मूलम् (संयुक्तम्)
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुर्यदु॑पाँशुपा॒त्रेण॑ प्रथ॒मश्चो॑त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते॑ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णᳶ प्रा॒ण उ॑पाँ॒शुᳶ पत्नीः॑ प्र॒जाᳶ प्र ज॑नयन्ति॒ यदु॑पाँशुपा॒त्रेण॑ पात्नीव॒तमा॑ग्रय॒णाद्गृ॒ह्णाति॑ प्र॒जाना॑म्प्र॒जन॑नाय॒ तस्मा॑त्प्रा॒णम्प्र॒जा अनु॒ प्र जा॑यन्ते
विश्वास-प्रस्तुतिः
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुः ।
यदु॑पाँशुपा॒त्रेण॑ प्रथ॒मश्चो॑त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते॑ ।
प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ , प्रा॒णमनूद्य॑न्ति ।
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णᳶ प्रा॒ण उ॑पाँ॒शुᳶ पत्नीः॑ प्र॒जाᳶ प्र ज॑नयन्ति ।
यदु॑पाँशुपा॒त्रेण॑ पात्नीव॒तमा॑ग्रय॒णाद्गृ॒ह्णाति॑ ,
प्र॒जाना॑म् प्र॒जन॑नाय ।
तस्मा॑त् प्रा॒णम् प्र॒जा अनु॒ प्र जा॑यन्ते ।
मूलम्
प्रा॒णो वा ए॒ष यदु॑पाँ॒शुः ।
यदु॑पाँशुपा॒त्रेण॑ प्रथ॒मश्चो॑त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते॑ ।
प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ , प्रा॒णमनूद्य॑न्ति ।
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णᳶ प्रा॒ण उ॑पाँ॒शुᳶ पत्नीः॑ प्र॒जाᳶ प्र ज॑नयन्ति ।
यदु॑पाँशुपा॒त्रेण॑ पात्नीव॒तमा॑ग्रय॒णाद्गृ॒ह्णाति॑ ,
प्र॒जाना॑म् प्र॒जन॑नाय ।
तस्मा॑त् प्रा॒णम् प्र॒जा अनु॒ प्र जा॑यन्ते ।
पद-पाठः
प्रा॒ण इति॑ प्र-अ॒नः । वै । ए॒षः । यत् । उ॒पाँ॒शुरित्यु॑प-अँ॒शुः ।
यत् । उ॒पाँ॒शु॒पा॒त्रेणेत्यु॑पाँशु-पा॒त्रेण॑ । प्र॒थ॒मः । च॒ । उ॒त्त॒म इत्यु॑त्-त॒मः । च॒ । ग्रहौ॑ । गृ॒ह्येते॒ इति॑ ।
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अन्विति॑ । प्र॒यन्तीति॑ प्र-यन्ति॑ । प्रा॒णमिति॑ प्र-अ॒नम् । अनु॑ । उदिति॑ । य॒न्ति॒ ।
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । प्रा॒ण इति॑ प्र-अ॒नः । उ॒पाँ॒शुरित्यु॑प-अँ॒शुः । पत्नीः॑ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒न्ति॒ ।
यत् । उ॒पाँ॒शु॒पा॒त्रेणेत्यु॑पाँशु-पा॒त्रेण॑ । पा॒त्नी॒व॒तमिति॑ पात्नी-व॒तम् । आ॒ग्र॒य॒णात् । गृ॒ह्णाति॑ । प्र॒जाना॒मिति॑ प्र-जाना॑म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय ।
तस्मा॑त् । प्रा॒णमिति॑ प्र-अ॒नम् । प्र॒जा इति॑ प्र-जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ ।
भट्टभास्कर-टीका
