०१ षड्रात्रविधिः

परिचयः

विश्वास-प्रस्तुतिः

चत्वारष् षडहास् सन्ति - साध्यानां प्रथमः, द्वितीय उपरिष्टात्, त्रिककुत् तृतीयः, अभ्यासश् चतुर्थः ।
अस्मिन्न् अनुवाके साध्यानां षडहं = पृष्ठ्यं षडहं दर्शयति। त्रिवृद् अग्निष्टोमः, पञ्चदश उक्थ्यः, सप्तदश उक्थ्यः, २१ षोडशी, २७ उक्थ्यः, ३३ उक्थ्यः।

कर्मस्तुतिः

विश्वास-प्रस्तुतिः

सा॒ध्या+++(=देवविशेषाः)+++ वै दे॒वास् सु॑व॒र्गका॑मा ए॒तँ ष॑ड्रा॒त्रम् अ॑पश्य॒न् । तमाह॑र॒न् । तेना॑यजन्त । ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम् आ॑यन्।
य ए॒वव्ँ वि॒द्वाँसष् षड्रा॒त्रम् आस॑ते , सुव॒र्गमे॒व लो॒कय्ँ य॑न्ति ।

विश्वास-प्रस्तुतिः

दे॒व॒स॒त्त्रव्ँ वै ष॑ड्रा॒त्रः । प्र॒त्यक्षँ॒ ह्य् ए॑तानि॑ पृ॒ष्ठानि॑ +++(रथन्तरादीनि देवतुल्यानि)+++ ।
य ए॒वव्ँ वि॒द्वाँस॑ष् षड्रा॒त्रम् आस॑ते, सा॒क्षाद् ए॒व दे॒वता॑ अ॒भ्यारो॑हन्ति ।

अङ्गानि

विश्वास-प्रस्तुतिः

+++(पृष्ठ्यः)+++ षड्रा॒त्रो भ॑वति ।
षड् वा ऋ॒तव॒ष् षट् पृ॒ष्ठानि॑ +++( च सन्ति)+++[1]।
पृ॒ष्ठैर् ए॒व ऋ॒र्तून् अ॒न्वारो॑हन्ति +ऋ॒तुभि॑स् सव्ँवत्स॒रम् ।
ते सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति ।

बृहद्-रथन्तर-यानम् ...{Loading}...

मूलम् (संयुक्तम्)

बृहद्रथन्त॒राभ्याय्ँ॑यन्ती॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [2]
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँय॑न्ति

विश्वास-प्रस्तुतिः

+++(दिवसेषु एकान्तराभ्यां)+++ बृहद्रथन्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम्, अ॒सौ बृ॒हत् +++(चास्ति)+++।
आ॒भ्यामे॒व य॒न्ति +++(प्रथमदिनयोः)+++ ।

अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती+++(=मार्गौ)+++ ।
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

मूलम्

बृ॒ह॒द्र॒थ॒न्त॒राभ्याय्ँ॑ यन्ति । इ॒यव्ँ वाव र॑थन्त॒रम् अ॒सौ बृ॒हत् । आ॒भ्यामे॒व य॒न्ति [2]।
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति । ए॒ते वै य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती । ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कय्ँ य॑न्ति ।

९-१५-१७-विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

त्रि॒वृद्+++(=त्र्यवयवास् तिस्रो वृत्तयो ऽस्येति)+++ अ॑ग्निष्टो॒मो +++(यागो रथन्तरसामा)+++ भ॑वति +++(“अग्न॒ आ या॑हि” इत्यादेस् त्र्यर्चस्य)+++ । तेज॑ ए॒वाव॑ रुन्धते ।
प॒ञ्च॒द॒शो +++(बृहत्सामा +उक्थ्यो?)+++ भ॑वति । इ॒न्द्रि॒यम् ए॒वाव॑ रुन्धते ।
स॒प्त॒द॒शो +++(वैरूपसामा +उक्थ्यो?)+++ भवति। [2] अ॒न्नाद्य॒स्याव॑रुद्ध्यै । अथो॒ प्रैव तेन॑ जायन्ते ।

Keith

There is an Agnistoma characterized by the Trivrt (Stoma); verily he wins brilliance.
There is a Pañcadaśa (Stoma); verily he wins power.
There is a Saptadaśa (Stoma), for the obtainment of food; verily also he gains offspring by reason of it.

२१-२७ विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

ए॒क॒विँ॒शो +++(वैराजसामा षोडशी यागः)+++ भ॑वति॒ प्रति॑ष्ठित्यै । अथो॒ रुच॑म् ए॒वात्मन् द॑धते ।
त्रि॒ण॒वो +++(शाक्वरसामा उक्थ्यः)+++ भ॑वति॒, विजि॑त्यै ।

३३-विधानम् ...{Loading}...

विश्वास-प्रस्तुतिः

त्र॒य॒स्त्रिँ॒शो +++( रैवतसामा षष्ठम्)+++ भ॑वति, प्रति॑ष्ठित्यै ।

उपकरणविवेकः

विश्वास-प्रस्तुतिः

स॒दो॒-ह॒वि॒र्-धा॒निन॒ ए॒तेन॑ षड्रा॒त्रेण॑ यजेरन् ।
आश्व॑त्थी हवि॒र्धान॒ञ्+++(=सोमशकटम्)+++ च+ आग्नी॑ध्रञ् +++(शकटम्)+++ च भवतः ।
तद्धि सु॑व॒र्ग्य॑म् ।
च॒क्रीव॑ती +++(शकटे)+++ भवतस् सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

+++(आकृत्या)+++ उ॒लूख॑ल-बुध्नो॒+++(=मूलो)+++ यूपो॑ भवति - प्रति॑ष्ठित्यै।

यानविशेषाः

विश्वास-प्रस्तुतिः

प्राञ्चो॑ यान्ति । प्राङ् इ॑व॒ हि सु॑व॒र्गो लो॒कः ।

सर॑स्वत्या +++(तीर्थविशेषेण)+++ यान्ति [3]।
ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒स्, तम् ए॒वान्वारो॑हन्ति ।

विश्वास-प्रस्तुतिः

आ॒क्रोश॑न्तो या॒न्ति । अव॑र्तिम्+++(=दारिद्र्यं)+++ ए॒वान्यस्मि॑न् प्रति॒षज्य॑ प्रति॒ष्ठाङ् ग॑च्छन्ति।

षडाहावर्तन-सत्र-समापनम्

विश्वास-प्रस्तुतिः

य॒दा दश॑ +++(गावः)+++ श॒तङ् +++(प्रसवेन)+++ कु॒र्वन्त्य् अथैक॑म् उ॒त्थान॑म् +++(→सत्रसमापनम्)+++ ।
श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑यः। आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

य॒दा श॒तँ स॒हस्र॑ङ् कु॒र्वन्त्य् अथ + एक॑म् उ॒त्थान॑म् +++(→सत्रसमापनम् पक्षान्तरे)+++ ।
स॒हस्र॑-सम्मितो॒ वा अ॒सौ लो॒कः ।
अ॒मुम् ए॒व लो॒कम् अ॒भि ज॑यन्ति ।

विश्वास-प्रस्तुतिः

य॒दैषा॑म् प्र॒मीये॑त, य॒दा वा॒ जीये॑रन्न् +++(→सर्वस्वमपि ह्रियेरन्)+++ अथैक॑म् उ॒त्थान॑म् ।
तद्धि ती॒र्थम्+++(=तारकम्)+++ ॥ [4]