मूलम् (संयुक्तम्)
ग्रहा॒न्वा अनु॑ प्र॒जाᳶ प॒शव॒ᳶ प्र जा॑यन्त उपाँश्वन्तर्या॒माव॑जा॒वय॑श्शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हानेक॑शफा आदित्यग्र॒हङ्गाव॑ आदित्यग्र॒हो भूयि॑ष्ठाभिर्ऋ॒ग्भिर्गृ॑ह्यते॒ तस्मा॒द्गावᳶ॑ पशू॒नाम्भूयि॑ष्ठा॒ यत्त्रिरु॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒द्द्वौ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीᳶ
विश्वास-प्रस्तुतिः
ग्रहा॒न् वा अनु॑ प्र॒जाᳶ प॒शव॒ᳶ प्र जा॑यन्ते ।
उ॒पाँ॒श्व॒न्त॒र्या॒माव॑जा॒वयः॑ ।
शु॒क्राम॒न्थिनौ॒ पुरु॑षाः ।
ऋ॒तु॒ग्र॒हानेक॑शफाः ।
आ॒दि॒त्य॒ग्र॒हङ्गावः॑ ।
आ॒दि॒त्य॒ग्रहो भूयि॑ष्ठाभिर् ऋ॒ग्भिर् गृ॑ह्यते ।
तस्मा॒द् गावᳶ॑ पशू॒नाम् भूयि॑ष्ठाः ।
यत् त्रिरु॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॑ ।
तस्मा॒द् द्वौ त्रीन॒जा ज॒नय॒त्य् अथाव॑यो॒ भूय॑सीः ।
पद-पाठः
ग्रहान्॑ । वै । अन्विति॑ । प्र॒जा इति॑ प्र-जाः । प॒शवः॑ । प्रेति॑ । जा॒य॒न्ते॒ ।
उ॒पाँ॒श्व॒न्त॒र्या॒मावित्यु॑पाँशु-अ॒न्त॒र्या॒मौ । अ॒जा॒वय॒ इत्य॑जा-अ॒वयः॑ ।
शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा-म॒न्थिनौ॑ । पुरु॑षाः ।
ऋ॒तु॒ग्र॒हानित्यृ॑तु-ग्र॒हान् । एक॑शफा॒ इत्येक॑-श॒फाः॒ ।
आ॒दि॒त्य॒ग्र॒हमित्या॑दित्य-ग्र॒हम् । गावः॑ ।
आ॒दि॒त्य॒ग्र॒ह इत्या॑दित्य-ग्र॒हः । भूयि॑ष्ठाभिः । ऋ॒ग्भिरित्यृ॑क्-भिः । गृ॒ह्य॒ते॒ ।
तस्मा॑त् । गावः॑ । प॒शू॒नाम् । भूयि॑ष्ठाः ।
यत् । त्रिः । उ॒पाँ॒शुमित्यु॑प-अँ॒शुम् । हस्ते॑न । वि॒गृ॒ह्णातीति॑ वि-गृ॒ह्णाति॑ ।
तस्मा॑त् । द्वौ । त्रीन् । अ॒जा । ज॒नय॑ति । अथ॑ । अव॑यः । भूय॑सीः ।
मूलम्
ग्रहा॒न् वा अनु॑ प्र॒जाᳶ प॒शव॒ᳶ प्र जा॑यन्ते ।
उ॒पाँ॒श्व॒न्त॒र्या॒माव॑जा॒वयः॑ ।
शु॒क्राम॒न्थिनौ॒ पुरु॑षाः ।
ऋ॒तु॒ग्र॒हानेक॑शफाः ।
आ॒दि॒त्य॒ग्र॒हङ्गावः॑ ।
आ॒दि॒त्य॒ग्रहो भूयि॑ष्ठाभिर् ऋ॒ग्भिर् गृ॑ह्यते ।
तस्मा॒द् गावᳶ॑ पशू॒नाम् भूयि॑ष्ठाः ।
यत् त्रिरु॑पाँ॒शुँ हस्ते॑न विगृ॒ह्णाति॑ ।
तस्मा॒द् द्वौ त्रीन॒जा ज॒नय॒त्य् अथाव॑यो॒ भूय॑सीः ।
भट्टभास्कर-टीका
