मूलम् (संयुक्तम्)
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद्गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णᳶ प्र॒जाना॑म्प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेद्
विश्वास-प्रस्तुतिः
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद् गृ॑ह्णाति ।
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णः ।
प्र॒जाना॑म् प्र॒जन॑नाय ।
न सा॑दयति ।
अस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
नानु॒ वष॑ट्करोति ।
यद॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् ।
मूलम्
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद् गृ॑ह्णाति ।
प्र॒जाप॑ति॒र्वा ए॒ष यदा॑ग्रय॒णः ।
प्र॒जाना॑म् प्र॒जन॑नाय ।
न सा॑दयति ।
अस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
नानु॒ वष॑ट्करोति ।
यद॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् ।
पद-पाठः
अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम-पा॒त्रेण॑ । सा॒वि॒त्रम् । आ॒ग्र॒य॒णात् । गृ॒ह्णा॒ति॒ ।
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः ।
प्र॒जाना॒मिति॑ प्र-जाना॑म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय ।
न । सा॒द॒य॒ति॒ ।
अस॑न्नात् । हि । प्र॒जा इति॑ प्र-जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते ।
न । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ ।
यत् । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु-व॒ष॒ट्कु॒र्यात् । रु॒द्रम् । प्र॒जा इति॑ प्र-जाः । अ॒न्वव॑सृजे॒दित्य॑नु-अव॑सृजेत् ।
भट्टभास्कर-टीका
1अन्तर्यामपात्रेणेत्यादि ॥ प्रजापतिरिति । प्रजानां पाता आग्रयणग्रहः। तस्मात्सावित्रस्य ग्रहणं प्रजानां प्रजननाय भवति । न सादयतीत्यादि । व्याख्यातम् ॥
मूलम् (संयुक्तम्)
ए॒ष वै गा॑य॒त्रो दे॒वानाय्ँ॒यत्स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा॑ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद्गृ॒ह्णाति॒ स्वादे॒वैनय्ँ॒योने॒र्निर्गृ॑ह्णातिे॒ष वै गा॑य॒त्रो दे॒वानाय्ँ॒यत्स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा॑ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद्गृ॒ह्णाति॒ स्वादे॒वैनय्ँ॒योने॒र्निर्गृ॑ह्णाति॒
विश्वास-प्रस्तुतिः
ए॒ष वै गा॑य॒त्रो दे॒वानाय्ँ॒ यत्स॑वि॒ता ।
एष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा॑ग्रय॒णः ।
यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद् गृ॒ह्णाति ।
स्वाद् ए॒वैनय्ँ॒ योने॒र् निर्गृ॑ह्णाति ।
मूलम्
ए॒ष वै गा॑य॒त्रो दे॒वानाय्ँ॒ यत्स॑वि॒ता ।
एष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा॑ग्रय॒णः ।
यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा॑ग्रय॒णाद् गृ॒ह्णाति ।
स्वाद् ए॒वैनय्ँ॒ योने॒र् निर्गृ॑ह्णाति ।
पद-पाठः
ए॒षः । वै । गा॒य॒त्रः । दे॒वाना॑म् । यत् । स॒वि॒ता ।
ए॒षः । गा॒य॒त्रि॒यै । लो॒के । गृ॒ह्य॒ते॒ । यत् । आ॒ग्र॒य॒णः ।
यत् । अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम-पा॒त्रेण॑ । सा॒वि॒त्रम् । आ॒ग्र॒य॒णात् । गृ॒ह्णाति॑ ।
स्वात् । ए॒व । ए॒न॒म् । योनेः॑ । निरिति॑ । गृ॒ह्णा॒ति॒ ।
भट्टभास्कर-टीका
2एष वा इत्यादि ॥ देवानां मध्ये सविता गायत्रः गायत्रीसम्बन्धी; ‘तत्सवितुर्वरेण्यं’ इत्यादिकाया गायत्र्यास्सावित्रत्वात् आग्रयणश्चायं गायत्र्या लोके स्थाने प्रातस्सवने गृह्यते तस्मात्सोपि गायत्रः तस्मादाग्रयणात् सावित्रस्य ग्रहणं कुर्वता स्वादेव योनेः एतस्य सावित्रस्य निर्ग्रहागं निष्कृष्य ग्रहणं कृतं भवति ॥
