मूलम् (संयुक्तम्)
अदि॑तिᳶ पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम॑पच॒त्तस्या॑ उ॒च्छेष॑णमददु॒स्तत्प्राश्ञा॒त्सा रेतो॑ऽधत्त॒ तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त॒ सा द्वि॒तीय॑मपच॒त्साम॑न्यतो॒च्छेष॑णान्म इ॒मे॑ऽज्ञत॒ यदग्रे॑ प्राशि॒ष्यामी॒तो मे॒ वसी॑याँसो जनिष्यन्त॒ इति॒ साऽग्रे॒ प्राश्ञा॒त्सा रेतो॑ऽधत्त॒ तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत॒ सादि॒त्येभ्य॑ ए॒व [18]
तृ॒तीय॑मपच॒द्भोगा॑य म इ॒दँ श्रा॒न्तम॒स्त्विति॒
विश्वास-प्रस्तुतिः
अदि॑तिᳶ पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम् अ॑पचत् ।
तस्या॑ उ॒च्छेष॑णमददुः ।
तत् प्राश्ञा॒त् सा रेतो॑ ऽधत्त ।
तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त ।
सा द्वि॒तीय॑मपचत् ।
साम॑न्यत - “उ॒च्छेष॑णान् म इ॒मे॑ऽज्ञत॒ यदग्रे॑ प्राशि॒ष्यामी॒तो मे॒ वसी॑याँसो जनिष्यन्त॒” इति॑ ।
साऽग्रे॒ प्राश्ना॑त् ।
सा रेतो॑ऽधत्त ।
तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत ।
साऽऽदि॒त्येभ्य॑ ए॒व तृ॒तीय॑मपचत् ।[18]
भोगा॑य म इ॒दँ श्रा॒न्तम॒स्त्व् इति॑ ।
मूलम्
अदि॑तिᳶ पु॒त्रका॑मा सा॒ध्येभ्यो॑ दे॒वेभ्यो॑ ब्रह्मौद॒नम् अ॑पचत् ।
तस्या॑ उ॒च्छेष॑णमददुः ।
तत् प्राश्ञा॒त् सा रेतो॑ ऽधत्त ।
तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त ।
सा द्वि॒तीय॑मपचत् ।
साम॑न्यत - “उ॒च्छेष॑णान् म इ॒मे॑ऽज्ञत॒ यदग्रे॑ प्राशि॒ष्यामी॒तो मे॒ वसी॑याँसो जनिष्यन्त॒” इति॑ ।
साऽग्रे॒ प्राश्ना॑त् ।
सा रेतो॑ऽधत्त ।
तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत ।
साऽऽदि॒त्येभ्य॑ ए॒व तृ॒तीय॑मपचत् ।[18]
भोगा॑य म इ॒दँ श्रा॒न्तम॒स्त्व् इति॑ ।
पद-पाठः
अदि॑तिः । पु॒त्रका॒मेति॑ पु॒त्र-का॒मा॒ । सा॒ध्येभ्यः॑ । दे॒वेभ्यः॑ । ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म-ओ॒द॒नम् । अ॒प॒च॒त् ।
तस्यै॑ । उ॒च्छेष॑ण॒मित्यु॑त्-शेष॑णम् । अ॒द॒दुः॒ ।
तत् । प्रेति॑ । आ॒श्ञा॒त् ।
सा । रेतः॑ । अ॒ध॒त्त॒ ।
तस्यै॑ । च॒त्वारः॑ । आ॒दि॒त्याः । अ॒जा॒य॒न्त॒ ।
सा । द्वि॒तीय॑म् । अ॒प॒च॒त् ।
सा । अ॒म॒न्य॒त॒ ।
उ॒च्छेष॑णा॒दित्यु॑त्-शेष॑णात् । मे॒ । इ॒मे । अ॒ज्ञ॒त॒ । यत् । अग्रे॑ । प्रा॒शि॒ष्यामीति॑ प्र-अ॒शि॒ष्यामि॑ । इ॒तः । मे॒ । वसी॑याँसः । ज॒नि॒ष्य॒न्ते॒ । इति॑ ।