1ग्रहान् वा इत्यादि ॥ ग्रहान् हुतान् अनु प्रजाः पशवश्च प्रजायन्ते । ‘अनुर्लक्षणे’ इति हेतुत्वे कर्मप्रवचनीयत्वम् । एवं सामान्येनोक्त्वा एकैकस्याह - उपांश्वन्तर्यामावित्यादि । उपांश्वन्तर्यामावनु अजाश्चावयश्च प्रजायन्ते । शुक्रामन्थिनावनु पुरुषाः प्रजायन्ते । एवं सर्वत्र । ऋतुग्रहानन्वेकशफाः अश्वादयः । आदित्यग्रहमनु गावः । आदित्यग्रह इत्यादि । भूयिष्ठाभिः बहुतमाभिः ‘कदा चन’ इत्यादिभिः। तस्मात्पशूनां मध्ये गावः भूयिष्ठाः । यस्मादुपांशुग्रहं हस्तेन त्रिर्विगृह्णाति तस्मादजा द्वौ त्रीन्वा जनयति, त्रिषु द्वयोस्त्रयाणां चैव संभवात्, न तु त्रिभ्योधिकान् । अथावयस्त्रिभ्यो भूयसीर्बहुतराः अपि चतस्रः अपि पञ्चावीन् जनयति; अव्युत्पत्तिहेतौ अन्तर्यामे तादृशसंकोचसंख्याविशेषाभावात् ॥
मूलम् (संयुक्तम्)
पि॒ता वा ए॒ष यदा॑ग्रय॒णᳶ पु॒त्रᳵ क॒लशो॒ यदा॑ग्रय॒ण उ॑प॒दस्ये॑त्क॒लशा॑द्गृह्णीया॒द्यथा॑ पि॒ता [36]
पु॒त्रङ्क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्यत्क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीया॒द्यथा॑ पु॒त्रᳶ पि॒तर॑ङ्क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्
विश्वास-प्रस्तुतिः
पि॒ता वा ए॒ष यदा॑ग्रय॒णᳶ पु॒त्रᳵ क॒लशः॑ ।
यदा॑ग्रय॒ण उ॑प॒दस्ये॑त् क॒लशा॑द् गृह्णीयात् ।
यथा॑ पि॒ता पु॒त्रङ्क्षि॒त उ॑प॒धाव॑ति , ता॒दृगे॒व तत् । [36]
यत्क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद् गृ॑ह्णीयात् ।
यथा॑ पु॒त्रᳶ पि॒तर॑ङ्क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तत् ।
मूलम्
पि॒ता वा ए॒ष यदा॑ग्रय॒णᳶ पु॒त्रᳵ क॒लशः॑ ।
यदा॑ग्रय॒ण उ॑प॒दस्ये॑त् क॒लशा॑द् गृह्णीयात् ।
यथा॑ पि॒ता पु॒त्रङ्क्षि॒त उ॑प॒धाव॑ति , ता॒दृगे॒व तत् । [36]
यत्क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद् गृ॑ह्णीयात् ।
यथा॑ पु॒त्रᳶ पि॒तर॑ङ्क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तत् ।
पद-पाठः
पि॒ता । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । पु॒त्रः । क॒लशः॑ ।
यत् । आ॒ग्र॒य॒णः । उ॒प॒दस्ये॒दित्यु॑प-दस्ये॑त् । क॒लशा॑त् । गृ॒ह्णी॒या॒त् ।
यथा॑ । पि॒ता । [36] पु॒त्रम् । क्षि॒तः । उ॒प॒धाव॒तीत्यु॑प-धाव॑ति । ता॒दृक् । ए॒व । तत् ।
यत् । क॒लशः॑ । उ॒प॒दस्ये॒दित्यु॑प-दस्ये॑त् । आ॒ग्र॒य॒णात् । गृ॒ह्णी॒या॒त् ।
यथा॑ । पु॒त्रः । पि॒तर॑म् । क्षि॒तः । उ॒प॒धाव॒तीत्यु॑प-धाव॑ति । ता॒दृक् । ए॒व । तत् ।
भट्टभास्कर-टीका
2पिता वा इति ॥ पितृस्थानीय आग्रयणः; प्रथमोत्पन्नत्वात् । पुत्रस्थानीयो द्रोणकलशः; तत्र पश्चादुत्पन्नत्वात् । तत्र यद्याग्रयण उपदस्येत् उपक्षीयेत तदा द्रोणकलशात् गृह्णीयात् पुत्रस्थानीयत्वात् । तस्येति विधिः । यथा पिता क्षीणः क्षीणवृत्तिः पुत्रमुपधावति जीवनार्थमुपसर्पति तत्तुल्यमेव तत्, एवं कलशोपक्षये आग्रयणाद्ग्रहणं क्षीणस्य पुत्रस्य पितृधनसंभजनस्य स्थानीयं भवति ॥
