फलम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत । तास् सृ॒ष्टाः क्षुध॒न् न्या॑यन् ।
स ए॒तन् न॑वरा॒त्रम॑पश्यत् । तमाह॑रत् । तेना॑यजत ।
ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत ।
विश्वास-प्रस्तुतिः
यर्हि॑ प्र॒जाः क्षुध॑न् नि॒गच्छे॑युस्, तर्हि॑ नवरा॒त्रेण॑ यजेत ।
इमे हि वा ए॒तासाल्ँ॑ लो॒का अकॢ॑प्ता॒, अथै॒ताः क्षुध॒न् निग॑च्छन्ति । इ॒मान् ए॒वाभ्यो॑ लो॒कान् क॑ल्पयति +++(त्रैलोक्यात्मकत्वान्नवरात्रस्य)+++। तान् कल्प॑मानान् प्र॒जाभ्योऽनु॑ कल्पते ।
विश्वास-प्रस्तुतिः
कल्प॑न्ते ऽस्मा॒ +++(यजमानाय)+++ इ॒मे लो॒का। ऊर्ज॑म् प्र॒जासु॑ दधाति।
त्रिरा॒त्रेण ए॒वेमल्ँ लो॒कङ् क॑ल्पयति, त्रिरा॒त्रेणा॒न्तरि॑क्षन् , त्रिरा॒त्रेण अ॒मुल्ँ लो॒कम् ।
विश्वास-प्रस्तुतिः
यथा॑ +++(रज्ज्वां)+++ गु॒णे गु॒णम् अ॒न्वस्य॑त्य्+++(=अनुक्षिपति)+++, ए॒वम् ए॒व तल् लो॒के लो॒कम् अन्व॑स्यति॒ ,
धृत्या॒ अशि॑थिलम्भावाय +++(च)+++। +++(5)+++
विधानम्
विश्वास-प्रस्तुतिः
+++(त्रिरात्रष्षड्रात्रो नवरात्रः।)+++
ज्योति॒र् गौर् आयु॒र् इति॑ ज्ञा॒तास् स्तोमा॑ भवन्ति ।
इ॒यव्ँ वाव+++(=वैव)+++ ज्योति॑र्, अ॒न्तरि॑क्ष॒ङ् गौर्, अ॒साव् आयुः॑ ।
ए॒ष्व् ए॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति ।
ज्ञात्र॑म् प्र॒जाना॑ङ् गच्छति ।
फलविधानान्तरम्
विश्वास-प्रस्तुतिः
न॒व॒रा॒त्रो भ॑वति ।
अ॒भि॒पू॒र्वम्+++(=अनुक्रमेण)+++ ए॒वास्मि॒न् तेजो॑ दधाति ।
यो ज्योग्-आ॑मयावी॒+++(=दीर्घरोगी)+++ स्यात् स न॑वरा॒त्रेण॑ यजेत ।
प्रा॒णा हि वा ए॒तस्य+अधृ॑ता, अथै॒तस्य॒ ज्योग् आ॑मयति+++(=रुजति)+++।
+++(नवरात्रेणा)+++ प्रा॒णान् ए॒वास्मि॑न् दाधार ।
उ॒त यद् ई॒तासु॒र्+++(=गतप्राणो)+++ भव॑ति॒ जीव॑त्ये॒व ॥ [12]