०९

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्रम॑ह॒न्तस्य॑ शीर्षकपा॒लमुदौ॑ब्ज॒त्स द्रो॑णकल॒शो॑ऽभव॒त्तस्मा॒त्सोम॒स्सम॑स्रव॒त्स हा॑रियोज॒नो॑ऽभव॒त्

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रम॑हन् ।
तस्य॑ शीर्षकपा॒लमुदौ॑ब्जत् ।
स द्रो॑णकल॒शो॑ऽभवत् ।
तस्मा॒त् सोम॒स् सम॑स्रवत् ।
स हा॑रियोज॒नो॑ऽभवत् ।

मूलम्

इन्द्रो॑ वृ॒त्रम॑हन् ।
तस्य॑ शीर्षकपा॒लमुदौ॑ब्जत् ।
स द्रो॑णकल॒शो॑ऽभवत् ।
तस्मा॒त् सोम॒स् सम॑स्रवत् ।
स हा॑रियोज॒नो॑ऽभवत् ।

पद-पाठः

इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न् ।
तस्य॑ । शी॒र्‌ष॒क॒पा॒लमिति॑ शीर्‌ष-क॒पा॒लम् । उदिति॑ । औ॒ब्ज॒त् । सः । द्रो॒ण॒क॒ल॒श इति॑ द्रोण-क॒ल॒शः । अ॒भ॒व॒त् ।
तस्मा॑त् । सोमः॑ । समिति॑ । अ॒स्र॒व॒त् ।
सः । हा॒रि॒यो॒ज॒न इति॑ हारि-यो॒ज॒नः । अ॒भ॒व॒त् ।

भट्टभास्कर-टीका

1इन्द्रो वृत्रमहन्नित्यादि ॥ शीर्षकपालं शिरःकपालमुदौब्जत् उत्तानं व्यवर्तत । तस्माद्द्रोणकलशभूतात् संस्रुतस्सोमो हारियोजनो ग्रहोभवत् । हरयो युज्यन्ते यस्य रथे स हरियोजनः, तद्देवत्यो हारियोजनः ॥

मूलम् (संयुक्तम्)

तव्व्ँय॑चिकित्सज्जु॒हवा॒नी(३) मा हौ॒षा(३) मिति॒ सो॑ऽमन्यत॒ यद्धो॒ष्याम्या॒मँ हो॑ष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञवेश॒सङ्क॑रिष्या॒मीति॒ तम॑ध्रियत॒ होतुँ॒

विश्वास-प्रस्तुतिः

तव्ँ व्य॑चिकित्सत् ।
“जु॒हवा॒नी३ मा हौ॒षा३म्” इति॑ ।
सो॑ऽमन्यत॒ -
“यद्धो॒ष्याम्य् आ॒मँ हो॑ष्यामि॒ ,यन् न हो॒ष्यामि॑ , यज्ञवेश॒सङ्क॑रिष्या॒मि” इति॑ ।
तम॑ध्रियत॒ होतु॑म् ।

मूलम्

तव्ँ व्य॑चिकित्सत् ।
“जु॒हवा॒नी३ मा हौ॒षा३म्” इति॑ ।
सो॑ऽमन्यत॒ -
“यद्धो॒ष्याम्य् आ॒मँ हो॑ष्यामि॒ ,यन् न हो॒ष्यामि॑ , यज्ञवेश॒सङ्क॑रिष्या॒मि” इति॑ ।
तम॑ध्रियत॒ होतु॑म् ।

पद-पाठः

तम् । वीति॑ । अ॒चि॒कि॒त्स॒त् ।
जु॒हवा॒नी(३) । मा । हौ॒षा(३)म् । इति॑ ।
सः । अ॒म॒न्य॒त॒ ।
यत् । हो॒ष्या॒मि॒ । आ॒मम् । हो॒ष्या॒मि॒ । यत् । न । हो॒ष्यामि॑ । य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ-वे॒श॒सम् । क॒रि॒ष्या॒मि॒ । इति॑ ।
तम् । अ॒ध्रि॒य॒त॒ । होतु॑म् ।