मूलम् (संयुक्तम्)
आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञन्निष्क॑रो॒त्य्
विश्वास-प्रस्तुतिः
आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णः ।
यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद् गृ॑ह्णीयात् ।
आ॒त्मन॑ ए॒वाधि॑ य॒ज्ञन् निष्क॑रोति ।
मूलम्
आ॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा॑ग्रय॒णः ।
यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद् गृ॑ह्णीयात् ।
आ॒त्मन॑ ए॒वाधि॑ य॒ज्ञन् निष्क॑रोति ।
पद-पाठः
आ॒त्मा । वै । ए॒षः । य॒ज्ञस्य॑ । यत् । आ॒ग्र॒य॒णः ।
यत् । ग्रहः॑ । वा॒ । क॒लशः॑ । वा॒ । उ॒प॒दस्ये॒दित्यु॑प-दस्ये॑त् । आ॒ग्र॒य॒णात् । गृ॒ह्णी॒या॒त् ।
आ॒त्मनः॑ । ए॒व । अधीति॑ । य॒ज्ञम् । निरिति॑ । क॒रो॒ति॒ ।
भट्टभास्कर-टीका
3आत्मा वा इत्यादि ॥ यज्ञस्यात्मीयस्थानीय आग्रयणः, अन्तरवस्थानाद्यज्ञस्य । तस्माद्ग्रहकलशोपक्षये आग्रयणाद्ग्रहणं आत्मन एव यज्ञस्य साक्षान्निष्क्रयणं भवति, विच्छिन्नस्य पुनरप्यात्मन एवोत्पत्तेः । अधिरनर्थकः ॥
मूलम् (संयुक्तम्)
अवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा॑ग्रय॒णस्स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॑त् [37]
गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हा
विश्वास-प्रस्तुतिः
अवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा॑ग्रय॒णः ।
स्था॒ल्या गृ॒ह्णाति॑ , वाय॒व्ये॑न जुहोति ।
तस्मा॒द् गर्भे॑ण + अवि॑ज्ञातेन ब्रह्म॒हा ।[37]
मूलम्
अवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा॑ग्रय॒णः ।
स्था॒ल्या गृ॒ह्णाति॑ , वाय॒व्ये॑न जुहोति ।
तस्मा॒द् गर्भे॑ण + अवि॑ज्ञातेन ब्रह्म॒हा ।[37]
पद-पाठः
अवि॑ज्ञात॒ इत्यवि॑-ज्ञा॒तः॒ । वै । ए॒षः । गृ॒ह्य॒ते॒ । यत् । आ॒ग्र॒य॒णः ।
स्था॒ल्या । गृ॒ह्णाति॑ । वा॒य॒व्ये॑न । जु॒हो॒ति॒ । तस्मा॑त् । [37]
गर्भे॑ण । अवि॑ज्ञाते॒नेत्यवि॑-ज्ञा॒ते॒न॒ । ब्र॒ह्म॒हेति॑ ब्रह्म-हा ।
भट्टभास्कर-टीका