1प्राणो वा एष इत्यादि ॥ प्राणापानाभ्यामेवोपांश्वन्तर्यामावित्युक्तत्वात् । प्रथमः उपांशुरुत्तमः पात्नीवतः । अग्निष्टोमं प्रकृत्योच्यते । प्राणमेवेत्यादि । प्राणमनु प्राणेन सह प्रयन्ति प्रारभन्ते, प्राणेन सहोद्यन्ति समापयन्ति । ‘तृतीयार्थे’ इत्यनोः कर्मप्रवचनीयत्वम् । प्रजापतिर्वा इत्यादि । गतम् । तस्मादिति । प्राणमनु प्राणेन सहैव प्रजा जायन्ते ॥
मूलम् (संयुक्तम्)
दे॒वा वा इ॒तइ॑त॒ᳶ पत्नीः॑ सुव॒र्गम् [26]
लो॒कम॑जिगाँस॒न्ते सु॑व॒र्गल्ँ लो॒कन्न प्राजा॑न॒न्त ए॒तम्पा॑त्नीव॒तम॑पश्य॒न्तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम्प्राजा॑न॒न्यत्पा॑त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै॒
विश्वास-प्रस्तुतिः
दे॒वा वा इ॒तइ॑त॒ᳶ पत्नीः॑ सुव॒र्गल्ँ लो॒कम॑जिगाँसन् ।[26]
ते सु॑व॒र्गल्ँ लो॒कन् न प्राजा॑नन् ।
त ए॒तम् पा॑त्नीव॒तम॑पश्यन् ।
तम॑गृह्णत ।
ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम् प्राजा॑नन् ।
यत् पा॑त्नीव॒तो गृ॒ह्यते॑ , सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
मूलम्
दे॒वा वा इ॒तइ॑त॒ᳶ पत्नीः॑ सुव॒र्गल्ँ लो॒कम॑जिगाँसन् ।[26]
ते सु॑व॒र्गल्ँ लो॒कन् न प्राजा॑नन् ।
त ए॒तम् पा॑त्नीव॒तम॑पश्यन् ।
तम॑गृह्णत ।
ततो॒ वै ते सु॑व॒र्गल्ँ लो॒कम् प्राजा॑नन् ।
यत् पा॑त्नीव॒तो गृ॒ह्यते॑ , सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा॑त्यै ।
पद-पाठः
दे॒वाः । वै । इ॒तइ॑त॒ इती॒तः-इ॒तः॒ । पत्नीः॑ । सु॒व॒र्गमिति॑ सुवः-गम् । [26] लो॒कम् । अ॒जि॒गाँ॒स॒न् ।
ते । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । न । प्रेति॑ । अ॒जा॒न॒न् ।
ते । ए॒तम् । पा॒त्नी॒व॒तमिति॑ पात्नी-व॒तम् । अ॒प॒श्य॒न् ।
तम् । अ॒गृ॒ह्ण॒त॒ ।
ततः॑ । वै । ते । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । प्रेति॑ । अ॒जा॒न॒न् ।
यत् । पा॒त्नी॒व॒त इति॑ पात्नी-व॒तः । गृ॒ह्यते॑ । सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । प्रज्ञा॑त्या॒ इति॒ प्र-ज्ञा॒त्यै॒ ।
भट्टभास्कर-टीका
2देवा वा इत्यादि ॥ इतइतः स्थापयित्वा पत्नीस्ता अनादृत्य स्वर्गं गन्तुमैच्छन्, सामर्थ्यलभ्यार्थात् । यद्वा - वर्जयित्वेत्यस्यार्थे इतइत इति वर्तते । गमेस्सनि ‘अज्झनगमां सनि’ इति दीर्घत्वम्, छान्दस इडभावः । ते स्वर्गं न प्राजानन् न प्रज्ञातवन्तः ।
त एतमित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तङ्घृ॒तव्ँवज्र॑ङ्कृ॒त्वाघ्न॒न्तन्निरि॑न्द्रियम्भू॒तम॑गृह्ण॒न्तस्मा॒त्स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात्पुँ॒स उप॑स्तितरम् [27]
व॒द॒न्ति॒ यद्घृ॒तेन॑ पात्नीव॒तँ श्री॒णाति॒ वज्रे॑णै॒वैनव्ँ॒वशे॑ कृ॒त्वा गृ॑ह्णात्युपया॒मगृ॑हीतो॒ऽसीत्या॑ह
विश्वास-प्रस्तुतिः
