मूलम् (संयुक्तम्)
घ्नन्ति॒ वा ए॒तत्सोमय्ँ॒यद॑भिषु॒ण्वन्ति॒ यत्सौ॒म्यो भव॑ति॒ यथा॑ मृ॒ताया॑नु॒स्तर॑णीं॒ घ्नन्ति॑ ता॒दृगे॒व तद्यदु॑त्तरा॒र्धे वा॒ मध्ये॑ वा जुहु॒याद्दे॒वता॑भ्यस्स॒मद॑न्दध्याद्दक्षिणा॒र्धे जु॑होत्ये॒षा वै पि॑तृ॒णान्दिक्स्वाया॑मे॒व दि॒शि पि॒तॄन्नि॒रव॑दयत
विश्वास-प्रस्तुतिः
घ्नन्ति॒ वा ए॒तत्सोमय्ँ॒ यद॑भिषु॒ण्वन्ति॑ ।
यत्सौ॒म्यो भव॑ति॒ यथा॑ मृ॒ताया॑नु॒स्तर॑णीं॒ घ्नन्ति॑ ता॒दृगे॒व तत् ।
यदु॑त्तरा॒र्धे वा॒ मध्ये॑ वा जुहु॒याद् , दे॒वता॑भ्यस् स॒मद॑न्दध्याद् , दक्षिणा॒र्धे जु॑होति ।
ए॒षा वै पि॑तृ॒णान् दिक्स्वाया॑मे॒व दि॒शि पि॒तॄन् नि॒रव॑दयते ।
मूलम्
घ्नन्ति॒ वा ए॒तत्सोमय्ँ॒ यद॑भिषु॒ण्वन्ति॑ ।
यत्सौ॒म्यो भव॑ति॒ यथा॑ मृ॒ताया॑नु॒स्तर॑णीं॒ घ्नन्ति॑ ता॒दृगे॒व तत् ।
यदु॑त्तरा॒र्धे वा॒ मध्ये॑ वा जुहु॒याद् , दे॒वता॑भ्यस् स॒मद॑न्दध्याद् , दक्षिणा॒र्धे जु॑होति ।
ए॒षा वै पि॑तृ॒णान् दिक्स्वाया॑मे॒व दि॒शि पि॒तॄन् नि॒रव॑दयते ।
पद-पाठः
घ्नन्ति॑ । वै । ए॒तत् । सोम॑म् । यत् । अ॒भि॒षु॒ण्वन्तीत्य॑भि-सु॒न्वन्ति॑ ।
यत् । सौ॒म्यः । भव॑ति । यथा॑ । मृ॒ताय॑ । अ॒नु॒स्तर॑णी॒मित्य॑नु-स्तर॑णीम् । घ्नन्ति॑ । ता॒दृक् । ए॒व । तत् ।
यत् । उ॒त्त॒रा॒र्ध इत्यु॑त्तर-अ॒र्धे । वा॒ । मध्ये॑ । वा॒ । जु॒हु॒यात् । दे॒वता॑भ्यः । स॒मद॒मिति॑ स-मद॑म् । द॒ध्या॒त् । द॒क्षि॒णा॒र्ध इति॑ दक्षिण-अ॒र्धे । जु॒हो॒ति॒ ।
ए॒षा । वै । पि॒तृ॒णाम् । दिक् । स्वाया॑म् । ए॒व । दि॒शि । पि॒तृन् । नि॒रव॑दयत॒ इति॑ निः-अव॑दयते ।
भट्टभास्कर-टीका
1घ्नन्ति वा इत्यादि ॥ सोमस्य वधस्थानीयोभिषवः, तत्र सौम्यश्चरुः । मृतायानुस्तरणी वधस्थानीया, यथा मृताय पितृमेधे अनुस्तरणीं गां घ्नन्ति तत्तुल्यं तत्, अनु मरणानन्तरं स्तीर्यते अनयेति अनुस्तरणी, कर्मणि ल्युट् । यदुत्तरार्धे इत्यादि । सौम्यस्यायं देशः समत् कलहः । निष्कृष्य पृथक् स्वस्यां दिशि यजते ॥
मूलम् (संयुक्तम्)
उद्गा॒तृभ्यो॑ हरन्ति सामदेव॒त्यो॑ वै सौ॒म्यो यदे॒व साम्न॑श्छम्बट्कु॒र्वन्ति॒ तस्यै॒व स शान्ति॒रव॑ [26]