4अविज्ञातो वा इत्यादि ॥ आग्रयणो नामाविज्ञातो गृह्यते अविज्ञातयागदेवताविशेषनामधेयत्वात् । ऐन्द्रवायवादिवत् देवताविशेषसंबन्धस्याविज्ञातत्वात् । तस्मादाग्रयणस्स्थाल्या गृह्णाति सोमं वायव्येन त्वन्तर्यामपात्रादिना जुहोति । तस्मादित्यादि । यस्मादेवमविज्ञातस्वभाव आग्रयणः त्यक्त इव भवति तस्माद्गर्भेणाविज्ञातेन केवलेन ब्रह्महा भवति ब्रह्महत्याभाग्भवति आत्मत्यागित्वात् अविज्ञातगर्भस्य (तद्वदस्यापि) त्याज्यत्वात् । त्यागप्रकर्षज्ञापनार्थं ब्रह्मग्रहणम् । यद्वा - ब्रह्महतुल्यप्रायश्चित्तत्वात् ब्रह्महेत्युच्यते । यथाऽऽह मनुः - ‘हत्वागर्भमविज्ञातमेतदेव व्रतं चरेत्’ इति । केचिदाहुः - आत्मत्यागी ब्रह्महेत्युच्यते । हन्तेर्विच्, ‘सुपां सुलुक्’ इति सोर्लुक्, आकारो वा ॥
मूलम् (संयुक्तम्)
ऽव॑भृ॒थमव॑ यन्ति॒ परा॑ स्था॒लीरस्य॒न्त्युद्वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒त्स्त्रिय॑ञ्जा॒ताम्परा॑स्य॒न्त्युत्पुमाँ॑सँ हरन्ति॒
विश्वास-प्रस्तुतिः
अ॒व॒भृ॒थमव॑ यन्ति ।
परा॑ स्था॒लीरस्य॒न्त्य् उद्वा॑य॒व्या॑नि हरन्ति ।
तस्मा॒त् स्त्रिय॑ञ् जा॒ताम् परा॑स्य॒न्त्य् उत्पुमाँ॑सँ हरन्ति ।
मूलम्
अ॒व॒भृ॒थमव॑ यन्ति ।
परा॑ स्था॒लीरस्य॒न्त्य् उद्वा॑य॒व्या॑नि हरन्ति ।
तस्मा॒त् स्त्रिय॑ञ् जा॒ताम् परा॑स्य॒न्त्य् उत्पुमाँ॑सँ हरन्ति ।
पद-पाठः
अ॒व॒भृ॒थमित्य॑व-भृ॒थम् । अवेति॑ । य॒न्ति॒ ।
परेति॑ । स्था॒लीः । अस्य॑न्ति । उदिति॑ । वा॒य॒व्या॑नि । ह॒र॒न्ति॒ ।
तस्मा॑त् । स्त्रिय॑म् । जा॒ताम् । परेति॑ । अ॒स्य॒न्ति॒ । उदिति॑ । पुमाँ॑सम् । ह॒र॒न्ति॒ ।
भट्टभास्कर-टीका
5अवभृथमव यन्तीत्यादि ॥ स्थालीस्सर्वाः पराऽस्यन्ति उत्सृजन्ति । वायव्यादिपात्राणि उद्धरन्ति अपनयन्ति अवभृथे देशे । यद्वा - अवभृथदेशे स्थालीः पराऽस्यन्तीति । वायव्यानि तूद्धरन्ति । तस्मात् स्त्रियं जातां परिपक्वां पराऽस्यन्ति परस्मिन् कुले प्रक्षिपन्ति परस्मै ददाति, पुमांसमुद्धरन्ति सन्तत्यर्थं धारयन्ति ॥
मूलम् (संयुक्तम्)
यत्पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तद्यद्ग्रह॑ङ्गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृगे॒व तद्यत्सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तद्
विश्वास-प्रस्तुतिः
यत् पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तत् ।
यद्ग्रह॑ङ्गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृगे॒व तत् ।
यत्सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तत् ।
मूलम्
यत् पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तत् ।
यद्ग्रह॑ङ्गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राह॑ ता॒दृगे॒व तत् ।
यत्सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तत् ।