भट्टभास्कर-टीका

2तमित्यादि ॥ व्यचिकित्सत् विचारितवान् इमं किं जुहवानि मा हौषमिति । ‘विचार्यमाणानाम्’ इत्युदात्तः प्लुतः । कुतः पुनस्संशय इत्याह - सोमन्यतेत्यादि । यदि होष्यामि आममपक्वं असंस्कृतं हविर्हुतं स्यात् । अथ यदि न होष्यामि यज्ञवेशसं करिष्यामि यज्ञविनाशकारी स्याम् । ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः । यज्ञार्थं गृहीतस्याविनियोगो यज्ञविनाशः । प्रवृत्तयज्ञस्येन्द्रस्य हारियोजनार्थिनो हतवृत्रशिरसः स्रुतस्सोमो हारियोजनात्मा समवस्थित इति कृत्वा अथ तं सोमं होतुमेवाध्रियत अवातिष्ठत होष्याम्येवेति कृतावधारणोभवत् । धृङ् अवस्थाने, तौदादिकः, ‘रिङ्शयग्लिङ्क्षु’ ॥

मूलम् (संयुक्तम्)

सो॒॑ऽग्निर॑ब्रवी॒न्न मय्या॒मँ हो॑ष्य॒सीति॒ तन्धा॒नाभि॑रश्रीणात् [32]
तँ शृ॒तम्भू॒तम॑जुहो॒द्यद्धा॒नाभि॑र्हारियोज॒नँ श्री॒णाति॑ शृत॒त्वाय॑ शृ॒तमे॒वैन॑म्भू॒तञ्जु॑होति

विश्वास-प्रस्तुतिः

सो॒॑ऽग्निर॑ब्रवी॒न् -
“न मय्या॒मँ हो॑ष्यसि”+ इति॑ ।
तन्धा॒नाभि॑रश्रीणात् । [32]
तँ शृ॒तम् भू॒तम॑जुहोत् ।
यद्धा॒नाभि॑र्हारियोज॒नँ श्री॒णाति॑ , शृत॒त्वाय॑ ।
शृ॒तमे॒वैन॑म् भू॒तञ् जु॑होति ।

मूलम्

सो॒॑ऽग्निर॑ब्रवी॒न् -
“न मय्या॒मँ हो॑ष्यसि”+ इति॑ ।
तन्धा॒नाभि॑रश्रीणात् । [32]
तँ शृ॒तम् भू॒तम॑जुहोत् ।
यद्धा॒नाभि॑र्हारियोज॒नँ श्री॒णाति॑ , शृत॒त्वाय॑ ।
शृ॒तमे॒वैन॑म् भू॒तञ् जु॑होति ।

पद-पाठः

सः । अ॒ग्निः । अ॒ब्र॒वी॒त् ।
न । मयि॑ । आ॒मम् । हो॒ष्य॒सि॒ । इति॑ ।
तम् । धा॒नाभिः॑ । अ॒श्री॒णा॒त् । [32]
तम् । शृ॒तम् । भू॒तम् । अ॒जु॒हो॒त् ।
यत् । धा॒नाभिः॑ । हा॒रि॒यो॒ज॒नमिति॑ हारि-यो॒ज॒नम् । श्री॒णाति॑ । शृ॒त॒त्वायेति॑ शृत-त्वाय॑ । शृ॒तम् । ए॒व । ए॒न॒म् । भू॒तम् । जु॒हो॒ति॒ ।

भट्टभास्कर-टीका

3अथ सोग्निरब्रवीत् - मा मय्यामं अपक्वं हौषीरिति । अथ तं ग्रहं धानाभिरश्रीणात् पक्वमकरोत् । अथ तं शृतं भूतं पक्षं संजातं अजुहोत् । यदित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

ब॒ह्वीभि॑श्श्रीणात्ये॒ताव॑तीरे॒वास्या॒मुष्मिल्ँ॑ लो॒के का॑म॒दुघा॑ भव॒न्त्यथो॒ खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्न॑यᳵ काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒ तस्मा॑द्ब॒ह्वीभि॑श्श्रीणीयाद

विश्वास-प्रस्तुतिः

ब॒ह्वीभि॑श्श्रीणाति ।
ए॒ताव॑तीरे॒वास्या॒मुष्मिल्ँ॑ लो॒के का॑म॒दुघा॑ भव॒न्ति ।
अथो॒ खल्वा॑हुर् -
“ए॒ता वा इन्द्र॑स्य॒ पृश्न॑यᳵ काम॒दुघा॒ यद्धा॑रियोज॒नीः” इति॑ ।
तस्मा॑द् ब॒ह्वीभि॑श् श्रीणीयात् ।

मूलम्

ब॒ह्वीभि॑श्श्रीणाति ।
ए॒ताव॑तीरे॒वास्या॒मुष्मिल्ँ॑ लो॒के का॑म॒दुघा॑ भव॒न्ति ।
अथो॒ खल्वा॑हुर् -
“ए॒ता वा इन्द्र॑स्य॒ पृश्न॑यᳵ काम॒दुघा॒ यद्धा॑रियोज॒नीः” इति॑ ।
तस्मा॑द् ब॒ह्वीभि॑श् श्रीणीयात् ।

