विनियोगः
भट्टभास्कर-टीका
अश्वस्य दक्षिणे कर्णे यजमानम् अश्वनामानि वाचयति।
विश्वास-प्रस्तुतिः
वि॒भूर् मा॒त्रा +++(पृथिव्या)+++, प्र॒भूᳶ पि॒त्रा +++(द्यवा वर्षकेण)+++। +++(उदात्तयणः इति तृतीयाया उदात्तत्वम् ।)+++
मूलम्
वि॒भूर् मा॒त्रा +++(पृथिव्या)+++, प्र॒भूᳶ पि॒त्रा +++(द्यवा वर्षकेण)+++। +++(उदात्तयणः इति तृतीयाया उदात्तत्वम् ।)+++
२० अश्वोऽसि हयोऽस्यत्योऽसि ...{Loading}...
+++(अश्वस्य दक्षिणे कर्णे यजमानम् अश्वनामानि वाचयति)+++
अश्वो॑+++(=व्यापकः)+++ ऽसि । हयो॒+++(←हि गतौ)+++ ऽस्य्, अत्यो॑+++(←अत सातत्य-गमने)+++ ऽसि,
नरो॒+++(=नेता)+++ ऽस्य्, अर्वा॑+++(←ऋ गतौ)+++ऽसि॒, सप्ति॑र्+++(←सर्पतेः)+++ असि, वा॒ज्य्+++(=वेगवान्)+++ अ॑सि॒, वृषा॑ ऽसि।
नृ॒-मणा॑+++(=मन्त्यव्यो)+++ असि॒। ययु॒र् नामा॑सि।
+++(ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्’ इति ।)+++
+++(उपतिष्ठते)+++
आदि॒त्याना॒म् पत्व॑+++(=पतनशीलः)+++ +अन्वि॑हि ।
विनियोगः
विश्वास-प्रस्तुतिः
अ॒ग्नये॒ स्वाहा॑।
स्वाहे॑न्द्रा॒ग्निभ्या॑म्।
स्वाहा॑ प्र॒जाप॑तये।
स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॑।
स्वाहा॒ सर्वा॑भ्यो दे॒वता॑भ्यः ।
मूलम्
अ॒ग्नये॒ स्वाहा॑।
स्वाहे॑न्द्रा॒ग्निभ्या॑म्।
स्वाहा॑ प्र॒जाप॑तये।
स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॑।
स्वाहा॒ सर्वा॑भ्यो दे॒वता॑भ्यः ।
विनियोगः
भट्टभास्कर-टीका
4सायमश्वस्य पत्सु चतस्रो धृतीर्जुहोति - इह धृतिरित्यादि ॥
इह धृतिः ...{Loading}...
विश्वास-प्रस्तुतिः
इ॒ह धृति॒स् +++(स्यात्)+++ स्वाहा॑।
इ॒ह विधृ॑ति॒स् +++(स्यात्)+++ स्वाहा॑।
इ॒ह रन्ति॒स्+++(=रतिसाधनभूता)+++ +++(स्यात्)+++ स्वाहा॑।
इ॒ह रम॑ति॒स् +++(स्यात्)+++ स्वाहा॑।
मूलम्
इ॒ह धृति॒स् स्वाहा॑ । इ॒ह विधृ॑ति॒स् स्वाहा॑ ।
इ॒ह रन्ति॒स् स्वाहा॑ । इ॒ह रम॑ति॒स् स्वाहा॑ ।
[संयुक्तमन्त्रः- इ॒ह धृति॒स्स्वाहे॒ह विधृ॑ति॒स्स्वाहे॒ह रन्ति॒स्स्वाहे॒ह रम॑ति॒स्स्वाहा॒]
भट्टभास्कर-टीका
इहास्मिन् पादे धृतिर्धारणं तृप्तिर्वाऽस्तु । इह विधृतिः विद्यापुत्रादिसंपत्प्रभवा धृतिरस्तु । रन्तिः रतिसाधनभूता गवादयः सन्तु । ‘क्तिच्क्तौ च’ इति क्तिच् ‘न क्तिचि दीर्घश्च’ इति नलोपाभावः । इह रमतिः इह रमणमस्तु । रमतेरौणादिकोतिप्रत्ययः, उभयत्र वृषादित्वादाद्युदात्तत्वम् ॥
विनियोगः
भट्टभास्कर-टीका
अश्वमुत्सृजति।
विश्वास-प्रस्तुतिः
भूर् अ॑सि ।
भु॒वे त्वा॒, भव्या॑य त्वा, भविष्य॒ते त्वा॒,
विश्वे॑भ्यस् त्वा भू॒तेेभ्यः॑ +++(उत्सृजामि)+++।
+++(अथैनं देवताभ्यो रक्षार्थं परिददाति)+++
देवा॑ आशापाला,
ए॒तन् दे॒वेभ्यो ऽश्व॒म् मेधा॑य॒ प्रोक्षि॑तङ् गोपायत ॥ [41]
मूलम्
भूर् अ॑सि ।
भु॒वे त्वा॒, भव्या॑य त्वा, भविष्य॒ते त्वा॒,
विश्वे॑भ्यस् त्वा भू॒तेेभ्यः॑।
देवा॑ आशापाला, ए॒तन् दे॒वेभ्यो ऽश्व॒म् मेधा॑य॒ प्रोक्षि॑तङ् गोपायत ॥ [41]