०३ अष्टरात्रविधिः

विश्वास-प्रस्तुतिः

+++(अथाष्टरात्र एक एव।)+++

फलम्

विश्वास-प्रस्तुतिः

बृह॒स्पति॑र् अकामयत ब्रह्मवर्च॒सी स्या॒म् इति॑ ।
स ए॒तम् अ॑ष्टरा॒त्रम् अ॑पश्यत् । तम् आह॑रत् । तेना॑यजत ।
ततो॒ वै स ब्र॑ह्मवर्च॒स्य् अ॑भवत् ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् अ॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒सी +ए॒व भ॑वति ।

विश्वास-प्रस्तुतिः

अ॒ष्ट॒रा॒त्रो भ॑वति ।
अ॒ष्टाक्ष॑रा गाय॒त्री । गा॑य॒त्री ब्र॑ह्मवर्च॒सम् । गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒सम् अव॑ रुन्धे ।

विश्वास-प्रस्तुतिः

अ॒ष्ट॒रा॒त्रो भ॑वति ।
चत॑स्रो॒ वै दिशः॑ । चत॑स्रोऽवान्तरदि॒शाः । दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे [8] ।

प्रतिदिनं विधानम्

९-१५-१७-विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

त्रि॒वृद्+++(=त्र्यवयवास् तिस्रो वृत्तयो ऽस्येति)+++ अ॑ग्निष्टो॒मो +++(यागो रथन्तरसामा)+++ भ॑वति +++(“अग्न॒ आ या॑हि” इत्यादेस् त्र्यर्चस्य)+++ । तेज॑ ए॒वाव॑ रुन्धते ।
प॒ञ्च॒द॒शो +++(बृहत्सामा +उक्थ्यो?)+++ भ॑वति । इ॒न्द्रि॒यम् ए॒वाव॑ रुन्धते ।
स॒प्त॒द॒शो +++(वैरूपसामा +उक्थ्यो?)+++ भवति। [2] अ॒न्नाद्य॒स्याव॑रुद्ध्यै । अथो॒ प्रैव तेन॑ जायन्ते ।

Keith

There is an Agnistoma characterized by the Trivrt (Stoma); verily he wins brilliance.
There is a Pañcadaśa (Stoma); verily he wins power.
There is a Saptadaśa (Stoma), for the obtainment of food; verily also he gains offspring by reason of it.

२१-२७ विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

ए॒क॒विँ॒शो +++(वैराजसामा षोडशी यागः)+++ भ॑वति॒ प्रति॑ष्ठित्यै । अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
त्रि॒ण॒वो +++(शाक्वरसामा उक्थ्यः)+++ भ॑वति॒, विजि॑त्यै ।

३३-विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

त्र॒य॒स्त्रिँ॒शो +++( रैवतसामा षष्ठम्)+++ भ॑वति, प्रति॑ष्ठित्यै ।

२५-विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

प॒ञ्च॒विँ॒शो॑ ऽग्निष्टो॒मो +++(यागः)+++ भ॑वति॒ प्र॒जाप॑ते॒र् आप्त्यै॑ ।
म॒हा॒व्र॒त॒वा॑न् +++(=ये महाव्रतधर्माः ‘स्तुवन्त्यनुश्नोकेन’ इत्याद्याः तद्वान्)+++ अ॒न्नाद्य॑स्य अव॑रुद्ध्यै । +++(यथोक्तं महाव्रते ‘तदन्नं पञ्चविंशमभवत्’ इति ।)+++

Keith

There is an Agnistoma with the Pañcadaśa (Stoma), for the gaining of Prajapati;
(it has) the characteristics of the Mahavrata, for the gaining of food.

विश्वजित्-विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

वि॒श्व॒जिथ् +++(सहस्रदक्षिणत्वादिधर्मः)+++ सर्व॑पृष्ठो+++(=रथन्तर-बृहद्-वैरूप-वैराज-शाक्वर-रैवत-पृष्ठः)+++ ऽतिरा॒त्रो भ॑वति॒, सर्व॑स्या॒भिजि॑त्यै ॥

Keith

There is a Viśvajit Atiratra, with all the Prstha (Stotras), for the winning of all.