स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑णः ।
तङ्घृ॒तव्ँ वज्र॑ङ् कृ॒त्वाऽघ्नन् ।
तन्निरि॑न्द्रियम्भू॒तम॑गृह्णन् ।
तस्मा॒त् स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात् पुँ॒स उप॑स्तितरव्ँ वदन्ति । [27]
यद्घृ॒तेन॑ पात्नीव॒तँ श्री॒णाति॒ , वज्रे॑णै॒वैनव्ँ॒ वशे॑ कृ॒त्वा गृ॑ह्णाति ।
उ॒प॒या॒म गृ॑हीतो॒ऽसीत्या॑ह ।
पद-पाठः
सः । सोमः॑ । न । अ॒ति॒ष्ठ॒त॒ । स्त्री॒भ्यः । गृ॒ह्यमा॑णः ।
तम् । घृ॒तम् । वज्र॑म् । कृ॒त्वा । अघ्न॑न् ।
तम् । निरि॑न्द्रिय॒मिति॒ निः-इ॒न्द्रि॒य॒म् । भू॒तम् । अ॒गृ॒ह्ण॒न् ।
तस्मा॑त् । स्त्रियः॑ । निरि॑न्द्रिया॒ इति॒ निः-इ॒न्द्रि॒याः॒ । अदा॑यादी॒रित्यदा॑य-अ॒दीः॒ । अपीति॑ । पा॒पात् । पुँ॒सः । उप॑स्तितर॒मित्युप॑स्ति-त॒र॒म् । [27]
व॒द॒न्ति॒ ।
यत् । घृ॒तेन॑ । पा॒त्नी॒व॒तमिति॑ पात्नी-व॒तम् । श्री॒णाति॑ । वज्रे॑ण । ए॒व । ए॒न॒म् । वशे॑ । कृ॒त्वा । गृ॒ह्णा॒ति॒ ।
उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ ।
मूलम्
स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑णः ।
तङ्घृ॒तव्ँ वज्र॑ङ् कृ॒त्वाऽघ्नन् ।
तन्निरि॑न्द्रियम्भू॒तम॑गृह्णन् ।
तस्मा॒त् स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात् पुँ॒स उप॑स्तितरव्ँ वदन्ति । [27]
यद्घृ॒तेन॑ पात्नीव॒तँ श्री॒णाति॒ , वज्रे॑णै॒वैनव्ँ॒ वशे॑ कृ॒त्वा गृ॑ह्णाति ।
उ॒प॒या॒म गृ॑हीतो॒ऽसीत्या॑ह ।
भट्टभास्कर-टीका
3स सोम इत्यादि ॥ स स्त्रीभ्यो गृह्यमाणस्सोमः नातिष्ठत नात्मानं प्रकाशितवान् स्त्रीभ्यो ग्रहणमसहमानः । प्रकाशने आत्मनेपदम् । घृतं वज्रं कृत्वा तेन तमघ्नन् । ततस्तेन घृतवधेन निरिन्द्रियं गतसारं भूतं संजातमगृह्णन् ग्रहत्वेन संपादितवन्तः पत्नीभ्यः । तस्मात् स्त्रियो निरिन्द्रियाः निरिन्द्रियसोमसंबन्धात् अदायादो अदायाद्यः अदायभुजः । निरिन्द्रियत्वादेव पापात्पतितादेः पुंसोपि उपस्तितरं वदन्ति निरिन्द्रियं सोमम् । तस्मात्तादृशसोमसंबन्धात् स्त्रियो दायभाजो न भवन्ति । उप भवति गुणभावेन वर्तते इति उपस्तिः, उपपूर्वादस्तेः ‘क्तिच्क्तौ च’ इति क्तिच्, ‘छन्दस्युभयथा’ इति तस्य सार्वधातुकत्वाद्भूभावाभावः, अल्लोपश्च । यद्घृतेनेत्यादि । गतम् ।
मूलम् (संयुक्तम्)
इ॒यव्ँवा उ॑पया॒मस्तस्मा॑दि॒माम्प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒ रेत॑ ए॒व तद्द॑धातीन्द्रियाव॒ इति॑ [28]
आ॒ह॒ प्र॒जा वा इ॑न्द्रि॒यम्प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना(३) इत्या॑हा॒ग्निर्वै रे॑तो॒धाᳶ पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोम॑म्पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानाँ॑ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति
विश्वास-प्रस्तुतिः
इ॒यव्ँ वा उ॑पया॒मः ।
तस्मा॑दि॒माम् प्र॒जा अनु॒ प्र जा॑यन्ते ।
बृ॒ह॒स्पति॑सुतस्य त॒ इत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
इ॒न्दो॒ इत्या॑ह ।
रेतो॒ वा इन्दुः॑ । रेत॑ ए॒व तद् द॑धाति ।
इ॒न्द्रि॒या॒व॒ इत्या॑ह । [28]
प्र॒जा वा इ॑न्द्रि॒यम् , प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒ति ।
अग्ना(३) इत्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः ।
पत्नी॑व॒ इत्या॑ह । मि॒थु॒न॒त्वाय॑ ।
स॒जूर्दे॒वेन॒ “त्वष्ट्रा॒ सोम॑म् पि॒ब”+ इत्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।
मूलम्
इ॒यव्ँ वा उ॑पया॒मः ।
तस्मा॑दि॒माम् प्र॒जा अनु॒ प्र जा॑यन्ते ।
बृ॒ह॒स्पति॑सुतस्य त॒ इत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒वास्मै॑ प्र॒जाᳶ प्र ज॑नयति ।
इ॒न्दो॒ इत्या॑ह ।
रेतो॒ वा इन्दुः॑ । रेत॑ ए॒व तद् द॑धाति ।
इ॒न्द्रि॒या॒व॒ इत्या॑ह । [28]
प्र॒जा वा इ॑न्द्रि॒यम् , प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒ति ।
अग्ना(३) इत्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः ।
पत्नी॑व॒ इत्या॑ह । मि॒थु॒न॒त्वाय॑ ।
स॒जूर्दे॒वेन॒ “त्वष्ट्रा॒ सोम॑म् पि॒ब”+ इत्या॑ह ।
त्वष्टा॒ वै प॑शू॒नाम् मि॑थु॒नानाँ॑ रूप॒कृत् ।
रू॒पमे॒व प॒शुषु॑ दधाति ।
पद-पाठः
इ॒यम् । वै । उ॒प॒या॒म इत्यु॑प-या॒मः ।
तस्मा॑त् । इ॒माम् । प्र॒जा इति॑ प्र-जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ ।
बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑-सु॒त॒स्य॒ । ते॒ । इति॑ । आ॒ह॒ ।
ब्रह्म॑ । वै । दे॒वाना॑म् । बृह॒स्पतिः॑ ।
ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । ज॒न॒य॒ति॒ ।
इ॒न्दो॒ इति॑ । इति॑ । आ॒ह॒ ।
रेतः॑ । वै । इन्दुः॑ ।
रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ ।
इ॒न्द्रि॒या॒व॒ इती॑न्द्रिय-वः॒ । इति॑ । [28] आ॒ह॒ ।
प्र॒जा इति॑ प्र-जाः । वै । इ॒न्द्रि॒यम् ।
प्र॒जा इति॑ प्र-जाः । ए॒व । अ॒स्मै॒ । प्रेति॑ । ज॒न॒य॒ति॒ ।
अग्ना(३) । इति॑ । आ॒ह॒ ।
अ॒ग्निः । वै । रे॒तो॒धा इति॑ रेतः-धाः ।
पत्नी॑व॒ इति॒ पत्नी॑-वः॒ । इति॑ । आ॒ह॒ ।
मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ ।
स॒जूरिति॑ स-जूः । दे॒वेन॑ । त्वष्ट्रा॑ । सोम॑म् । पि॒ब॒ । इति॑ । आ॒ह॒ ।
त्वष्टा॑ । वै । प॒शू॒नाम् । मि॒थु॒नाना॑म् । रू॒प॒कृदिति॑ रूप-कृत् ।
रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