पद-पाठः

ब॒ह्वीभिः॑ । श्री॒णा॒ति॒ ।
ए॒ताव॑तीः । ए॒व । अ॒स्य॒ । अ॒मुष्मि॑न् । लो॒के । का॒म॒दुघा॒ इति॑ काम-दुघाः॑ । भ॒व॒न्ति॒ ।
अथो॒ इति॑ । खलु॑ । आ॒हुः॒ ।
ए॒ताः । वै । इन्द्र॑स्य । पृश्ञ॑यः । का॒म॒दुघा॒ इति॑ काम-दुघाः॑ । यत् । हा॒रि॒यो॒ज॒नीरिति॑ हारि-यो॒ज॒नीः । इति॑ ।
तस्मा॑त् । ब॒ह्वीभिः॑ । श्री॒णी॒या॒त् ।

भट्टभास्कर-टीका

4बह्वीभिरित्यादि ॥ ‘बह्वादिभ्यश्च’ ‘नित्यं छन्दसि’ इति ङीष् । बह्वीभिर्धानाभिः श्रयणादेतावत्यः बह्व्यः पृश्नयः अस्य अमुष्मिन् भोगभूमौ कामदुघा भवन्ति । ‘दुहः कब्धश्च’ इति कप् । अथो इत्यादि । गतम् । हारियोजनसंबन्धिन्यो धाना हारियोजन्यः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् ॥

मूलम् (संयुक्तम्)

ऋक्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः॑ परि॒धय॑ आ॒धानय्ँ॒यदप्र॑हृत्य परि॒धीञ्जु॑हु॒याद॒न्तरा॑धानाभ्याम् [33]
घा॒सम्प्र य॑च्छेत्प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सम्प्र य॑च्छत्य्

विश्वास-प्रस्तुतिः

ऋ॒क्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॑ ।
तयोः॑ परि॒धय॑ आ॒धान॑म् ।
यदप्र॑हृत्य परि॒धीञ् जु॑हु॒याद् , अ॒न्तरा॑धानाभ्याङ् घा॒सम् प्र य॑च्छेत् ।[33]
प्र॒हृत्य॑ परि॒धीञ् जु॑होति॒ , निरा॑धानाभ्यामे॒व घा॒सम् प्र य॑च्छति ।

मूलम्

ऋ॒क्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॑ ।
तयोः॑ परि॒धय॑ आ॒धान॑म् ।
यदप्र॑हृत्य परि॒धीञ् जु॑हु॒याद् , अ॒न्तरा॑धानाभ्याङ् घा॒सम् प्र य॑च्छेत् ।[33]
प्र॒हृत्य॑ परि॒धीञ् जु॑होति॒ , निरा॑धानाभ्यामे॒व घा॒सम् प्र य॑च्छति ।

पद-पाठः

ऋ॒क्सा॒मे इत्यृ॑क्-सा॒मे । वै । इन्द्र॑स्य । हरी॒ इति॑ । सो॒म॒पाना॒विति॑ सोम-पानौ॑ ।
तयोः॑ । प॒रि॒धय॒ इति॑ परि-धयः॑ । आ॒धान॒मित्या॑-धान॑म् ।
यत् । अप्र॑हृ॒त्येत्यप्र॑-हृ॒त्य॒ । प॒रि॒धीनिति॑ परि-धीन् । जु॒हु॒यात् । अ॒न्तरा॑धानाभ्या॒मित्य॒न्तः-आ॒धा॒ना॒भ्या॒म् । [33] घा॒सम् । प्रेति॑ । य॒च्छे॒त् ।
प्र॒हृत्येति॑ प्र-हृत्य॑ । प॒रि॒धीनिति॑ परि-धीन् । जु॒हो॒ति॒ । निरा॑धानाभ्या॒मिति॒ निः-आ॒धा॒ना॒भ्या॒म् । ए॒व । घा॒सम् । प्रेति॑ । य॒च्छ॒ति॒ ।

भट्टभास्कर-टीका

5ऋक्सामे वा इत्यादि ॥ ऋक्सामे वा इन्द्रस्याश्वौ सोमपानौ सोमस्य पाता याभ्यामिन्द्रः । करणे ल्युट् । तयोः हर्योः परिधयः आधानं आधानस्थानीया अस्य गतखलीनकल्पाः । तस्माद्यदि परिधीत् अप्रहृत्य हारियोजनं जुहुयात् अथान्तराधानाभ्यां आस्यान्तर्गताधानाभ्यां घासप्रदानतुल्यं स्यात् । अदनीयस्तृणादिर्घासः । प्रहृत्येत्यादि । परिधीन् प्रहृत्य हारियोजनहोमः निर्गताधानाभ्यां घासप्रदानसमं भवति ॥