सा । अग्रे॑ । प्रेति॑ । आ॒श्ञा॒त् ।
सा । रेतः॑ । अ॒ध॒त्त॒ ।
तस्यै॑ । व्यृ॑द्ध॒मिति॒ वि-ऋ॒द्ध॒म् । आ॒ण्डम् । अ॒जा॒य॒त॒ ।
सा । आ॒दि॒त्येभ्यः॑ । ए॒व । [18] तृ॒तीय॑म् । अ॒प॒च॒त् ।
भोगा॑य । मे॒ । इ॒दम् । श्रा॒न्तम् । अ॒स्तु॒ । इति॑ ।
भट्टभास्कर-टीका
1अदितिरित्यादि ॥ आदित्यग्रहविधेरर्थवादः । उच्छेषणं हुतशिष्टं तस्यै देवा अददुः । सा च तत्प्राशनेन रेतोधारयत् । तस्याश्चत्वार आदित्याः पुत्रा जाताः । अथ सा अदितिः द्वितीयं पुनरपि ब्रह्मौदनमपचत्, पक्त्वा चामन्यत इमे आदित्याः उच्छेषणान्मम पुत्रा अज्ञत जाताः । ‘मन्त्रे घस’ इति च्लेर्लुक् । अथ यद्यहमग्रे प्राशिष्यामि इत एभ्योपि वसीयांसः उत्कृष्टतरा जनिष्यन्ते तस्मादग्रे प्राशितव्यं नोच्छिष्टमिति पश्यन्ती साऽग्रे प्राश्नात्, रेतश्चाधत्त । तस्यास्तथाकृतवत्या आण्डं रेतोधिकरणं गर्भस्थानं व्यृद्धं ऋद्धिशून्यमजायत न काचित्प्रजा ऋद्धिमती तत्राजनिष्ट । अथ साऽऽदित्येभ्य एव तृतीयमपचत् इदमाण्डं श्रान्तं प्रतितप्तं मम भोगार्थं प्रजासमृद्धमस्त्विति कामयमाना भूयोप्यपचत् ॥
मूलम् (संयुक्तम्)
ते॑ऽब्रुव॒न्वरव्ँ॑वृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माकँ॒ स एको॑ऽस॒द्यो॑ऽस्य प्र॒जाया॒मृध्या॑ता अ॒स्माक॒म्भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ऽजायत॒ तस्य॒ वा इ॒यम्प्र॒जा यन्म॑नु॒ष्या॑स्तास्वेक॑ ए॒वर्द्धो यो यज॑ते॒ स दे॒वाना॒म्भोगा॑य भवति
विश्वास-प्रस्तुतिः
ते॑ऽब्रुव॒न् -
“वरव्ँ॑ वृणामहै॒ यो ऽतो॒ जाया॑ता अ॒स्माकँ॒ स एको॑ ऽस॒द् , यो॑ऽस्य प्र॒जाया॒मृध्या॑ता अ॒स्माक॒म् भोगा॑य भवा॒द्” इति॑ ।
ततो॒ विव॑स्वानादि॒त्यो॑ ऽजायत ।
तस्य॒ वा इ॒यम् प्र॒जा यन् म॑नु॒ष्या॑स् तास्वेक॑ ए॒वर्द्धः ।
यो यज॑ते॒ स दे॒वाना॒म् भोगा॑य भवति
मूलम्
ते॑ऽब्रुव॒न् -
“वरव्ँ॑ वृणामहै॒ यो ऽतो॒ जाया॑ता अ॒स्माकँ॒ स एको॑ ऽस॒द् , यो॑ऽस्य प्र॒जाया॒मृध्या॑ता अ॒स्माक॒म् भोगा॑य भवा॒द्” इति॑ ।
ततो॒ विव॑स्वानादि॒त्यो॑ ऽजायत ।
तस्य॒ वा इ॒यम् प्र॒जा यन् म॑नु॒ष्या॑स् तास्वेक॑ ए॒वर्द्धः ।
यो यज॑ते॒ स दे॒वाना॒म् भोगा॑य भवति
पद-पाठः
ते । अ॒ब्रु॒व॒न् ।
वर॑म् । वृ॒णा॒म॒है॒ । यः । अतः॑ । जाया॑तै । अ॒स्माक॑म् । सः । एकः॑ । अ॒स॒त् । यः । अ॒स्य॒ । प्र॒जाया॒मिति॑ प्र-जाया॑म् । ऋध्या॑तै । अ॒स्माक॑म् । भोगा॑य । भ॒वा॒त् । इति॑ ।
ततः॑ । विव॑स्वान् । आ॒दि॒त्यः । अ॒जा॒य॒त॒ ।