4इयं वा इति ॥ पृथिव्यात्मकेनोपयामेन प्रजात्मकस्य पात्नीवतस्य ग्रहणादिमां पृथिवीमनु प्रजाः प्रजायन्ते । बृहस्पतिसुतस्येत्यादि । ग्रहणमन्त्रस्य व्याख्या । पत्नीव इति । प्रथमेनामन्त्रितेन दूराद्धूतत्वस्य गतत्वात् इदमप्लुतमेवोपादीयते ॥
मूलम् (संयुक्तम्)
दे॒वा वै त्वष्टा॑रमजिघाँस॒न्त्स पत्नी॒ᳶ प्राप॑द्यत॒ तन्न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॑ [29]
वध्य॒म्प्रप॑न्न॒न्न प्रति॒ प्र य॑च्छन्ति॒ तस्मा॑त्पात्नीव॒ते त्वष्ट्रेऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒द्यन्नानु॑वषट्कु॒र्याद्
विश्वास-प्रस्तुतिः
दे॒वा वै त्वष्टा॑रमजिघाँसन् ।
स पत्नी॒ᳶ प्राप॑द्यत ।
तन्न प्रति॒ प्राय॑च्छन् ।
तस्मा॒दपि॒ वध्य॒म् प्रप॑न्न॒न् न प्रति॒ प्र य॑च्छन्ति । [29]
तस्मा॑त्पात्नीव॒ते त्वष्ट्रेऽपि॑ गृह्यते ।
न सा॑दयति ।
अस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
नानु॒ वष॑ट्करोति ।
यद॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् ।
यन् नानु॑वषट्कु॒र्यात् ।
रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेत् । यन्नानु॑वषट्कु॒र्यात् ।
मूलम्
दे॒वा वै त्वष्टा॑रमजिघाँसन् ।
स पत्नी॒ᳶ प्राप॑द्यत ।
तन्न प्रति॒ प्राय॑च्छन् ।
तस्मा॒दपि॒ वध्य॒म् प्रप॑न्न॒न् न प्रति॒ प्र य॑च्छन्ति । [29]
तस्मा॑त्पात्नीव॒ते त्वष्ट्रेऽपि॑ गृह्यते ।
न सा॑दयति ।
अस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
नानु॒ वष॑ट्करोति ।
यद॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् ।
यन् नानु॑वषट्कु॒र्यात् ।
रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेत् । यन्नानु॑वषट्कु॒र्यात् ।
पद-पाठः
दे॒वाः । वै । त्वष्टा॑रम् । अ॒जि॒घाँ॒स॒न् ।
सः । पत्नीः॑ । प्रेति॑ । अ॒प॒द्य॒त॒ ।
तम् । न । प्रति॑ । प्रेति॑ । अ॒य॒च्छ॒न् ।
तस्मा॑त् । अपीति॑ । [29]
वध्य॑म् । प्रप॑न्न॒मिति॒ प्र-प॒न्न॒म् । न । प्रति॑ । प्रेति॑ । य॒च्छ॒न्ति॒ ।
तस्मा॑त् । पा॒त्नी॒व॒त इति॑ पात्नी-व॒ते । त्वष्ट्रे॑ । अपीति॑ । गृ॒ह्य॒ते॒ ।
न । सा॒द॒य॒ति॒ ।
अस॑न्नात् । हि । प्र॒जा इति॑ प्र-जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते ।
न । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ ।
यत् । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु-व॒ष॒ट्कु॒र्यात् ।
रु॒द्रम् । प्र॒जा इति॑ प्र-जाः । अ॒न्वव॑सृजे॒दित्य॑नु-अव॑सृजेत् ।
यत् । न । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु-व॒ष॒ट्कु॒र्यात् ।
भट्टभास्कर-टीका
5देवा वा इत्यादि ॥ त्वष्टारं हन्तुमैच्छन् देवाः । स च त्वष्टा पत्नीः प्रापद्यत शराणं गतः । तमित्यादि । व्याख्यातप्रायम् । तस्मात्पात्नीवते त्वष्ट्रेऽपिगृह्यते ‘त्वष्ट्रा सोमं पिब’ इति मन्त्रलिङ्गात् । न सादयतीत्यादि । गतम्11 ॥