मूलम् (संयुक्तम्)
विश्वे॑ [23]
दे॒वास्तृ॒तीयँ॒ सव॑न॒न्नोद॑यच्छ॒न्ते स॑वि॒तार॑म्प्रातस्सव॒नभा॑गँ॒ सन्त॑न्तृतीयसव॒नम॒भि पर्य॑णय॒न्ततो॒ वै ते तृ॒तीयँ॒ सव॑न॒मुद॑यच्छ॒न्यत्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै
विश्वास-प्रस्तुतिः
विश्वे॑ दे॒वास्तृ॒तीयँ॒ सव॑न॒न्नोद॑यच्छ॒न् । [23]
ते स॑वि॒तार॑म् प्रातस्सव॒नभा॑गँ॒ सन्त॑न् तृतीयसव॒नम॒भि पर्य॑णयन् ।
ततो॒ वै ते तृ॒तीयँ॒ सव॑न॒मुद॑यच्छन् ।
यत्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ , तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै ।
मूलम्
विश्वे॑ दे॒वास्तृ॒तीयँ॒ सव॑न॒न्नोद॑यच्छ॒न् । [23]
ते स॑वि॒तार॑म् प्रातस्सव॒नभा॑गँ॒ सन्त॑न् तृतीयसव॒नम॒भि पर्य॑णयन् ।
ततो॒ वै ते तृ॒तीयँ॒ सव॑न॒मुद॑यच्छन् ।
यत्तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ , तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै ।
पद-पाठः
विश्वे॑ । [23] दे॒वाः । तृ॒तीय॑म् । सव॑नम् । न । उदिति॑ । अ॒य॒च्छ॒न् ।
ते । स॒वि॒तार॑म् । प्रा॒त॒स्स॒व॒नभा॑ग॒मिति प्रातस्सव॒न-भा॒ग॒म् । सन्त॑म् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय-स॒व॒नम् । अ॒भि । परीति॑ । अ॒न॒य॒न् ।
ततः॑ । वै । ते । तृ॒तीय॑म् । सव॑नम् । उदिति॑ । अ॒य॒च्छ॒न् ।
यत् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय-स॒व॒ने । सा॒वि॒त्रः । गृ॒ह्यते॑ । तृ॒तीय॑स्य । सव॑नस्य । उद्य॑त्या॒ इत्युत्-य॒त्यै॒ ।
भट्टभास्कर-टीका
3विश्वे देवा इत्यादि ॥ विश्वेदेवाः आत्मीयं तृतीयसवनं उद्वोढुं शक्ता न बभूवुः, तस्मात्तृतीयसवने सावित्रस्य ग्रहणं तृतीयसवननिर्वहणाय भवति ॥
मूलम् (संयुक्तम्)
सवितृपा॒त्रेण॑ वैश्वदे॒वङ्क॒लशा॑द्गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वै॑श्वदे॒वᳵ क॒लश॑स्सवि॒ता प्र॑स॒वाना॑मीशे॒ यत्स॑वितृपा॒त्रेण॑ वैश्वदे॒वङ्क॒लशा॑द्गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाᳶ प्र [24]
ज॒न॒य॒ति॒
विश्वास-प्रस्तुतिः
स॒वि॒तृ॒पा॒त्रेण॑ वैश्वदे॒वङ् क॒लशा॑द् गृह्णाति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
वै॒श्व॒देवᳵ क॒लशः॑ ।
स॒वि॒ता प्र॑स॒वाना॑मीशे ।
यत्स॑वितृपा॒त्रेण॑ वैश्वदे॒वङ् क॒लशा॑द् गृ॒ह्णाति॑ ,
स॒वि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति । [24]
मूलम्
स॒वि॒तृ॒पा॒त्रेण॑ वैश्वदे॒वङ् क॒लशा॑द् गृह्णाति ।
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः ।
वै॒श्व॒देवᳵ क॒लशः॑ ।
स॒वि॒ता प्र॑स॒वाना॑मीशे ।
यत्स॑वितृपा॒त्रेण॑ वैश्वदे॒वङ् क॒लशा॑द् गृ॒ह्णाति॑ ,
स॒वि॒तृप्र॑सूत ए॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति । [24]
पद-पाठः
स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ-पा॒त्रेण॑ । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । क॒लशा॑त् । गृ॒ह्णा॒ति॒ ।
वै॒श्व॒दे॒व्य॑ इति॑ वैश्व-दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र-जाः ।
वै॒श्व॒दे॒व इति॑ वैश्व-दे॒वः । क॒लशः॑ ।
स॒वि॒ता । प्र॒स॒वाना॒मिति॑ प्र-स॒वाना॑म् । ई॒शे॒ ।
यत् । स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ-पा॒त्रेण॑ । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । क॒लशा॑त् । गृ॒ह्णाति॑ ।
स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । [24] ज॒न॒य॒ति॒ ।
भट्टभास्कर-टीका
4सवितृपात्रेणेत्यादि ॥ सावित्रमाग्रयागाद्गृह्णाति सावित्रेण गृहीत्वा हुतत्वात्सवितृपात्रमन्तर्यामपात्रम् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व तद्द॑धाति सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या