ई॒क्ष॒न्ते॒ प॒वित्रव्ँ॒ वै सौ॒म्य आ॒त्मान॑मे॒व प॑वयन्ते॒ य आ॒त्मान॒न्न प॑रि॒पश्ये॑दि॒तासु॑स्स्यादभिद॒दिङ्कृ॒त्वावे॑क्षेत॒ तस्मि॒न्ह्या॑त्मान॑म्परि॒पश्य॒त्यथो॑ आ॒त्मान॑मे॒व प॑वयते॒ यो ग॒तम॑ना॒स्स्यात्सोऽवे॑क्षेत॒
विश्वास-प्रस्तुतिः
उद्गा॒तृभ्यो॑ हरन्ति , सामदेव॒त्यो॑ वै सौ॒म्यो , यदे॒व साम्न॑श्छम्बट्कु॒र्वन्ति॒ तस्यै॒व स शान्तिः॑ ।
अवे॑क्षन्ते॒, प॒वित्रव्ँ॒ वै सौ॒म्य , आ॒त्मान॑मे॒व प॑वयन्ते ।[26]
य आ॒त्मान॒न् न प॑रि॒पश्ये॑दि॒तासु॑स् स्यादभिद॒दिङ् कृ॒त्वावे॑क्षेत ।
तस्मि॒न् ह्या॑त्मान॑म् परि॒पश्य॒त्य् अथो॑ आ॒त्मान॑मे॒व प॑वयते ।
यो ग॒तम॑ना॒स् स्यात् सोऽवे॑क्षेत ।
मूलम्
उद्गा॒तृभ्यो॑ हरन्ति , सामदेव॒त्यो॑ वै सौ॒म्यो , यदे॒व साम्न॑श्छम्बट्कु॒र्वन्ति॒ तस्यै॒व स शान्तिः॑ ।
अवे॑क्षन्ते॒, प॒वित्रव्ँ॒ वै सौ॒म्य , आ॒त्मान॑मे॒व प॑वयन्ते ।[26]
य आ॒त्मान॒न् न प॑रि॒पश्ये॑दि॒तासु॑स् स्यादभिद॒दिङ् कृ॒त्वावे॑क्षेत ।
तस्मि॒न् ह्या॑त्मान॑म् परि॒पश्य॒त्य् अथो॑ आ॒त्मान॑मे॒व प॑वयते ।
यो ग॒तम॑ना॒स् स्यात् सोऽवे॑क्षेत ।
पद-पाठः
उ॒द्गा॒तृभ्य॒ इत्यु॑द्गा॒तृ-भ्यः॒ । ह॒र॒न्ति॒ । सा॒म॒देव॒त्य॑ इति॑ साम-दे॒व॒त्यः॑ । वै । सौ॒म्यः । यत् । ए॒व । साम्नः॑ । छ॒म्ब॒ट्कु॒र्वन्तीति॑ छम्बट्-कु॒र्वन्ति॑ । तस्य॑ । ए॒व । सः । शान्तिः॑ ।
अवेति॑ । [26] ई॒क्ष॒न्ते॒ । प॒वित्र॑म् । वै । सौ॒म्यः । आ॒त्मान॑म् । ए॒व । प॒व॒य॒न्ते॒ ।
यः । आ॒त्मान॑म् । न । प॒रि॒पश्ये॒दिति॑ परि-पश्ये॑त् । इ॒तासु॒रिती॒त-अ॒सुः॒ । स्या॒त् । अ॒भि॒द॒दिमित्य॑भि-द॒दिम् । कृ॒त्वा । अवेति॑ । ई॒क्षे॒त॒ । तस्मि॑न् । हि । आ॒त्मान॑म् । प॒रि॒पश्य॒तीति॑ परि-पश्य॑ति । अथो॒ इति॑ । आ॒त्मान॑म् । ए॒व । प॒व॒य॒ते॒ । यः । ग॒तम॑ना॒ इति॑ ग॒त-म॒नाः॒ । स्यात् । सः । अवेति॑ । ई॒क्षे॒त॒ ।
भट्टभास्कर-टीका
2उद्गातृभ्य इत्यादि ॥ हरणं दानम् । साम देवता अस्य सौम्यस्य चरोः । तस्मात्साम्नो यच्छम्बट्कुर्वन्ति अन्तरयन्ति नाशयन्ति तस्य दोषस्य स सौम्यश्चरुः शान्तिश्शमनहेतुः । अवेक्षन्ते इति । सामर्थ्याच्चरावाज्यमानीयेति गम्यते । य आत्मानं न परिपश्येदिति वक्ष्यमाणत्वात् । तदवेक्षणेनात्मानं पवयन्ते शोधयन्ति । वृद्ध्यभावश्छान्दसः । अथ यद्यात्मानं न परिपश्येत् न सर्वत ईक्षेत इतासुस्स्यात् आज्यस्याल्पतया तत्रात्मादर्शने इतासुत्वं स्यात्, तस्मादभिददिं कृत्वाऽवेक्षेत नाल्प आज्ये अभित्वो ददाति ॥