मूलम् (संयुक्तम्)
अशा॑न्तम॒ग्नीत्सोम॑म्भक्षयेदुपाँ॒श्वनु॒ वष॑ट्करोति॒ न रु॒द्रम्प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीत्सोम॑म्भक्षय॒त्यग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द [30]
नेष्ट॒ᳶ पत्नी॑मु॒दान॒येत्या॑ह
विश्वास-प्रस्तुतिः
अशा॑न्तम॒ग्नीत्सोम॑म्भक्षयेत् ।
उ॒पाँ॒श्वनु॒ वष॑ट्करोति ।
न रु॒द्रम् प्र॒जा अ॑न्ववसृ॒जति॑ , शा॒न्तम॒ग्नीत् , सोम॑म् भक्षयति ।
अग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द । [30]
“नेष्ट॒ᳶ पत्नी॑मु॒दान॑य”+ इत्या॑ह ।
मूलम्
अशा॑न्तम॒ग्नीत्सोम॑म्भक्षयेत् ।
उ॒पाँ॒श्वनु॒ वष॑ट्करोति ।
न रु॒द्रम् प्र॒जा अ॑न्ववसृ॒जति॑ , शा॒न्तम॒ग्नीत् , सोम॑म् भक्षयति ।
अग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द । [30]
“नेष्ट॒ᳶ पत्नी॑मु॒दान॑य”+ इत्या॑ह ।
पद-पाठः
अशा॑न्तम् । अ॒ग्नीदित्य॑ग्नि-इत् । सोम॑म् । भ॒क्ष॒ये॒त् ।
उ॒पाँ॒श्वित्यु॑प-अँ॒शु । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ ।
न । रु॒द्रम् । प्र॒जा इति॑ प्र-जाः । अ॒न्व॒व॒सृ॒जतीत्य॑नु-अ॒व॒सृ॒जति॑ । शा॒न्तम् । अ॒ग्नीदित्य॑ग्नि-इत् । सोम॑म् । भ॒क्ष॒य॒ति॒ ।
अग्नी॒दित्यग्नि॑-इ॒त् । नेष्टुः॑ । उ॒पस्थ॒मित्यु॒प-स्थ॒म् । एति॑ । सी॒द॒ । [30]
नेष्टः॑ । पत्नी॑म् । उ॒दान॒येत्यु॑त्-आन॑य । इति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
6अशान्तमिति ॥ अनिष्टकारणमशान्तमभक्षितं स्यात्; तस्मादुपांश्विति विधिः । न रुद्रमित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
अ॒ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑याम्
विश्वास-प्रस्तुतिः
अ॒ग्नीद् ए॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति । नेष्टा॒ पत्नि॑याम् ।
मूलम्
अ॒ग्नीद् ए॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति । नेष्टा॒ पत्नि॑याम् ।
पद-पाठः
अ॒ग्नीदित्य॑ग्नि-इत् । ए॒व । नेष्ट॑रि । रेतः॑ । दधा॑ति । नेष्टा॑ । पत्नि॑याम् ।
भट्टभास्कर-टीका
7अग्रीदित्यादिः प्रैषः, तदेकदेशं व्याचष्टे - नेष्टरि रेतो दधात्याग्नीघ्रः तदुपस्थानेन, नेष्टा च पत्न्यां रेतो दधाति तदुदानयनेन ॥
मूलम् (संयुक्तम्)
उद्गा॒त्रा सङ्ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता प्र॒जाना॑म्प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व तत्सि॑ञ्चत्य्
विश्वास-प्रस्तुतिः
उ॒द्गा॒त्रा सङ्ख्या॑पयति ।
प्र॒जाप॑ति॒र्वा ए॒ष यद् उ॑द्गा॒ता ।
प्र॒जाना॑म् प्र॒जन॑नाय ।
अ॒प उप॒ प्र व॑र्तयति॒ , रेत॑ ए॒व तत्सि॑ञ्चति ।
