११

मूलम् (संयुक्तम्)

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पुनᳶ॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनᳶ॑पुनरिव॒ ह्य॑यल्ँ लो॒कᳶ

विश्वास-प्रस्तुतिः

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑ ।
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ ऽमुमे॒व तैर् लो॒कम॒भि ज॑यति ।
परा॑ङिव॒ ह्य॑सौ लो॒कः ।
यानि॒ पुनᳶ॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति ।
पुनᳶ॑पुनरिव॒ ह्य॑यल्ँ लो॒कः ।

मूलम्

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑ ।
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ ऽमुमे॒व तैर् लो॒कम॒भि ज॑यति ।
परा॑ङिव॒ ह्य॑सौ लो॒कः ।
यानि॒ पुनᳶ॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति ।
पुनᳶ॑पुनरिव॒ ह्य॑यल्ँ लो॒कः ।

पद-पाठः

प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते॑ । न । अ॒न्यानि॑ ।
यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते॑ । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । पराङ्॑ । इ॒व॒ । हि । अ॒सौ । लो॒कः ।
यानि॑ । पुनः॑ । प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते॑ । इ॒मम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ ।
पुन॑ᳶपुन॒रिति॒ पुनः॑-पु॒नः॒ । इ॒व॒ । हि । अ॒यम् । लो॒कः ।

भट्टभास्कर-टीका

1प्रान्यानीत्यादि ॥ अन्यानि कानिचित्पात्राणि उपांशुपात्रादीनि प्रयुज्यन्ते नान्यानीति वचनात् प्रयोगविशेषोभिप्रेत इति गम्यते । पुनः प्रयुज्यन्त इति यावत् । पात्राणि द्विदेवत्यपात्रादीनि पुनः प्रयुज्यन्ते सकृदेव प्रयुक्तानि आतृतीयसवनात्परिशेरते । तत्र यानिपराचीनानि पुनरावृत्तमयोगाणि सकृदेव प्रयुक्तानि कार्यं कुर्वन्ति अमुमेव परलोकमेव तैरभिजयति । हेतुमाह - पराङिव अपुनरावृत्त इव ह्यसौ लोकः पुनःपुनः प्राप्यः मृतस्य पुनरागमात् । यानि पुनःपुनः प्रयुज्यन्ते पात्राणि इमं लोकं तैरभिजयति पुपुनरावृत्त इव ह्ययं लोको भवति, कर्मार्जनस्थानत्वात् ॥

मूलम् (संयुक्तम्)

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धय॒ᳶ परा॑ भवन्ति॒ यानि॒ पुनः॑ [39]
प्र॒यु॒ज्यन्ते॒ तान्यन्वोष॑धय॒ᳶ पुन॒रा भ॑वन्ति॒

विश्वास-प्रस्तुतिः

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑ ।
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ , तान्यन्वोष॑धय॒ᳶ परा॑ भवन्ति ।
यानि॒ पुनᳶ॑ प्र॒यु॒ज्यन्ते॒ , तान्यन्वोष॑धय॒ᳶ पुन॒रा भ॑वन्ति । [39]

मूलम्

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑ ।
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ , तान्यन्वोष॑धय॒ᳶ परा॑ भवन्ति ।
यानि॒ पुनᳶ॑ प्र॒यु॒ज्यन्ते॒ , तान्यन्वोष॑धय॒ᳶ पुन॒रा भ॑वन्ति । [39]

पद-पाठः

प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते॑ । न । अ॒न्यानि॑ ।

यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते॑ । तानि॑ । अन्विति॑ । ओष॑धयः । परेति॑ । भ॒व॒न्ति॒ ।

यानि॑ । पुनः॑ । [39] प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते॑ । तानि॑ । अन्विति॑ । ओष॑धयः । पुनः॑ । एति॑ । भ॒व॒न्ति॒ ।