मूलम् (संयुक्तम्)
यन्मे॒ मन॒ᳶ परा॑गतय्ँ॒यद्वा॑ मे॒ अप॑रागतम् । राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑ धारयाम॒सीति॒ मन॑ ए॒वात्मन्दा॑धार [27]
न ग॒तम॑ना भव॒त्य्
विश्वास-प्रस्तुतिः
यन्मे॒ मन॒ᳶ परा॑गतय्ँ॒ , यद्वा॑ मे॒ अप॑रागतम् ।
राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑ धारयाम॒सीति॑ ।
मन॑ ए॒वात्मन्दा॑धार , न ग॒तम॑ना भवति ।[27]
मूलम्
यन्मे॒ मन॒ᳶ परा॑गतय्ँ॒ , यद्वा॑ मे॒ अप॑रागतम् ।
राज्ञा॒ सोमे॑न॒ तद्व॒यम॒स्मासु॑ धारयाम॒सीति॑ ।
मन॑ ए॒वात्मन्दा॑धार , न ग॒तम॑ना भवति ।[27]
पद-पाठः
यत् । मे॒ । मनः॑ । परा॑गत॒मिति॒ परा॑-ग॒त॒म् । यत् । वा॒ । मे॒ । अप॑रागत॒मित्यप॑रा-ग॒त॒म् ॥ राज्ञा॑ । सोमे॑न । तत् । व॒यम् । अ॒स्मासु॑ । धा॒र॒या॒म॒सि॒ । इति॑ । मनः॑ । ए॒व । आ॒त्मन् । दा॒धा॒र॒ । [27]
न । ग॒तम॑ना॒ इति॑ ग॒त-म॒नाः॒ । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
3यन्मे मन इत्यादिरवेक्षणमन्त्रोनुष्टुप् ॥ यन्मे मनः परागतं मत्तो निष्क्रान्तं, यद्वा - यच्च मे मनः अपरागतं परागमनोन्मुखं राज्ञा राजनशीलेन सोमेन ओषधीनामीशेन तन्मनः अस्मास्वेव धारयामसि धारयामः । ‘इदन्तो मसिः’ । एवं कुर्वन् आत्मनि मनो धारयति, ततः प्रभृति न गतमना भवति ॥
मूलम् (संयुक्तम्)
अप॒ वै तृ॑तीयसव॒ने य॒ज्ञᳵ क्रा॑मतीजा॒नादनी॑जानम॒भ्या॑ग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजत्य॒ग्निस्सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑श्चै॒व य॒ज्ञञ्च॑ दाधारोपाँ॒शु य॑जति मिथुन॒त्वाय॑
विश्वास-प्रस्तुतिः
अप॒ वै तृ॑तीयसव॒ने य॒ज्ञᳵ क्रा॑मतीजा॒नाद् - अनी॑जानम॒भ्या॑ग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजति ।
अ॒ग्निस् सर्वा॑ दे॒वता॒ विष्णु॑र् य॒ज्ञो दे॒वता॑श्चै॒व य॒ज्ञञ् च॑ दाधार ।
उ॒पाँ॒शु य॑जति , मिथुन॒त्वाय॑ ।
मूलम्
अप॒ वै तृ॑तीयसव॒ने य॒ज्ञᳵ क्रा॑मतीजा॒नाद् - अनी॑जानम॒भ्या॑ग्नावैष्ण॒व्यर्चा घृ॒तस्य॑ यजति ।
अ॒ग्निस् सर्वा॑ दे॒वता॒ विष्णु॑र् य॒ज्ञो दे॒वता॑श्चै॒व य॒ज्ञञ् च॑ दाधार ।
उ॒पाँ॒शु य॑जति , मिथुन॒त्वाय॑ ।