तस्य॑ । वै । इ॒यम् । प्र॒जेति॑ प्र-जा । यत् । म॒नु॒ष्याः॑ ।
तासु॑ । एकः॑ । ए॒व । ऋ॒द्धः । यः । यज॑ते ।
सः । दे॒वाना॑म् । भोगा॑य । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
2अथ ते आदित्या अब्रुवन् - त्वत्तो वरं वृणामहै - योतः आण्डात् व्यपेतदोषात् जायातै जायेत सोस्माकं मध्ये एकोऽसत् अस्माकमादित्यानामन्यतम एव जायताम् । अस्तेर्लेटि अडागमः । अथ योस्य जातस्य प्रजायां प्रजासु मध्ये ऋद्ध्यातै ऋद्धोभवत् सोस्माकं भोगायास्त्विति । तत इत्यादि । तस्मादाण्डात् विवस्वान्नामादित्यो जातः । तस्य खल्वियं प्रजा येऽमी मनुष्याः; मनुष्याणां वर्षादिनोत्पाद्यत्वात् । एतेन योस्य प्रजायामित्येतत्प्र- कृतं, तासु च एक एव यजमान ऋद्धो भवति । स च देवानामादित्यानां भोगाय भवति ॥
मूलम् (संयुक्तम्)
दे॒वा वै य॒ज्ञात् [19]
रु॒द्रम॒न्तरा॑य॒न्त्स आ॑दि॒त्यान॒न्वाक्र॑मत॒ ते द्वि॑देव॒त्या॑न्प्राप॑द्यन्त॒ तान्न प्रति॒ प्राय॑च्छ॒न्तस्मा॒दपि॒ वध्य॒म्प्रप॑न्न॒न्न प्रति॒ प्र य॑च्छन्ति॒ तस्मा॑द्द्विदेव॒त्ये॑भ्य आदि॒त्यो निर्गृ॑ह्यते॒ यदु॒च्छेष॑णा॒दजा॑यन्त॒ तस्मा॑दु॒च्छेष॑णाद्गृह्यते
विश्वास-प्रस्तुतिः
दे॒वा वै य॒ज्ञाद् रु॒द्रम॒न्तरा॑यन् ।[19]
स आ॑दि॒त्यान् अ॒न्वाक्र॑मत ।
ते द्वि॑देव॒त्या॑न्प्राप॑द्यन्त ।
तान्न प्रति॒ प्राय॑च्छन् ।
तस्मा॒दपि॒ वध्य॒म् प्रप॑न्न॒न् न प्रति॒ प्र य॑च्छन्ति ।
तस्मा॑द् द्विदेव॒त्ये॑भ्य आदि॒त्यो निर्गृ॑ह्यते ।
यद् उ॒च्छेष॑णा॒दजा॑यन्त॒ , तस्मा॑द् उ॒च्छेष॑णाद् गृह्यते ।
मूलम्
दे॒वा वै य॒ज्ञाद् रु॒द्रम॒न्तरा॑यन् ।[19]
स आ॑दि॒त्यान् अ॒न्वाक्र॑मत ।
ते द्वि॑देव॒त्या॑न्प्राप॑द्यन्त ।
तान्न प्रति॒ प्राय॑च्छन् ।
तस्मा॒दपि॒ वध्य॒म् प्रप॑न्न॒न् न प्रति॒ प्र य॑च्छन्ति ।
तस्मा॑द् द्विदेव॒त्ये॑भ्य आदि॒त्यो निर्गृ॑ह्यते ।
यद् उ॒च्छेष॑णा॒दजा॑यन्त॒ , तस्मा॑द् उ॒च्छेष॑णाद् गृह्यते ।
पद-पाठः
दे॒वाः । वै । य॒ज्ञात् । [19] रु॒द्रम् । अ॒न्तः । आ॒य॒न् ।
सः । आ॒दि॒त्यान् । अ॒न्वाक्र॑म॒तेत्य॑नु-आक्र॑मत ।
ते । द्वि॒दे॒व॒त्या॑निति॑ द्वि-दे॒व॒त्यान्॑ । प्रेति॑ । अ॒प॒द्य॒न्त॒ ।
तान् । न । प्रति॑ । प्रेति॑ । अ॒य॒च्छ॒न् ।
तस्मा॑त् । अपीति॑ । वध्य॑म् । प्रप॑न्न॒मिति॒ प्र-प॒न्न॒म् । नः॒ । प्रति॑ । प्रेति॑ । य॒च्छ॒न्ति॒ ।
तस्मा॑त् । द्वि॒दे॒व॒त्ये॑भ्य॒ इति॑ द्वि-दे॒व॒त्ये॑भ्यः । आ॒दि॒त्यः । निरिति॑ । गृ॒ह्य॒ते॒ ।