मूलम् (संयुक्तम्)

उन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तर्ह्य॑ध्व॒र्युस्स्व॒गाकृ॑तो॒ यद॑ध्व॒र्युर्जु॑हु॒याद्यथा॒ विमु॑क्त॒म्पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तच्छी॒र्षन्न॑धिनि॒धाय॑ जुहोति शीर्ष॒तो हि स स॒मभ॑वद्वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्त्समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

उ॒न्ने॒ता जु॑होति ।
या॒तया॑मेव॒ ह्ये॑तर्ह्य॑ध्व॒र्युस् स्व॒गाकृ॑तः ।
यद॑ध्व॒र्युर्जु॑हु॒याद् , यथा॒ विमु॑क्त॒म् पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तत् ।
शी॒र्ष॒न्न॑धिनि॒धाय॑ जुहोति ।
शी॒र्ष॒तो हि स स॒मभ॑वत् ।
वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॑न् । समृ॑द्ध्यै ।

मूलम्

उ॒न्ने॒ता जु॑होति ।
या॒तया॑मेव॒ ह्ये॑तर्ह्य॑ध्व॒र्युस् स्व॒गाकृ॑तः ।
यद॑ध्व॒र्युर्जु॑हु॒याद् , यथा॒ विमु॑क्त॒म् पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तत् ।
शी॒र्ष॒न्न॑धिनि॒धाय॑ जुहोति ।
शी॒र्ष॒तो हि स स॒मभ॑वत् ।
वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॑न् । समृ॑द्ध्यै ।

पद-पाठः

उ॒न्ने॒तेत्यु॑त्-ने॒ता । जु॒हो॒ति॒ ।
या॒तया॒मेति॑ या॒त-या॒मा॒ । इ॒व॒ । हि । ए॒तर्‌हि॑ । अ॒ध्व॒र्युः । स्व॒गाकृ॑त॒ इति॑ स्व॒गा-कृ॒तः॒ ।
यत् । अ॒ध्व॒र्युः । जु॒हु॒यात् । यथा॑ । विमु॑क्त॒मिति॒ वि-मु॒क्त॒म् । पुनः॑ । यु॒नक्ति॑ । ता॒दृक् । ए॒व । तत् ।
शी॒र्‌षन् । अ॒धि॒नि॒धायेत्य॑धि-नि॒धाय॑ । जु॒हो॒ति॒ ।
शी॒र्‌ष॒तः । हि । सः । स॒मभ॑व॒दिति॑ सम्-अभ॑वत् ।
वि॒क्रम्येति॑ वि-क्रम्य॑ । जु॒हो॒ति॒ । वि॒क्रम्येति॑ वि-क्रम्य॑ । हि । इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न् ।
समृ॑द्ध्या॒ इति॒ सम्-ऋ॒द्ध्यै॒ ।

भट्टभास्कर-टीका

6उन्नेतेति ॥ गतसार इवाध्वर्युरस्मिन् काले स्वगाकृतत्वात् अनुज्ञातस्वैरगतित्वात् । तस्माद्यदध्वर्युर्जुहुयात् विमुक्तस्य पुनर्योगसम तत्स्यात् । शीर्षन्नित्यादि । गतम् । वृत्रस्य शिरसः हारियोजनस्संभूतः । ‘हि च’ इति निघाताभावः । विक्रम्येति । अवष्टभ्यैव जुहोति, विक्रम्य खल्विन्द्रः वृत्रं हतवान् तस्मात्समृद्धचै भवति । पूर्ववन्निघाताभावः ॥

मूलम् (संयुक्तम्)

प॒शवो॒ वै हा॑रियोज॒नीर्यत्स॑म्भि॒न्द्यादल्पाः॑ [34]
ए॒न॒म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेर॒न्यन्न स॑म्भि॒न्द्याद्ब॒हव॑ एनम्प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न्मन॑सा॒ सम्बा॑धत उ॒भय॑ङ्करोति ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒तर्यु॑पह॒वमि॑च्छन्ते॒ य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुन्धत उत्तरवे॒द्यान्नि व॑पति प॒शवो॒ वा उ॑त्तरवे॒दिᳶ प॒शवो॑ हारियोज॒नीᳶ प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ॥ [35]