पद-पाठः
अपेति॑ । वै । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय-स॒व॒ने । य॒ज्ञः । क्रा॒म॒ति॒ । ई॒जा॒नात् । अनी॑जानम् । अ॒भीति॑ । आ॒ग्ना॒वै॒ष्ण॒व्येत्या॑ग्ना-वै॒ष्ण॒व्या । ऋ॒चा । घृ॒तस्य॑ । य॒ज॒ति॒ ।
अ॒ग्निः । सर्वाः॑ । दे॒वताः॑ । विष्णुः॑ । य॒ज्ञः । दे॒वताः॑ । च॒ । ए॒व । य॒ज्ञम् । च॒ । दा॒धा॒र॒ ।
उ॒पाँ॒श्वित्यु॑प-अँ॒शु । य॒ज॒ति॒ । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ ।
भट्टभास्कर-टीका
4अप वा इत्यादि ॥ इष्टवानीजानः । ‘लिटः कानज्वा’ । ईजानाद्यज्ञोऽपक्रामति अनीजानं लक्षीकृत्य । तत्राग्नावैष्णव्यर्चा धृतस्य यजति । उभयतस्सौम्यं परियजति । अन्यतरतो वा । केचित्तु - घृतस्याभियजतीति गच्छति तत्राभिगत इत्यत्रार्थेऽभिशब्दः । तन्मते ईजानाद्यज्ञोपगम्य अनीजानं क्रामति प्राप्नोतीति क्लिष्टान्वयः । अग्निस्सर्वा इत्यादि । गतम् । देवतानां सर्वज्ञस्य च सह धारणात् अनीजानं न गच्छति यज्ञः । मिथुनत्वायेति । उपांशुतया यागः सौम्येन चरुणा सह मिथुनं भवतीति ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टय्ँयुवते॒ वरु॑णो॒ दुरि॑ष्ट॒ङ्क्व॑ तर्हि॑ य॒ज्ञᳵ क्व॑ यज॑मानो भव॒तीति॒
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टय्ँयुवते॒ वरु॑णो॒ दुरि॑ष्ट॒ङ्क्व॑ तर्हि॑ य॒ज्ञᳵ क्व॑ यज॑मानो भवति”+ इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -
“मि॒त्रो य॒ज्ञस्य॒ स्वि॑ष्टय्ँयुवते॒ वरु॑णो॒ दुरि॑ष्ट॒ङ्क्व॑ तर्हि॑ य॒ज्ञᳵ क्व॑ यज॑मानो भवति”+ इति॑ ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
मि॒त्रः । य॒ज्ञस्य॑ । स्वि॑ष्ट॒मिति॒ सु-इ॒ष्ट॒म् । यु॒व॒ते॒ । वरु॑णः । दुरि॑ष्ट॒मिति॒ दुः-इ॒ष्ट॒म् । क्व॑ । तर्हि॑ । य॒ज्ञः । क्व॑ । यज॑मानः । भ॒व॒ति॒ । इति॑ ।
भट्टभास्कर-टीका
5ब्रह्मवादिन इत्यादि ॥ यज्ञस्य यत्स्विष्टं शोभनमिष्टं तद्युवते मिश्रयति दुरिष्टेन मित्रः दुरिष्टसंभवे तेन संस्पृष्टमेव स्विष्टं स्थापयति अनाराधितो मित्रः । वरुणश्च दुरिष्टं स्विष्टसंस्पृष्टमेव स्थापयति तस्य बाधकत्वेन । क्व तर्हि तदानीं तथा सति कस्मिन् फले दातृत्वेन यज्ञो वर्तते, अनिर्वृत्तप्रायत्वात्, यजमानश्च तदानीं क्व भवति यज्ञेन रहितः कस्मिन् फले भोक्तृत्वेन वर्तते इति ब्रह्मवादिनः प्रश्नं वदन्ति ॥