विश्वास-प्रस्तुतिः
सोमे॒ सोम॑म॒भि गृ॑ह्णाति ।
रेत॑ ए॒व तद् द॑धाति ।
“सु॒शर्मा॑ ऽसि सुप्रतिष्ठा॒न” इत्या॑ह ।
सोमे॒ हि सोम॑मभिगृ॒ह्णाति॑ ।
प्रति॑ष्ठित्यै ।
पद-पाठः
सोमे॑ । सोम॑म् । अ॒भीति॑ । गृ॒ह्णा॒ति॒ ।
रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ ।
सु॒शर्मेति॑ सु-शर्मा॑ । अ॒सि॒ । सु॒प्र॒ति॒ष्ठा॒न इति॑ सु-प्र॒ति॒ष्ठा॒नः । इति॑ । आ॒ह॒ ।
सोमे॑ । हि । सोम॑म् । अ॒भि॒गृ॒ह्णातीत्य॑भि-गृ॒ह्णाति॑ ।
प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।
मूलम्
सोमे॒ सोम॑म॒भि गृ॑ह्णाति ।
रेत॑ ए॒व तद् द॑धाति ।
“सु॒शर्मा॑ ऽसि सुप्रतिष्ठा॒न” इत्या॑ह ।
सोमे॒ हि सोम॑मभिगृ॒ह्णाति॑ ।
प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
5सोमे सोममित्यादि ॥ सावित्रस्य अनुवषट्काराभावादाहुतिशेषे अभिगृह्णाति शेषस्योपरि गृह्णाति रेतसो निषेकस्थानीयं तद्भवति । सोमे हीत्यादि । यस्मात्सोमोभिगृह्यते सोमस्योपरि तस्मात्सुप्रतिष्ठान उच्यते इति मन्त्रपदव्याख्या । तत्प्रतिष्ठित्यै प्रतिष्ठितत्वाय भवति यजमानस्य ॥
मूलम् (संयुक्तम्)
ए॒तस्मि॒न्वा अपि॒ ग्रहे॑ मनु॒ष्ये॑भ्यो दे॒वेभ्यᳶ॑ पि॒तृभ्य॑ᳵ क्रियते सु॒शर्मा॑सि सुप्रतिष्ठा॒न इत्या॑ह मनु॒ष्ये॑भ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑षः ॥ [25]
विश्वास-प्रस्तुतिः
ए॒तस्मि॒न्वा अपि॒ ग्रहे॑ मनु॒ष्ये॑भ्यो दे॒वेभ्यᳶ॑ पि॒तृभ्य॑ᳵ क्रियते ।
“सु॒शर्मा॑सि सुप्रतिष्ठा॒न” इत्या॑ह ।
मनु॒ष्ये॑भ्य ए॒वैतेन॑ करोति ।
“बृ॒हद्” इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैतेन॑ करोति ।
“नम॒” इत्या॑ह ।
पि॒तृभ्य॑ ए॒वैतेन॑ करोति ।
ए॒ताव॑ती॒र्वै दे॒वताः॑ ।
ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णाति ।
“ए॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्य॒” इत्या॑ह ।
वै॒श्व॒दे॒वो ह्ये॑षः ॥ [25]
मूलम्
ए॒तस्मि॒न्वा अपि॒ ग्रहे॑ मनु॒ष्ये॑भ्यो दे॒वेभ्यᳶ॑ पि॒तृभ्य॑ᳵ क्रियते ।
“सु॒शर्मा॑सि सुप्रतिष्ठा॒न” इत्या॑ह ।
मनु॒ष्ये॑भ्य ए॒वैतेन॑ करोति ।
“बृ॒हद्” इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैतेन॑ करोति ।
“नम॒” इत्या॑ह ।
पि॒तृभ्य॑ ए॒वैतेन॑ करोति ।
ए॒ताव॑ती॒र्वै दे॒वताः॑ ।
ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णाति ।
“ए॒ष ते॒ योनि॒र् विश्वे॑भ्यस् त्वा दे॒वेभ्य॒” इत्या॑ह ।
वै॒श्व॒दे॒वो ह्ये॑षः ॥ [25]
पद-पाठः
ए॒तस्मि॑न् । वै । अपीति॑ । ग्रहे॑ । म॒नु॒ष्ये॑भ्यः । दे॒वेभ्यः॑ । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । क्रि॒य॒ते॒ ।
सु॒शर्मेति॑ सु-शर्मा॑ । अ॒सि॒ । सु॒प्र॒ति॒ष्ठा॒न इति॑ सु-प्र॒ति॒ष्ठा॒नः । इति॑ । आ॒ह॒ ।
म॒नु॒ष्ये॑भ्यः । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।
बृ॒हत् । इति॑ । आ॒ह॒ । 1दे॒वेभ्यः॑ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।
नमः॑ । इति॑ । आ॒ह॒ ।
पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ।
ए॒ताव॑तीः । वै । दे॒वताः॑ ।
ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा॑भ्यः । गृ॒ह्णा॒ति॒ ।
ए॒षः । ते॒ । योनिः॑ । विश्वे॑भ्यः । त्वा॒ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ ।
वै॒श्व॒दे॒व इति॑ वैश्व-दे॒वः । हि । ए॒षः ॥ [25]
भट्टभास्कर-टीका
6एतस्मिन्वा इति त्रिभ्यो ॥ मनुष्यादिभ्य एतस्मिन् ग्रहे वैश्वदेवे क्रियते । कथमित्याह - मनुष्येम्य एवेत्यादि शोभनं शरणं सेचनं सुखं वा अस्येति कृत्वा । बृहत्त्वं देवा अर्हन्तीति कृत्वा । नमस्कारप्रियाः पितर इति कृत्वा । एतावतीर्वा इत्यादि । गतम् ॥
इति षष्ठे पञ्चमे सप्तमोनुवाकः ॥