११ अश्वमेधमन्त्रेषु रशनादानाद्य्-अङ्गमन्त्राः

विनियोगः

भास्करोक्त-विनियोगः

रशनामादत्ते।

देवस्य त्वा सवितुः ...{Loading}...

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…

पद-पाठः

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥


सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥


तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

विश्वास-प्रस्तुतिः

आ द॑दे ।

Keith

I grasp thee.

मूलम्

आ द॑दे ।

Keith

I take thee

विश्वास-प्रस्तुतिः

इ॒माम् अ॑गृभ्णन् रश॒नाम् ऋ॒तस्य॒+++(=यज्ञस्य)+++
पूर्व॒ आयु॑षि+++(षे)+++ वि॒दथे॑षु+++(=यज्ञेषु)+++ क॒व्या+++(=कवयः)+++ ।
तया॑ दे॒वास् सु॒तम् +++(सोमम्)+++ आ ब॑भूवुर् , ऋ॒तस्य॒ साम॑न्थ्+++(म्नि [समाप्तौ])+++ स॒रम्+++(=सरणं)+++ आ॒रप॑न्ती+++(=अभिवदन्ती)+++ ।

Keith This bond of order they grasped At their assemblies in ages gone by, the sages; Therewith the gods mastered the pressed (juice), In the Saman of order declaring the stream.

विनियोगः

भास्करोक्त-विनियोगः

अश्वमभिदधाति।

विश्वास-प्रस्तुतिः

अ॒भि॒धा अ॑सि । +++(यज्ञसाधनत्वेन)+++ भुव॑नम् असि । य॒न्तासि॑ । ध॒र्ताऽसि॑ ।

Keith

Thou art surrounding; thou art the world; thou art the restrainer; thou art the supporter.

विश्वास-प्रस्तुतिः

सो॒॑ऽग्निव्ँ वै॑श्वान॒रँ सप्र॑थसङ्+++(=सविस्तरं)+++ गच्छ॒ स्वाहा॑कृतः ।
पृ॒थि॒व्याय्ँ य॒न्ता राड्+++(=दीप्यमानः)+++ य॒न्ताऽसि॒
यम॑नो+++(=यमसाधनभूतः)+++, ध॒र्तासि॑ ध॒रुणः॑ ॥

Keith

Do thou go, with the cry of ‘Hail!’ to Agni Vaiçvanara, the extending.
Thou art the restrainer, the ruler on earth;
thou art the restrainer who dost restrain; thou art the supporter who dost support.

विनियोगः

भास्करोक्त-विनियोगः

अथैनम् अभिप्रोक्षणेन प्रोक्षति।

विश्वास-प्रस्तुतिः

कृ॒ष्यै त्वा॒, क्षेमा॑य त्वा, र॒य्यै त्वा॒, पोषा॑य त्वा ,
पृथि॒व्यै त्वा॒ , ऽन्तरि॑क्षाय त्वा , दि॒वे त्वा॑,
स॒ते त्वा, ऽस॑ते त्वा॒ ,
ऽद्भ्यस् त्वौष॑धीभ्यस् त्वा॒ ,
विश्वे॑भ्यस् त्वा भू॒तेभ्यः॑ +++(प्रोक्षामि)+++।

Keith

For ploughing thee! For comfort thee! For wealth thee! For increase thee!
For earth thee! For the atmosphere thee! For sky thee!
For being thee! For not being thee!
For the waters thee! For the plants thee!
For all creatures thee!