विश्वास-प्रस्तुतिः

प॒शवो॒ वै हा॑रियोज॒नीः ।
यत्स॑म्भि॒न्द्यादल्पाः॑ । [34]
ए॒न॒म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेरन् ।
यन्न स॑म्भि॒न्द्याद् ब॒हव॑ एनम् प॒शवो ऽभु॑ञ्जन्त॒ उप॑ तिष्ठेरन् ।
मन॑सा॒ सम्बा॑धते ।
उ॒भय॑ङ्करोति ।
ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्ते ।
उ॒न्ने॒तुर्यु॑पह॒वमि॑च्छन्ते ।
य ए॒व तत्र॑ सोमपी॒थस् तमे॒वाव॑ रुन्धते ।
उ॒त्त॒र॒वे॒द्यान्नि व॑पति ।
प॒शवो॒ वा उ॑त्तरवे॒दिः ।
प॒शवो॑ हारियोज॒नीः ।
प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ॥ [35]

मूलम्

प॒शवो॒ वै हा॑रियोज॒नीः ।
यत्स॑म्भि॒न्द्यादल्पाः॑ । [34]
ए॒न॒म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठेरन् ।
यन्न स॑म्भि॒न्द्याद् ब॒हव॑ एनम् प॒शवो ऽभु॑ञ्जन्त॒ उप॑ तिष्ठेरन् ।
मन॑सा॒ सम्बा॑धते ।
उ॒भय॑ङ्करोति ।
ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्ते ।
उ॒न्ने॒तुर्यु॑पह॒वमि॑च्छन्ते ।
य ए॒व तत्र॑ सोमपी॒थस् तमे॒वाव॑ रुन्धते ।
उ॒त्त॒र॒वे॒द्यान्नि व॑पति ।
प॒शवो॒ वा उ॑त्तरवे॒दिः ।
प॒शवो॑ हारियोज॒नीः ।
प॒शुष्वे॒व प॒शून्प्रति॑ ष्ठापयन्ति ॥ [35]

पद-पाठः

प॒शवः॑ । वै । हा॒रि॒यो॒ज॒नीरिति॑ हारि-यो॒ज॒नीः ।
यत् । स॒म्भि॒न्द्यादिति॑ सम्-भि॒न्द्यात् । अल्पाः॑ । [34]
ए॒न॒म् । प॒शवः॑ । भु॒ञ्जन्तः॑ । उपेति॑ । ति॒ष्ठे॒र॒न् ।
यत् । न । स॒म्भि॒न्द्यादिति॑ सम्-भि॒न्द्यात् । ब॒हवः॑ । ए॒न॒म् । प॒शवः॑ । अभु॑ञ्जन्तः । उपेति॑ । ति॒ष्ठे॒र॒न् । मन॑सा । समिति॑ । बा॒ध॒ते॒ ।
उ॒भय॑म् । क॒रो॒ति॒ ।
ब॒हवः॑ । ए॒व । ए॒न॒म् । प॒शवः॑ । भु॒ञ्जन्तः॑ । उपेति॑ । ति॒ष्ठ॒न्ते॒ ।
उ॒न्ने॒तरीत्यु॑त्-ने॒तरि॑ । उ॒प॒ह॒वमित्यु॑प-ह॒वम् । इ॒च्छ॒न्ते॒ ।
यः । ए॒व । तत्र॑ । सो॒म॒पी॒थ इति॑ सोम-पी॒थः । तम् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ ।
उ॒त्त॒र॒वे॒द्यामित्यु॑त्तर-वे॒द्याम् । नीति॑ । व॒प॒ति॒ ।
प॒शवः॑ । वै । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर-वे॒दिः ।
प॒शवः॑ । हा॒रि॒यो॒ज॒नीरिति॑ हारि-यो॒ज॒नीः ।
प॒शुषु॑ । ए॒व । प॒शून् । प्रतीति॑ । स्था॒प॒य॒न्ति॒ ॥ [35]

भट्टभास्कर-टीका

7पशवो वा इत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् । ताः धाना भक्षणकाले यदि संभिन्द्यात् दन्तैः स्पृशेत् कुट्टयेद्वा अल्पाः पशवः क्षीरादिना एनं भुञ्जन्तः पालयन्तः उपतिष्ठेरन् संगच्छेयुः । संगतिकरण आत्मनेपदम् । असंभेदने बहवः पशवः अभुञ्जन्तः क्षीरादिशून्या उपतिष्ठेरन् । मनसेत्यादि । संबाधते संपीडयति । तथा कुर्वन् उभयं करोति संभेदनमसंभेदनं च । ततश्च बहवः पशव एनं भुञ्जन्त एवोपतिष्ठन्ते । उन्नेतरीत्यादि । उपहवोनुज्ञा । गतमन्यत् ॥

इति षष्ठे पञ्चमे नवमोवाकः ॥