।
-
+++(तृतीयदिने)+++ त्रि॒वृद् अ॑ग्निष्टो॒मो वै॑श्वदे॒वीषु॑ +++(ऋक्षु)+++। पुष्टि॑म् ए॒वाव॑ रुन्धे ।
-
स॒प्त॒द॒शो॑ ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासु॑ तीव्रसो॒मः+++(=उक्थ्यविशेषो यत्र शतम् आशिरे दुहन्ति)+++ । अ॒न्नाद्य॒स्य अव॑रुद्ध्यै । अथो॒ प्रैव तेन॑ जायते [17] ।
-
+++(पञ्चम-दिने ककुदि)+++ ए॒क॒विँ॒श उ॒क्थ्य॑स् सौ॒रीषु॒ +++(ऋक्षु)+++ प्रति॑ष्ठित्यै । अथो॒ रुच॑म् ए॒वाऽऽत्मन् ध॑त्ते ।
-
स॒प्त॒द॒शो॑ऽग्निष्टो॒मᳶ प्रा॑जाप॒त्यासू॑पह॒व्यः॑+++(=उपहवे साधुः)+++ । उपह॒वमे॒व+++(=पूजां)+++ ग॑च्छति ।
-
त्रि॒ण॒वाव् अ॑ग्निष्टो॒माव् +++(त्रयस्त्रिंशस्य)+++ अ॒भित॑ ऐ॒न्द्रीषु॒ , विजि॑त्यै।
-
+++(अष्टमदिने ककुत्स्थाने)+++ त्र॒य॒स्त्रिँ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै।
विश्वजित्-विधानम् ...{Loading}...
विश्वास-प्रस्तुतिः
वि॒श्व॒जिथ् +++(सहस्रदक्षिणत्वादिधर्मः)+++ सर्व॑पृष्ठो+++(=रथन्तर-बृहद्-वैरूप-वैराज-शाक्वर-रैवत-पृष्ठः)+++ ऽतिरा॒त्रो भ॑वति॒, सर्व॑स्या॒भिजि॑त्यै ॥
Keith
There is a Viśvajit Atiratra, with all the Prstha (Stotras), for the winning of all.