परिचयः
विश्वास-प्रस्तुतिः
अथाष्टौ सप्तरात्राः - कौसुरुबिन्दः प्रथमः, सप्तर्षीणां द्वितीयः, प्राजापत्यस्तृतीयः, छन्दोम-पवमानश् चतुर्थः, पृष्ट्यावलम्बः पञ्चमः, सत्त्रसम्मितष्षष्ठः, ऐन्द्रस्सप्तमः, जनकसप्तरात्रोष्टमः ।
फलम्
विश्वास-प्रस्तुतिः
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिर् अकामयत - पशु॒मान्त् स्या॒म् इति । +++(‘ह्रस्वनुड्भ्याम्’ इति मतुप उदात्तत्वम् ।)+++
स ए॒तँ स॑प्तरा॒त्रम् आह॑रत् । तेना॑यजत ।
तेन॒ वै स याव॑न्तो ग्रा॒म्याᳶ प॒शव॒स् तान् अवा॑रुन्ध ।
य ए॒वव्ँ वि॒द्वान्त् स॑प्तरा॒त्रेण॒ यज॑ते, याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स्, तान् ए॒वाव॑ रुन्धे ।
विधानम्
विश्वास-प्रस्तुतिः
स॒प्त॒रा॒त्रो भ॑वति । स॒प्त ग्रा॒म्याᳶ प॒शवः॑ +++(गोऽजाऽऽश्वाऽऽविक-पुरुष-गर्दभोष्ट्राः)+++ । स॒प्तार॒ण्याः +++(द्विखुर-श्वापद-पक्षि-सरीसृप-हस्ति-मर्कटादयः)+++। स॒प्त छन्दाँ॑सि +++(गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यः)+++। उ॒भय॒स्य +++(पशूनां छन्दसां च)+++ अव॑रुद्ध्यै ।
९-१५-१७-विधानम् ...{Loading}...
विश्वास-प्रस्तुतिः
त्रि॒वृद्+++(=त्र्यवयवास् तिस्रो वृत्तयो ऽस्येति)+++ अ॑ग्निष्टो॒मो +++(यागो रथन्तरसामा)+++ भ॑वति +++(“अग्न॒ आ या॑हि” इत्यादेस् त्र्यर्चस्य)+++ । तेज॑ ए॒वाव॑ रुन्धते ।
प॒ञ्च॒द॒शो +++(बृहत्सामा +उक्थ्यो?)+++ भ॑वति । इ॒न्द्रि॒यम् ए॒वाव॑ रुन्धते ।
स॒प्त॒द॒शो +++(वैरूपसामा +उक्थ्यो?)+++ भवति। [2] अ॒न्नाद्य॒स्याव॑रुद्ध्यै । अथो॒ प्रैव तेन॑ जायन्ते ।
Keith
There is an Agnistoma characterized by the Trivrt (Stoma); verily he wins brilliance.
There is a Pañcadaśa (Stoma); verily he wins power.
There is a Saptadaśa (Stoma), for the obtainment of food; verily also he gains offspring by reason of it.
२१-२७ विधानम् ...{Loading}...
विश्वास-प्रस्तुतिः
ए॒क॒विँ॒शो +++(वैराजसामा षोडशी यागः)+++ भ॑वति॒ प्रति॑ष्ठित्यै । अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
त्रि॒ण॒वो +++(शाक्वरसामा उक्थ्यः)+++ भ॑वति॒, विजि॑त्यै ।
२५-विधानम् ...{Loading}...
विश्वास-प्रस्तुतिः
प॒ञ्च॒विँ॒शो॑ ऽग्निष्टो॒मो +++(यागः)+++ भ॑वति॒ प्र॒जाप॑ते॒र् आप्त्यै॑ ।
म॒हा॒व्र॒त॒वा॑न् +++(=ये महाव्रतधर्माः ‘स्तुवन्त्यनुश्नोकेन’ इत्याद्याः तद्वान्)+++ अ॒न्नाद्य॑स्य अव॑रुद्ध्यै । +++(यथोक्तं महाव्रते ‘तदन्नं पञ्चविंशमभवत्’ इति ।)+++
Keith
There is an Agnistoma with the Pañcadaśa (Stoma), for the gaining of Prajapati;
(it has) the characteristics of the Mahavrata, for the gaining of food.
विश्वजित्-विधानम् ...{Loading}...
विश्वास-प्रस्तुतिः
वि॒श्व॒जिथ् +++(सहस्रदक्षिणत्वादिधर्मः)+++ सर्व॑पृष्ठो+++(=रथन्तर-बृहद्-वैरूप-वैराज-शाक्वर-रैवत-पृष्ठः)+++ ऽतिरा॒त्रो भ॑वति॒, सर्व॑स्या॒भिजि॑त्यै ॥
Keith
There is a Viśvajit Atiratra, with all the Prstha (Stotras), for the winning of all.
विश्वास-प्रस्तुतिः
यत् प्र॒त्यक्ष॒म्+++(→अविकृतम्)+++ पूर्वे॒ष्व् अह॑स्सु पृ॒ष्ठान्य् उ॑पे॒युᳶ, प्र॒त्यक्षव्ँ॑ विश्व॒जिति -
+++(तद्)+++ यथा॑ दु॒ग्धाम् +++(गां दोग्धा)+++ उ॑प॒सीद॑त्य् ए॒वम् उ॑त्त॒मम् अह॑स् स्या॒त् +++(निस्सारम्)+++ । नैक॑रा॒त्रश् च॒न स्या॑त् +++(विश्वजित्)+++।
+++(तस्मात्)+++ बृ॒ह॒द्-र॒थ॒न्त॒रे पूर्वे॒ष्व् अह॒स्सूप॑ यन्ति +++(वैरूपादिभिर् विना)+++।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++( चास्ति)+++। आ॒भ्यामे॒व न य॒न्त्य्, अथो॑ अ॒नयो॑र् ए॒व प्रति॑ तिष्ठन्ति ।
यत् प्र॒त्यक्षव्ँ॑ विश्व॒जिति॑ पृ॒ष्ठान्य् उ॑प॒यन्ति -
यथा॒ प्रत्ता॑न्+++(→पयो दातुं प्रवृत्तां)+++ दु॒हे, ता॒दृग् ए॒व तत् ॥ [7]