भट्टभास्कर-टीका

2किंचेत्याह - प्रान्यानीत्यादि ॥ पूर्ववत् । तत्र पराचीनैः पात्रैर्हेतुभिः ओषधयः पराभवन्ति विनश्यन्ति ग्रीष्मपक्वा न पुनरावर्तन्ते । यानि पुनःपुनः प्रयुज्यन्ते तैर्हेतुभिराभवन्ति वर्षादौ पुनःपुनरुत्पद्यन्ते ओषधयः । हेतावनोः कर्मप्रवचनीयत्वम् ॥

मूलम् (संयुक्तम्)

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याᳶ प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनᳶ॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याᳶ प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒

विश्वास-प्रस्तुतिः

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑ ।
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याᳶ प॒शवो ऽर॑ण्य॒मप॑ यन्ति ।
यानि॒ पुनᳶ॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याᳶ प॒शवो॒ ग्राम॑म् उ॒पाव॑यन्ति ।

मूलम्

प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॑ ।
यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याᳶ प॒शवो ऽर॑ण्य॒मप॑ यन्ति ।
यानि॒ पुनᳶ॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याᳶ प॒शवो॒ ग्राम॑म् उ॒पाव॑यन्ति ।

पद-पाठः

प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते॑ । न । अ॒न्यानि॑ । यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते॑ । तानि॑ । अन्विति॑ । आ॒र॒ण्याः । प॒शवः॑ । अर॑ण्यम् । अपेति॑ । य॒न्ति॒ ।
यानि॑ । पुनः॑ । प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते॑ । तानि॑ । अन्विति॑ । ग्रा॒म्याः । प॒शवः॑ । ग्राम॑म् । उ॒पाव॑य॒न्तीत्यु॑प-अव॑यन्ति ।

भट्टभास्कर-टीका

3पुनश्च किंचेत्याह - प्रान्यानीत्यादि ॥ समानम् । पराचीनैः पात्रैः हेतुभिः आरण्याः पशवः अरण्यमपयन्ति अरण्यं प्राप्य अपुनरावृत्त्या अपगता एव च भवन्ति न पुनर्ग्राममागच्छन्ति । अधान्यैः पात्रैः हेतुभिः ग्राम्याः पशवोरण्ये चरित्वा पुनःपुनर्ग्राममुपावयन्ति उपागच्छन्ति । ‘गतौ’ इति उपशब्दो निहन्यते, सगतिना च ‘उदात्तवता तिङा’ इति समासः ॥

मूलम् (संयुक्तम्)

यो वै ग्रहा॑णान्नि॒दानव्ँ॒वेद॑ नि॒दान॑वान्भव॒त्याज्य॒मित्यु॒क्थन्तद्वै ग्रहा॑णान्नि॒दानय्ँ॒यदु॑पाँ॒शु शँस॑ति॒ तत् [40]
उ॒पाँ॒श्व॒न्त॒र्या॒मयो॒र्यदु॒च्चैस्तदित॑रेषा॒ङ्ग्रहा॑णामे॒तद्वै ग्रहा॑णान्नि॒दानय्ँ॒य ए॒वव्ँ वेद॑ नि॒दान॑वान्भवति॒

विश्वास-प्रस्तुतिः

यो वै ग्रहा॑णान् नि॒दानव्ँ॒ वेद॑ नि॒दान॑वान् भव॒ति ।
आज्य॒मित्यु॒क्थन् तद् वै ग्रहा॑णान् नि॒दान॑म् ।
यदु॑पाँ॒शु शँस॑ति॒ , तद् उ॑पाँश्वन्तर्या॒मयोः॑ ।[40]
यद् उ॒च्चैस् तदित॑रेषा॒ङ् ग्रहा॑णाम् ।
ए॒तद् वै ग्रहा॑णान् नि॒दान॑म् ।
य ए॒वव्ँ वेद॑ नि॒दान॑वान् भवति ।