मूलम् (संयुक्तम्)
यन्मै॑त्रावरु॒णीव्ँव॒शामा॒लभ॑ते मि॒त्रेणै॒व [28]
य॒ज्ञस्य॒ स्वि॑ष्टँ शमयति॒ वरु॑णेन॒ दुरि॑ष्ट॒न्नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यथा॒ वै लाङ्ग॑लेनो॒र्वरा॑म्प्रभि॒न्दन्त्ये॒वमृ॑क्सा॒मे य॒ज्ञम्प्र भि॑न्तो॒ यन्मै॑त्रावरु॒णीव्ँव॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय म॒त्य॑म॒न्ववा॑स्यति॒ शान्त्यै॑ या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दाँ॑सि॒ य ई॑जा॒नश्छन्द॑सामे॒ष रसो॒ यद्व॒शा यन्मै॑त्रावरु॒णीव्ँव॒शामा॒लभ॑ते॒ छन्दाँ॑स्ये॒व पुन॒रा प्री॑णा॒त्यया॑तयामत्वा॒याथो॒ छन्द॑स्स्वे॒व रस॑न्दधाति ॥ [29]
विश्वास-प्रस्तुतिः
यन्मै॑त्रावरु॒णीव्ँ व॒शामा॒लभ॑ते , मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्टँ शमयति॒ ,
वरु॑णेन॒ दुरि॑ष्ट॒न्नार्ति॒मार्च्छ॑ति॒ यज॑मानः । [28]
यथा॒ वै लाङ्ग॑लेनो॒र्वरा॑म् प्रभि॒न्दन्त्य् ए॒वम ऋ॑क्सा॒मे य॒ज्ञम् प्र भि॑न्तः ।
यन् मै॑त्रावरु॒णीव्ँ व॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय म॒त्य॑म॒न्ववा॑स्यति । शान्त्यै॑ ।
या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दाँ॑सि॒ , य ई॑जा॒नश् छन्द॑साम् ए॒ष रसो॒ यद् व॒शा,
यन्मै॑त्रावरु॒णीव्ँ व॒शामा॒लभ॑ते॒ , छन्दाँ॑स्ये॒व पुन॒रा प्री॑णा॒त्य् अया॑तयामत्वाय ।
अथो॒ छन्द॑स्स्वे॒व रस॑न् दधाति ॥ [29]
मूलम्
यन्मै॑त्रावरु॒णीव्ँ व॒शामा॒लभ॑ते , मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्टँ शमयति॒ ,
वरु॑णेन॒ दुरि॑ष्ट॒न्नार्ति॒मार्च्छ॑ति॒ यज॑मानः । [28]
यथा॒ वै लाङ्ग॑लेनो॒र्वरा॑म् प्रभि॒न्दन्त्य् ए॒वम ऋ॑क्सा॒मे य॒ज्ञम् प्र भि॑न्तः ।
यन् मै॑त्रावरु॒णीव्ँ व॒शामा॒लभ॑ते य॒ज्ञायै॒व प्रभि॑न्नाय म॒त्य॑म॒न्ववा॑स्यति । शान्त्यै॑ ।
या॒तया॑मानि॒ वा ए॒तस्य॒ छन्दाँ॑सि॒ , य ई॑जा॒नश् छन्द॑साम् ए॒ष रसो॒ यद् व॒शा,
यन्मै॑त्रावरु॒णीव्ँ व॒शामा॒लभ॑ते॒ , छन्दाँ॑स्ये॒व पुन॒रा प्री॑णा॒त्य् अया॑तयामत्वाय ।
अथो॒ छन्द॑स्स्वे॒व रस॑न् दधाति ॥ [29]
पद-पाठः