यत् । उ॒च्छेष॑णा॒दित्यु॑त्-शेष॑णात् । अजा॑यन्त । तस्मा॑त् । उ॒च्छेष॑णा॒दित्यु॑त्-शेष॑णात् । गृ॒ह्य॒ते॒ ।
भट्टभास्कर-टीका
3देवा वा इत्यादि ॥ अन्तरायन् अन्तर्हितमकुर्वत् अवहितं धृतवन्तः । अथ स रुद्र आदित्यानन्वक्रामत अनुप्राप्य अवष्टब्धवान् । अथ ते द्विदेवत्यात् ऐन्द्रवायवादीन् प्रापद्यन्त प्रपन्नाः शरणं गताः । ते च तान् न प्रतिप्रायच्छन् । यस्मान्न प्रत्यर्पितवन्तः तस्मादद्यत्वेऽपि प्रपन्नं शरणागतं वध्यं न प्रतिप्रयच्छन्ति । यज्ञेनैवं विस्मरन्तः वध्या एवेति वध्यग्रहाणेन दर्शयति । तस्मादित्यादि । गतम् । द्विदेवत्येभ्यो ग्रहेभ्य आदित्यो ग्रहो निर्गृह्यते निष्कृष्य गृह्यते, तेषां चोच्छेषणादुत्पन्नत्वात् तस्मादादित्यस्योच्छेषणाद्गहणम् ॥
मूलम् (संयुक्तम्)
ति॒सृभि॑र्ऋ॒ग्भिर्गृ॑ह्णाति मा॒ता पि॒ता पु॒त्रस्तदे॒व तन्मि॑थु॒नमुल्ब॒ङ्गर्भो॑ ज॒रायु॒ तदे॒व तत् [20]
मि॒थु॒नम्प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ द॒ध्ना म॑ध्य॒तश्श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नाम्म॑ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॒ तस्मा॑दा॒मा प॒क्वन्दु॑हे
विश्वास-प्रस्तुतिः
ति॒सृभि॑र् ऋ॒ग्भिर् गृ॑ह्णाति ।
मा॒ता पि॒ता पु॒त्रस् तदे॒व तन्मि॑थु॒नम् ।
उल्ब॒ङ्गर्भो॑ ज॒रायु॒ तदे॒व तन् मि॑थु॒नम् ।[20]
प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ ।
द॒ध्ना म॑ध्य॒तश् श्री॑णा॒त्य् - ऊर्ज॑मे॒व प॑शू॒नाम् म॑ध्य॒तो द॑धाति ।
शृ॒ता॒त॒ङ्क्ये॑न मेध्य॒त्वाय॑ ।
तस्मा॑दा॒मा प॒क्वन् दु॑हे ।
मूलम्
ति॒सृभि॑र् ऋ॒ग्भिर् गृ॑ह्णाति ।
मा॒ता पि॒ता पु॒त्रस् तदे॒व तन्मि॑थु॒नम् ।
उल्ब॒ङ्गर्भो॑ ज॒रायु॒ तदे॒व तन् मि॑थु॒नम् ।[20]
प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग्दधि॑ ।
द॒ध्ना म॑ध्य॒तश् श्री॑णा॒त्य् - ऊर्ज॑मे॒व प॑शू॒नाम् म॑ध्य॒तो द॑धाति ।
शृ॒ता॒त॒ङ्क्ये॑न मेध्य॒त्वाय॑ ।
तस्मा॑दा॒मा प॒क्वन् दु॑हे ।
पद-पाठः
ति॒सृभि॒रिति॑ ति॒सृ-भिः॒ । ऋ॒ग्भिरित्यृ॑क्-भिः । गृ॒ह्णा॒ति॒ ।
मा॒ता । पि॒ता । पु॒त्रः । तत् । ए॒व । तत् । मि॒थु॒नम् ।
उल्ब॑म् । गर्भः॑ । ज॒रायु॑ । तत् । ए॒व । तत् । [20] मि॒थु॒नम् ।
प॒शवः॑ । वै । ए॒ते । यत् । आ॒दि॒त्यः । ऊर्क् । दधि॑ ।
द॒ध्ना । म॒ध्य॒तः । श्री॒णा॒ति॒ । ऊर्ज॑म् । ए॒व । प॒शू॒नाम् । म॒ध्य॒तः । द॒धा॒ति॒ ।