मूलम्
उ॒द्गा॒त्रा सङ्ख्या॑पयति ।
प्र॒जाप॑ति॒र्वा ए॒ष यद् उ॑द्गा॒ता ।
प्र॒जाना॑म् प्र॒जन॑नाय ।
अ॒प उप॒ प्र व॑र्तयति॒ , रेत॑ ए॒व तत्सि॑ञ्चति ।
पद-पाठः
उ॒द्गा॒त्रेत्यु॑त्-गा॒त्रा । समिति॑ । ख्या॒प॒य॒ति॒ ।
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । ए॒षः । यत् । उ॒द्गा॒तेत्यु॑त्-गा॒ता ।
प्र॒जाना॒मिति॑ प्र-जाना॑म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय ।
अ॒पः । उप॑ । प्रेति॑ । व॒र्त॒य॒ति॒ ।
रेतः॑ । ए॒व । तत् । सि॒ञ्च॒ति॒ ।
भट्टभास्कर-टीका
8उद्गात्रेत्यादि ॥ गतम् । स्वयं प्रजापतिरेवोद्गाता, तस्मात्तेन संख्यापनाप्रदर्शनं प्रजानां प्रजननाय भवति । उपप्रवर्तयतीति । समीपे तस्यास्स्रावयति रेतस्सेकस्थानीयं तत् भवति ॥
मूलम् (संयुक्तम्)
ऊ॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि रेत॑स्सि॒च्यते॑ नग्न॒ङ्कृत्यो॒रुमुप॒ प्र व॑र्तयति य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी भ॑व॒तोऽथ॒ रेत॑स्सिच्य॒तेऽथ॑ प्र॒जाᳶ प्र जा॑यन्ते ॥ [31]
विश्वास-प्रस्तुतिः
ऊ॒रुणोप॒ प्र व॑र्तयति ।
ऊ॒रुणा॒ हि रेत॑स् सि॒च्यते॑ ।
न॒ग्न॒ङ्कृत्यो॒रुमुप॒ प्र व॑र्तयति ।
य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्य् अथ॑ मिथु॒नी भ॑वतः ।
अथ॒ रेत॑स् सिच्य॒ते ।
अथ॑ प्र॒जाᳶ प्र जा॑यन्ते ॥ [31]
मूलम्
ऊ॒रुणोप॒ प्र व॑र्तयति ।
ऊ॒रुणा॒ हि रेत॑स् सि॒च्यते॑ ।
न॒ग्न॒ङ्कृत्यो॒रुमुप॒ प्र व॑र्तयति ।
य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्य् अथ॑ मिथु॒नी भ॑वतः ।
अथ॒ रेत॑स् सिच्य॒ते ।
अथ॑ प्र॒जाᳶ प्र जा॑यन्ते ॥ [31]
पद-पाठः
ऊ॒रुणा॑ । उप॑ । प्रेति॑ । व॒र्त॒य॒ति॒ ।
ऊ॒रुणा॑ । हि । रेतः॑ । सि॒च्यते॑ ।
न॒ग्न॒ङ्कृत्येति॑ नग्नम्-कृत्य॑ । ऊ॒रुम् । उप॑ । प्रेति॑ । व॒र्त॒य॒ति॒ ।
य॒दा । हि । न॒ग्नः । ऊ॒रुः । भव॑ति । अथ॑ । मि॒थु॒नी । भ॒व॒तः॒ ।
अथ॑ । रेतः॑ । सि॒च्य॒ते॒ ।
अथ॑ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । जा॒य॒न्ते॒ ॥ [31]
भट्टभास्कर-टीका
9ऊरुणेति विधिः ॥ ऊरुत्वोपलक्षिते देशे उपप्रवर्तयति । ऊरुणा हीति । ऊरूपबृंहितेन प्रजननेनेत्यर्थः । नग्नंकृत्य वास उद्घाट्य । ऊर्यादिर्मकारान्तो द्रष्टव्यः । ल्यपि गतित्वात्कृदुत्तरपदप्रकृतिस्वरत्वम् । यदा हीत्यादि । ऊरुः ऊरुमान् प्रजननप्रदेशो यदा नग्नो भवति उद्घाटितवसनः क्रियते अथानन्तरमेव स्त्रीपुंसौ मिथुनीभवतः मैथुनं गच्छतः, अथानन्तरमेव रेतस्सिच्यते, अथ ततः पतितं निषिक्तं रेतः प्रजात्वेन परिणतं भवति । तस्मान्महाफलत्वान्नग्नकरणस्य नग्नंकृत्योरुमुपप्रवर्तयतीति ॥
इति षष्ठे पञ्चमे अष्टमोनुवाकः ॥