मूलम्

यो वै ग्रहा॑णान् नि॒दानव्ँ॒ वेद॑ नि॒दान॑वान् भव॒ति ।
आज्य॒मित्यु॒क्थन् तद् वै ग्रहा॑णान् नि॒दान॑म् ।
यदु॑पाँ॒शु शँस॑ति॒ , तद् उ॑पाँश्वन्तर्या॒मयोः॑ ।[40]
यद् उ॒च्चैस् तदित॑रेषा॒ङ् ग्रहा॑णाम् ।
ए॒तद् वै ग्रहा॑णान् नि॒दान॑म् ।
य ए॒वव्ँ वेद॑ नि॒दान॑वान् भवति ।

पद-पाठः

यः । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि-दान॑म् । वेद॑ । नि॒दान॑वा॒निति॑ नि॒दान॑-वा॒न् । भ॒व॒ति॒ ।

आज्य॑म् । इति॑ । उ॒क्थम् । तत् । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि-दान॑म् ।

यत् । उ॒पाँ॒श्वित्यु॑प-अँ॒शु । शँस॑ति । तत् । [40] उ॒पाँ॒श्व॒न्त॒र्या॒मयो॒रित्यु॑पाँशु-अ॒न्त॒र्या॒मयोः॑ ।

यत् । उ॒च्चैः । तत् । इत॑रेषाम् । ग्रहा॑णाम् ।

ए॒तत् । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि-दान॑म् ।

यः । ए॒वम् । वेद॑ । नि॒दान॑वा॒निति॑ नि॒दान॑-वा॒न् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

4यो वै ग्रहाणामित्यादि ॥ निन्दास्तुतिरिति केचित् । शक्तिमत्त्वनिबन्धनमित्यन्ये । आज्यमित्युक्थमिति । इतिशब्दः प्रकारवचने । आज्यं नाम स्तोत्रविशेषः । आज्यप्रकारमुक्थं स्तोत्रं सर्वेषां ग्रहाणां निदानम् । केचिदाहुः - इतिशब्दोवच्छेदे । आज्याख्यमेव स्तोत्रं निदानमिवेति । एवं सामान्यनिदानमुक्त्वा ग्रहविशेषे विशेषमाह - यदित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यो वै ग्रहा॑णाम्मिथु॒नव्ँवेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णाम्मिथु॒नय्ँय ए॒वव्ँ वेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यत॒

विश्वास-प्रस्तुतिः

यो वै ग्रहा॑णाम् मिथु॒नव्ँ वेद॒ , प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।
स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्ये ।
ए॒तद्वै ग्रहा॑णाम् मिथु॒नम् ।
य ए॒वव्ँ वेद॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।

मूलम्

यो वै ग्रहा॑णाम् मिथु॒नव्ँ वेद॒ , प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।
स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्ये ।
ए॒तद्वै ग्रहा॑णाम् मिथु॒नम् ।
य ए॒वव्ँ वेद॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते ।

पद-पाठः

यः । वै । ग्रहा॑णाम् । मि॒थु॒नम् । वेद॑ । प्रेति॑ । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ ।

स्था॒लीभिः॑ । अ॒न्ये । ग्रहाः॑ । गृ॒ह्यन्ते॑ । वा॒य॒व्यैः॑ । अ॒न्ये ।

ए॒तत् । वै । ग्रहा॑णाम् । मि॒थु॒नम् ।
यः । ए॒वम् । वेद॑ । प्रेति॑ । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ ।

भट्टभास्कर-टीका

5यो वै ग्रहाणां मिथुनमित्यादि ॥ ‘एकान्याभ्याम्’ इत्याख्यातं न निहन्यते ॥

मूलम् (संयुक्तम्)