शृ॒ता॒त॒ङ्क्ये॑नेति॑ शृत-आ॒त॒ङ्क्ये॑न ।
मे॒ध्य॒त्वायेति॑ मेध्य-त्वाय॑ ।
तस्मा॑त् । आ॒मा । प॒क्वम् । दु॒हे॒ ।
भट्टभास्कर-टीका
4तिसृभिरिति ॥ ‘कदा चन’ इत्यादिभिः । तदेवेति । यदेव मात्रादिलक्षणं मिथुनं तदेव ऋक्त्रयलक्षणम् । यदेव चतुष्पदादिलक्षणम् । पशवो वा इत्यादि । वर्षादिना पशुहेतुत्वात् ताच्छब्द्यम् । मध्यतः मध्ये । गतमन्यत् । शृतातङ्क्येनेति । शृतेनातञ्चनीयं यद्दधि तेन श्रीणाति मेधार्हत्वाय तद्भवति । तस्मादित्यादि । पश्वात्मन आदित्यग्रहस्य मध्ये शृतातङ्क्यदधिश्रयणादामा अपक्वा गौः पक्वं परिपक्वं पयो दुहे दुग्धे । पूर्ववत्तलोपः ॥
मूलम् (संयुक्तम्)
प॒शवो॒ वा ए॒ते यदा॑दि॒त्यᳶ प॑रि॒श्रित्य॑ गृह्णाति प्रति॒रुध्यै॒वास्मै॑ प॒शून्गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निᳶ प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति [21]
विश्वास-प्रस्तुतिः
प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः ।
प॑रि॒श्रित्य॑ गृह्णाति ।
प्र॒ति॒रुद्ध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति ।
प॒शवो॒ वा ए॒ते यदा॑दि॒त्य , ए॒ष रु॒द्रो यद॒ग्निः ।
प॑रि॒श्रित्य॑ गृह्णाति , रु॒द्राद् ए॒व प॒शून् अ॒न्तर्द॑धाति । [21]
मूलम्
प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः ।
प॑रि॒श्रित्य॑ गृह्णाति ।
प्र॒ति॒रुद्ध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति ।
प॒शवो॒ वा ए॒ते यदा॑दि॒त्य , ए॒ष रु॒द्रो यद॒ग्निः ।
प॑रि॒श्रित्य॑ गृह्णाति , रु॒द्राद् ए॒व प॒शून् अ॒न्तर्द॑धाति । [21]
पद-पाठः
प॒शवः॑ । वै । ए॒ते । यत् । आ॒दि॒त्यः ।
प॒रि॒श्रित्येति॑ परि-श्रित्य॑ । गृ॒ह्णा॒ति॒ ।
प्र॒ति॒रुध्येति॑ प्रति-रुध्य॑ । ए॒व । अ॒स्मै॒ । प॒शून् । गृ॒ह्णा॒ति॒ ।
प॒शवः॑ । वै । ए॒ते । यत् । आ॒दि॒त्यः । ए॒षः । रु॒द्रः । यत् । अ॒ग्निः ।
प॒रि॒श्रित्येति॑ परि-श्रित्य॑ । गृ॒ह्णा॒ति॒ । रु॒द्रात् । ए॒व । प॒शून् । अ॒न्तः । द॒धा॒ति॒ । [21]
भट्टभास्कर-टीका
5पशवो वा इत्यादि ॥ परिश्रित्य प्रच्छाद्य गृह्णाति । प्रतिरुदध्य वारयित्वा पशवो गृहीता भवन्ति यजमानार्थम् । पशवो वा इत्यादि । अन्तर्धानार्थम्, व्यवधानार्थं वा ॥
मूलम् (संयुक्तम्)
