विश्वास-प्रस्तुतिः
+++(चत्वारश्चतूरात्रा भवन्ति आत्रेयजामदग्न्यवसिष्ठसंसर्प विश्वामित्रसंजयाख्याः ।)+++
फलकीर्तनम्
विश्वास-प्रस्तुतिः
अत्रि॑र् अददा॒द् और्वा॑य +++(स्वीयाम्)+++ प्र॒जाम् पु॒त्रका॑माय ।
स +++(अत्रिः प्रजया)+++ रि॑रिचा॒नो॑+++(=रिच्यमानः)+++ ऽमन्यत , “निर्वी॑र्यश् शिथि॒लो या॒तया॑मा” ।
स ए॒तञ् च॑तूरा॒त्रम् अ॑पश्यत् । तमाह॑र॒त् । तेना॑यजत ।
ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ , सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स् सुस॑भेयः ।
+++(सुहो॑ता॒ इत्यादौ तत्पुर्षेष्व् अव्ययपूर्वपदप्रकृतिस्वरः। स्व॑ध्वर्यु॒र् इत्यत्र उदात्तस्वरितयोर्यणः इति स्वरितः।)+++
य ए॒वव्ँ वि॒द्वाँश् च॑तूरा॒त्रेण॒ यज॑त॒ , आस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ , सुहो॑ता॒ सू॑द्गाता॒ स्व॑ध्वर्यु॒स् सुस॑भेयः ।
Keith
Atri gave offspring to Aurva who was desirous of children.
She+++(Gender??)+++ deemed herself empty, without strength, weak, worn out.
He saw the four night rite; he grasped it, and sacrificed with it.
Then indeed were four sons born for him, a good Hotr, a good Udgatr, a good Adhvaryu, a good councillor.
He, who knowing thus offers the four-night rite, has four sons born for him, a good Hotr, a good Udgatr, a good Adhvaryu, a good councillor.
विधानम्
विश्वास-प्रस्तुतिः
ये +++(पवमानाबहिष्पवमानादयो)+++ च॑तुर्विँ॒शाᳶ पव॑माना - ब्रह्मवर्च॒सन् तत् +++(गायत्रसामान्यात् - चतुर्विंशत्यक्षरा गायत्री)+++ ।
य उ॒द्यन्त॒स् स्तोमा॒श् +++(उत्तरोत्तरमहीयांसः यथा - त्रिवृत्प्रथममहः, पञ्चदशो द्वितीयः, सप्तदशस्तृतीयः, एकविंशश्चतुर्थ इति)+++ - श्रीस् सा ।
विश्वास-प्रस्तुतिः
+++(आत्रेयः = ((त्रिवृत् प्रातः- ९, मधाह्ने १५, सायं १७), (१५, १७, २१), (१७, २१, २७), (२१, २७, ३३))। त्रिवृत्प्रथमस्याह्नः प्रातस्सवनम्, पञ्चदशं माध्यन्दिनं सवनम्, सप्तदशं तृतीयं सवनम्। अथ द्वितीयस्याह्नः पञ्चदशं प्रातस्सवनं, सप्तदशं माध्यन्दिनं सवनम्, एकविंशं तृतीयसवनम् । अथ तृतीयस्याह्नस्सप्तदशं प्रातस्सवनम्, एकविंशं माध्यन्दिनं सवनं, त्रिणवं तृतीयसवनम् । चतुर्थस्याह्नः एकविंशं प्रातस्सवनम्, त्रिणव माध्यन्दिनं’ सवनम्, त्रयस्त्रिंशं तृतीयसवनम्।)+++
Keith
The Pavamana (Stomas) which are twenty-fourfold are splendour [1];
the increasing Stomas are prosperity.
फलकीर्तनम्
विश्वास-प्रस्तुतिः
अत्रिँ॑ श्र॒द्धा-दे॑वय्ँ॒ यज॑मानञ् च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑नम॒न् - तेज॑ इन्द्रि॒यम् ब्र॑ह्मवर्च॒सम् अ॒न्नाद्य॑म् ।
स ए॒ताँश् च॒तुर॒श् +++(प्रातस्सवनभेदेन)+++ चतु॑ष्टोमा॒न्थ् +++(चतूरात्रान्)+++ सोमा॑न् अपश्यत् । तान् आह॑रत् । तैर् अ॑यजत ।
तेज॑ ए॒व प्र॑थ॒मेनावा॑रुन्द्ध, इ॒न्द्रि॒यन् द्वि॒तीये॑न, ब्रह्मवर्च॒सन् तृ॒तीये॑न अ॒न्नाद्य॑ञ् चतु॒र्थेन॑ ।
य ए॒वव्ँ वि॒द्वाँश् च॒तुर॒श् चतु॑ष्टोमा॒न्त् सोमा॑न् आ॒हर॑ति॒, तैर्यज॑ते॒, तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्द्ध, इन्द्रि॒यन् द्वि॒तीये॑न, ब्रह्मवर्च॒सन् तृ॒तीये॑ना॒न्नाद्य॑ञ् चतु॒र्थेन।
याम् ए॒वात्रि॒र् ऋद्धि॒म् आर्ध्नो॒त् ताम् ए॒व यज॑मान ऋध्नोति ॥ [34]
Keith
Atri who had faith as his deity and offered sacrifices was not visited by the four strengths, brilliance, power, splendour, food.
He saw these four Soma libations with the four Stomas; he grasped them and sacrificed with them.
He won brilliance with the first, power with the second, splendour with the third, food with the fourth.
He, who knowing thus, grasps the four Soma libations with the four Stomas and sacrifices with them, wins brilliance with the first, power with the second, splendour with the third, food with the fourth.
With the success which Atri had, the sacrificer prospers.