पद-पाठः
यत् । पु॒रो॒रुच॒मिति॑ पुरः-रुच॑म् । आ॒ह॒ । यथा॑ । वस्य॑से । आ॒हर॒तीत्या॑-हर॑ति । ता॒दृक् । ए॒व । तत् ।
यत् । ग्रह॑म् । गृ॒ह्णाति॑ । यथा॑ । वस्य॑से । आ॒हृत्येत्या॑-हृत्य॑ । प्रेति॑ । आ॒ह॒ । ता॒दृक् । ए॒व । तत् ।
यत् । सा॒दय॑ति । यथा॑ । वस्य॑से । उ॒प॒नि॒धायेत्यु॑प-नि॒धाय॑ । अ॒प॒क्राम॒तीत्य॑प-क्राम॑ति । ता॒दृक् । ए॒व । तत् ।
भट्टभास्कर-टीका
6यदित्यादि ॥ उपयामात्पूर्वं रोचते इति पुरोरुक् ‘आ वायो भूष’ इत्यादिका । तां यदाह यथा वस्यसे श्रेयसे जनाय आहरति तत्तुल्यं तच्छ्रेयसः कीर्तनार्थत्वात् । तस्माल्लोके हि श्रेयांसं संकीर्त्य अस्मा इत्युद्दिशति । एवमिदं पुरोरुग्वचनं द्रष्टव्यम् । अथ यद्ग्रहस्य ग्रहणं ‘उपयामगृहीतोसि’ इति यथा वस्यसे उपहारादिकमुपनिधाय समीपे स्थापयित्वा स्वयमपक्रामति तत्तुल्यमिदं सादनम् । लोके हि फलादिकं श्रेयसे आहृत्य दर्शयित्वा निधायापक्रामन्तीति ॥
मूलम् (संयुक्तम्)
यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लन्तद्यदृ॒चा तद्दृ॒ढम्पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै॑ ॥ [38]
विश्वास-प्रस्तुतिः
यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ , शिथि॒लन् तत् ।
यदृ॒चा तद् दृ॒ढम् ।
पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै॑ ॥ [38]
मूलम्
यद्वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ , शिथि॒लन् तत् ।
यदृ॒चा तद् दृ॒ढम् ।
पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टादुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै॑ ॥ [38]
पद-पाठः
यत् । वै । य॒ज्ञस्य॑ । साम्ना॑ । यजु॑षा । क्रि॒यते॑ । शि॒थि॒लम् । तत् ।
यत् । ऋ॒चा । तत् । दृ॒ढम् ।
पु॒रस्ता॑दुपयामा॒ इति॑ पु॒रस्ता॑त्-उ॒प॒या॒माः॒ । यजु॑षा । गृ॒ह्य॒न्ते॒ । उ॒परि॑ष्टादुपयामा॒ इत्यु॒परि॑ष्टात्-उ॒प॒या॒माः॒ । ऋ॒चा । य॒ज्ञस्य॑ । धृत्यै॑ ॥ [38]
भट्टभास्कर-टीका
7यद्वा इत्यादि ॥ पुरस्तात्पूर्वत्र ‘उपयामगृहीतोसि’ इत्येतद्येषां ते पुरस्तादुपयामाः ग्रहाः, विपरीताः उपरिष्टादुपयामाः, तत्र ये यजुषा गृह्यन्ते ते पुरस्तादुपयामगृहीतास्स्युः यजुषो दुर्बलत्वात् । यथा - ‘उपयामगृहीतोस्यन्तर्यच्छ मघवन्’ इत्यादयः । अथ ये ऋचा गृह्यन्ते ‘आ वायो भूष’ इत्यादयः ते उपरिष्टादुपयामा गृह्यन्ते, ऋचस्स्वयमेव दृढत्वात् । तदुभयमपि यज्ञस्य धृत्यै दार्ढ्याय भवति ॥
इति षष्ठे पञ्चमे दशमोऽनुवाकः ॥