ए॒ष वै विव॑स्वानादि॒त्यो यदु॑पाँशु॒सव॑न॒स्स ए॒तमे॒व सो॑मपी॒थम्परि॑ शय॒ आ तृ॑तीयसव॒नाद्विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह॒ विव॑स्वन्तमे॒वादि॒त्यँ सो॑मपी॒थेन॒ सम॑र्धयति॒
विश्वास-प्रस्तुतिः
ए॒ष वै विव॑स्वानादि॒त्यो यदु॑पाँशु॒सव॑नः ।
स ए॒तमे॒व सो॑मपी॒थम् परि॑ शय॒ आ तृ॑तीयसव॒नात् ।
विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह ।
विव॑स्वन्तम् ए॒वादि॒त्यँ सो॑मपी॒थेन॒ सम॑र्धयति ।
मूलम्
ए॒ष वै विव॑स्वानादि॒त्यो यदु॑पाँशु॒सव॑नः ।
स ए॒तमे॒व सो॑मपी॒थम् परि॑ शय॒ आ तृ॑तीयसव॒नात् ।
विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह ।
विव॑स्वन्तम् ए॒वादि॒त्यँ सो॑मपी॒थेन॒ सम॑र्धयति ।
पद-पाठः
ए॒षः । वै । विव॑स्वान् । आ॒दि॒त्यः । यत् । उ॒पाँ॒शु॒सव॑न॒ इत्यु॑पाँशु-सव॑नः ।
सः । ए॒तम् । ए॒व । सो॒म॒पी॒थमिति॑ सोम-पी॒थम् । परीति॑ । श॒ये॒ । एति॑ । तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय-स॒व॒नात् ।
विव॑स्वः । आ॒दि॒त्य॒ । ए॒षः । ते॒ । सो॒म॒पी॒थ इति॑ सोम-पी॒थः । इति॑ । आ॒ह॒ ।
विव॑स्वन्तम् । ए॒व । आ॒दि॒त्यम् । सो॒म॒पी॒थेनेति॑ सोम-पी॒थेन॑ । समिति॑ । अ॒र्ध॒य॒ति॒ ।
भट्टभास्कर-टीका
6एष वा इत्यादि ॥ योयमुपांशुसवनोसावेष खलु विवस्वानादित्यः स च तमेव सोमपीथं आदित्यग्रहणलक्षणमुद्दिश्य आतृतीयसवनात्परिशये परिशेते । उक्तस्तलोपः । विवस्व आदित्येति । सोममुपांशुसवनं दधाति । तेन सोमपीयेन विवस्वानादित्यस्समृद्धः कृतो भवति ॥
मूलम् (संयुक्तम्)
या दि॒व्या वृष्टि॒स्तया॑ त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीया॒द्वृष्टि॑मे॒वाव॑ रुन्द्धे॒ यदि॑ ता॒जक्प्र॒स्कन्दे॒द्वर्षु॑कᳶ प॒र्जन्य॑स्स्या॒द्यदि॑ चि॒रमव॑र्षुको॒
विश्वास-प्रस्तुतिः
या दि॒व्या वृष्टि॒स् तया॑ त्वा श्रीणा॒मि + इति॒ वृष्टि॑कामस्य श्रीणीयात् ।
वृष्टि॑मे॒वाव॑ रुन्धे ।
यदि॑ ता॒जक्प्र॒स्कन्दे॒द् वर्षु॑कᳶ प॒र्जन्य॑स् स्यात् ।
यदि॑ चि॒रमव॑र्षुकः ।
मूलम्
या दि॒व्या वृष्टि॒स् तया॑ त्वा श्रीणा॒मि + इति॒ वृष्टि॑कामस्य श्रीणीयात् ।
वृष्टि॑मे॒वाव॑ रुन्धे ।
यदि॑ ता॒जक्प्र॒स्कन्दे॒द् वर्षु॑कᳶ प॒र्जन्य॑स् स्यात् ।
यदि॑ चि॒रमव॑र्षुकः ।
पद-पाठः
या । दि॒व्या । वृष्टिः॑ । तया॑ । त्वा॒ । श्री॒णा॒मि॒ । इति॑ । वृष्टि॑काम॒स्येति॒ वृष्टि॑-का॒म॒स्य॒ । श्री॒णी॒या॒त् ।
वृष्टि॑म् । ए॒व । अवेति॑ । रु॒न्द्धे॒ ।
यदि॑ । ता॒जक् । प्र॒स्कन्दे॒दिति॑ प्र-स्कन्दे॑त् । वर्षु॑कः । प॒र्जन्यः॑ । स्यात् ।