इन्द्र॒स्त्वष्टु॒स्सोम॑मभी॒षहा॑पिब॒त्स विष्वङ्ङ्॑ [41]
व्या॑र्च्छ॒त्स आ॒त्मन्ना॒रम॑ण॒न्नावि॑न्द॒त्स ए॒तान॑नुसव॒नम्पु॑रो॒डाशा॑नपश्य॒त्तान्निर॑वप॒त्तैर्वै स आ॒त्मन्ना॒रम॑णमकुरुत॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॑ना॒म्प्राश्ञी॑यादा॒त्मन्ने॒वारम॑णङ्कुरुते॒ नैनँ॒ सोमोऽति॑ पवते

विश्वास-प्रस्तुतिः

इन्द्र॒स् त्वष्टु॒स् सोम॑मभी॒षहा॑ऽपिबत् ।
स विष्वङ्ङ्॑ व्या॑र्च्छत् । [41]
स आ॒त्मन्न् आ॒रम॑ण॒न् नावि॑न्दत् ।
स ए॒तान् अ॑नुसव॒नम् पु॑रो॒डाशा॑नपश्यत् ।
तान् निर॑वपत् ।
तैर्वै स आ॒त्मन्न् आ॒रम॑णमकुरुत ।
तस्मा॑दनुसव॒नम् पु॑रो॒डाशा॒ निरु॑प्यन्ते ।
तस्मा॑दनुसव॒नम् पु॑रो॒डाशा॑ना॒म् प्राश्ञी॑याद् , आ॒त्मन्न् ए॒वारम॑णङ् कुरुते॒ , नैनँ॒ सोमोऽति॑ पवते ।

मूलम्

इन्द्र॒स् त्वष्टु॒स् सोम॑मभी॒षहा॑ऽपिबत् ।
स विष्वङ्ङ्॑ व्या॑र्च्छत् । [41]
स आ॒त्मन्न् आ॒रम॑ण॒न् नावि॑न्दत् ।
स ए॒तान् अ॑नुसव॒नम् पु॑रो॒डाशा॑नपश्यत् ।
तान् निर॑वपत् ।
तैर्वै स आ॒त्मन्न् आ॒रम॑णमकुरुत ।
तस्मा॑दनुसव॒नम् पु॑रो॒डाशा॒ निरु॑प्यन्ते ।
तस्मा॑दनुसव॒नम् पु॑रो॒डाशा॑ना॒म् प्राश्ञी॑याद् , आ॒त्मन्न् ए॒वारम॑णङ् कुरुते॒ , नैनँ॒ सोमोऽति॑ पवते ।

पद-पाठः

इन्द्रः॑ । त्वष्टुः॑ । सोम॑म् । अ॒भी॒षहेत्य॑भि-सहा॑ । अ॒पि॒ब॒त् ।
सः । विष्वङ्ङ्॑ । [41] वीति॑ । आ॒र्च्छ॒त् ।
सः । आ॒त्मन् । आ॒रम॑ण॒मित्या॑-रम॑णम् । न । अ॒वि॒न्द॒त् । सः । ए॒तान् । अ॒नु॒स॒व॒नमित्य॑नु-स॒व॒नम् । पु॒रो॒डाशान्॑ । अ॒प॒श्य॒त् ।
तान् । निरिति॑ । अ॒व॒प॒त् ।
तैः । वै । सः । आ॒त्मन् । आ॒रम॑ण॒मित्या॑-रम॑णम् । अ॒कु॒रु॒त॒ ।
तस्मा॑त् । अ॒नु॒स॒व॒नमित्य॑नु-स॒व॒नम् । पु॒रो॒डाशाः॑ । निरिति॑ । उ॒प्य॒न्ते॒ ।
तस्मा॑त् । अ॒नु॒स॒व॒नमित्य॑नु-स॒व॒नम् । पु॒रो॒डाशा॑नाम् । प्रेति॑ । अ॒श्ञी॒या॒त् । आ॒त्मन् । ए॒व । आ॒रम॑ण॒मित्या॑-रम॑णम् । कु॒रु॒ते॒ । न । ए॒न॒म् । सोमः॑ । अतीति॑ । प॒व॒ते॒ ।