यत् । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा-व॒रु॒णीम् । व॒शाम् । आ॒लभ॑त॒ इत्या॑-लभ॑ते । मि॒त्रेण॑ । ए॒व । [28] य॒ज्ञस्य॑ । स्वि॑ष्ट॒मिति॒ सु-इ॒ष्ट॒म् । श॒म॒य॒ति॒ ।
वरु॑णेन । दुरि॑ष्ट॒मिति॒ दुः-इ॒ष्ट॒म् । न । आर्ति॑म् । एति॑ । ऋ॒च्छ॒ति॒ । यज॑मानः ।
यथा॑ । वै । लाङ्ग॑लेन । उ॒र्वरा॑म् । प्र॒भि॒न्दन्तीति॑ प्र-भि॒न्दन्ति॑ । ए॒वम् । ऋ॒क्सा॒मे इत्यृ॑क्-सा॒मे । य॒ज्ञम् । प्रेति॑ । भि॒न्तः॒ ।
यत् । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा-व॒रु॒णीम् । व॒शाम् । आ॒लभ॑त॒ इत्या॑-लभ॑ते । य॒ज्ञाय॑ । ए॒व । प्रभि॑न्ना॒येति॒ प्र-भि॒न्ना॒य॒ । म॒त्य॑म् । अ॒न्ववा॑स्य॒तीत्य॑नु-अवा॑स्यति । शान्त्यै॑ ।
या॒तया॑मा॒नीति॑ या॒त-या॒मा॒नि॒ । वै । ए॒तस्य॑ । छन्दाँ॑सि । यः । ई॒जा॒नः । छन्द॑साम् । ए॒षः । रसः॑ । यत् । व॒शा । यत् । मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा-व॒रु॒णीम् । व॒शाम् । आ॒लभ॑त॒ इत्या॑-लभ॑ते ।
छन्दाँ॑सि । ए॒व । पुनः॑ । एति॑ । प्री॒णा॒ति॒ । अया॑तयामत्वा॒येत्यया॑तयाम-त्वा॒य॒ । अथो॒ इति॑ । छन्द॒स्स्विति॒ छन्दः॑-सु॒ । ए॒व । रस॑म् । द॒धा॒ति॒ ॥
[29]
भट्टभास्कर-टीका
6यदित्यादि ॥ मैत्रावरुण्या वशाया विधिः । शमयतीति । दुरिष्टासंसर्गः स्विष्टस्य शान्तिः, स्विष्टाविरोधित्वं दुरिष्टस्य शान्तिः । ततश्चोभयसमीकरणात् यज्ञं चाविकलं निर्वर्त्य यजमानो नार्तिं गच्छति फलहानिं न भजते । किंचेत्याह - येत्यादि । यथा उर्वरां सर्वसस्योत्पत्त्याधारभूतां भूमिं लाङ्गलेन प्रभिन्दन्ति प्रकर्षेण कृषन्ति, एवं ऋक्सामे यज्ञं प्रभिन्तः प्रकृष्टक्षेत्रफलप्रदानशक्तं कुरुतः । तत्र मैत्रावरुणी वशा यज्ञक्षेत्रस्य मत्यस्थानीया, शक्त्यानयनार्थं द्रव्यं मत्यम् । मत्यमन्ववास्यति कर्षणानन्तरं प्रक्षिपति । तच्छान्त्यै कर्षणहिंसाशमनाय भवति । किंचेत्याह - यातयामानीत्यादि । यातयामानि गतरसानि ईजानस्य छन्दांसि, बहुश उपयुक्तत्वात् । वशानामैषा छन्दसां रसः, ततस्तया छन्दांसि पुनराप्रीणाति आभिमुख्येन तर्पयति । तत् छन्दसामयातयामत्वाय भवति । अथो अपि च छन्दस्सु गतरसेषु पुनः रसं दधाति स्थापयति, छन्दसां रसत्वाद्वशायाः ॥
इति षष्ठे षष्ठे सप्तमोनुवाकः ॥