यदि॑ । चि॒रम् । अव॑र्षुकः ।
भट्टभास्कर-टीका
7या दिव्या इत्यादि ॥ वृष्टिकामस्य सोमे उपांशुसवनं प्रक्षिप्य क्षीणीयात्सोमं, तत्र प्रक्षेपकाले यदि ताजक् तदानीमेव क्षिप्रमेव बिन्दुः प्रस्कन्देत् पात्रात् पर्जन्यो वर्षुकः वर्षणशीलस्स्यात् । यदि चिरं चिरकालेन स्कन्दति अवर्षुकस्स्यात्पर्जन्यः । ‘लषपत’ इत्यादिनोकञ् ॥
मूलम् (संयुक्तम्)
न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते॒ नानु॒ वष॑ट्करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒न्न हु॒त्वान्वी॑क्षेत॒ यद॒न्वीक्षे॑त॒ चक्षु॑रस्य प्र॒मायु॑कँ स्या॒त्तस्मा॒न्नान्वीक्ष्यः॑ ॥ [22]
विश्वास-प्रस्तुतिः
न सा॑दय॒ति ।
अस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
नानु॒ वष॑ट्करोति ।
यद॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् ।
न हु॒त्वाऽन्वी॑क्षेत ।
यद॒न्वीक्षे॑त॒ चक्षु॑रस्य प्र॒मायु॑कँ स्यात् ।
तस्मा॒न्नान्वीक्ष्यः॑ ॥ [22]
मूलम्
न सा॑दय॒ति ।
अस॑न्ना॒द्धि प्र॒जाᳶ प्र॒जाय॑न्ते ।
नानु॒ वष॑ट्करोति ।
यद॑नुवषट्कु॒र्याद् रु॒द्रम् प्र॒जा अ॒न्वव॑सृजेत् ।
न हु॒त्वाऽन्वी॑क्षेत ।
यद॒न्वीक्षे॑त॒ चक्षु॑रस्य प्र॒मायु॑कँ स्यात् ।
तस्मा॒न्नान्वीक्ष्यः॑ ॥ [22]
पद-पाठः
न । सा॒द॒य॒ति॒ ।
अस॑न्नात् । हि । प्र॒जा इति॑ प्र-जाः । प्र॒जाय॑न्त॒ इति॑ प्र-जाय॑न्ते ।
न । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ ।
यत् । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु-व॒ष॒ट्कु॒र्यात् । रु॒द्रम् । प्र॒जा इति॑ प्र-जाः । अ॒न्वव॑सृजे॒दित्य॑नु-अव॑सृजेत् ।
न । हु॒त्वा । अन्विति॑ । ई॒क्षे॒त॒ ।
यत् । अ॒न्वीक्षे॒तेत्य॑नु-ईक्षे॑त । चक्षुः॑ । अ॒स्य॒ । प्र॒मायु॑क॒मिति॑ प्र-मायु॑कम् । स्यात् ।
तस्मा॑त् । न । अ॒न्वीक्ष्य॒ इत्य॑नु-ईक्ष्यः॑ ॥ [22]
भट्टभास्कर-टीका
8न सादयतीत्यादि ॥ असन्नादपतितात् उच्छ्रिताद्धि प्रजननात् प्रजाः प्रजायन्ते । यद्वा - असादितात्क्वचित्क्षिप्तात्प्रजननात्प्रजानामुत्पत्तिः । नानुवषट्करोतीत्यादि । प्रजा अनु प्रजा लक्षीकृत्य रुद्रमवसृजेत् प्रजासु रुद्रं प्रवेशयेदित्यर्थः । प्रजात्वादादित्यग्रहस्य । न हुत्वेति । हुत्वाऽन्वीक्षमाणस्य अध्वर्योश्चक्षुः प्रमायुकं विनाशशीलं स्यात्, तस्मान्नान्वीक्ष्योहुतस्सोमः ॥
इति षष्ठे पञ्चमे षष्ठोनुवाकः ॥