२० सावित्रहोममन्त्राः

विश्वास-प्रस्तुतिः

+++(अथाश्वस्य सावित्राणि सप्त जुहोति)+++
अ॒ग्नये॒ स्वाहा॑ । वा॒यवे॒ स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ ।

विश्वास-प्रस्तुतिः

+++(हे अश्व!)+++ ऋ॒तम् अ॑सि । ऋ॒तस्य॒र्तम् अ॑सि । स॒त्यम् अ॑सि । स॒त्यस्य॑ स॒त्यम् अ॑सि । ऋ॒तस्य॒ पन्था॑ असि ।
दे॒वाना॑ञ् छा॒या, ऽमृ॑तस्य॒ नाम॑, तत् स॒त्यय्ँ यत् त्वम् प्र॒जाप॑ति॒र् असि।

विश्वास-प्रस्तुतिः

अधि॑ यद् अ॑स्मिन् वा॒जिनी॑व॒ शुभ॒स् स्पर्ध॑न्ते॒ दिव॒स् सूर्ये॑ण॒ +++(द्यु)+++विशो॒ ,
अ॒पो वृ॑णा॒नᳶ प॑वते+++(=पुनाति)+++ क॒व्यन्+++(=कवं स्तुतिम् इच्छन् ←क्यच्+शतृ)+++ ,
प॒शुन् न गो॒पा इर्य॒ᳶ+++(=इरासम्बन्धी)+++ परि॑ज्मा+++(=परिगन्ता [वायुः])+++ ॥ 52 ॥