भट्टभास्कर-टीका

6इन्द्रस्त्वष्टुरित्यादि ॥ अभीषहा अभिभवेन प्रसह्यापिबत् । सहतेः क्विपि ‘नहिवृति’ इत्यादिना दीर्घत्वम् । विष्वङ् विषूचीनगतिः ऊर्ध्वाधोगतिभ्यां सह सोमो व्यार्च्छत् विविधमगच्छत् आर्तमकरोदिन्द्रम् । अथ स इन्द्रः आत्मन्यारमणं अनुकूलरमणं सुखं नाविन्दत् नालभत । स एतानित्यादि । अनुसवनं सवनेसवने । वीप्सायामनोः कर्मप्रवचनीयत्वम् । गतमन्यत् । नैनमिति । अतिपवनं ऊर्ध्वमधश्चातिप्रवृत्तिः ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिरा॑प्य॒तेऽथ॒ किय्ँ य॒ज्ञस्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाᳵ क॑र॒म्भᳶ प॑रिवा॒पᳶ पु॑रो॒डाशᳶ॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिरा॑प्यते॒ तद्य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ॥ [42]

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“नर्चा न यजु॑षा प॒ङ्क्तिरा॑प्य॒ते ऽथ॒ किय्ँ य॒ज्ञस्य॑ पाङ्क्त॒त्वम्” इति॑ ।
धा॒नाᳵ क॑र॒म्भᳶ प॑रिवा॒पᳶ पु॑रो॒डाशᳶ॑ पय॒स्या॑ ।
तेन॑ प॒ङ्क्तिरा॑प्यते ।
तद् य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ॥ [42]

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“नर्चा न यजु॑षा प॒ङ्क्तिरा॑प्य॒ते ऽथ॒ किय्ँ य॒ज्ञस्य॑ पाङ्क्त॒त्वम्” इति॑ ।
धा॒नाᳵ क॑र॒म्भᳶ प॑रिवा॒पᳶ पु॑रो॒डाशᳶ॑ पय॒स्या॑ ।
तेन॑ प॒ङ्क्तिरा॑प्यते ।
तद् य॒ज्ञस्य॑ पाङ्क्त॒त्वम् ॥ [42]

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
न । ऋ॒चा । न । यजु॑षा । प॒ङ्क्तिः । आ॒प्य॒ते॒ । अथ॑ । किम् । य॒ज्ञस्य॑ । पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त-त्वम् । इति॑ ।
धा॒नाः । क॒र॒म्भः । प॒रि॒वा॒प इति॑ परि-वा॒पः । पु॒रो॒डाशः॑ । प॒य॒स्या॑ । 1तेन॑ । प॒ङ्क्तिः । आ॒प्य॒ते॒ ।
तत् । य॒ज्ञस्य॑ । पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त-त्वम् ॥ [42]

भट्टभास्कर-टीका

7ब्रह्मवादिन इत्यादि ॥ ऋग्यजुषविषयं संख्याविशेषं पङ्क्तिरूपं न पश्यामः । तयोरपङ्क्तित्वात् यज्ञस्य पाङ्क्तत्वे अतिप्रसंगः । तस्मात्किंविषयेण पञ्चत्वेन यज्ञस्य पाङ्क्तत्वमिति प्रश्नः । धानादिविषयेणेत्युत्तरम् । तस्मात्तत्रतत्र पाङ्क्तोयज्ञ इत्युच्यते इति । सक्तुप्रभवा लाजा धानाः । आज्यसंयुक्तास्सक्तवः करम्भः । परिवापो व्रीहिप्रभवा लाजाः । पुरोडाशः पिष्टविकारः । पयस्या क्षीरविकारः ॥

इति श्रीभट्टभास्करमिश्रविरयिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये षष्ठे काण्डे पञ्चमे प्रश्ने एकादशोनुवाकः ॥ प्रश्नश्च संपूर्णः ॥